________________ 197 शब्दानित्यत्वप्रतिपादनम् ] न्यायभाष्यम्। 197 इतश्च न सन्ति विकाराः प्रकृतिविवृद्धौ विकारवृद्धेः // 41 // प्रकृत्यनुविधानं विकारेषु दृष्टं यकारे इस्वदीर्घानुविधानं नास्ति येन विकारत्वमनुमीयत इति // 41 // न्यूनसमाधिकोपलब्धेविकाराणामहेतुः // 42 // द्रव्यविकारा न्यूनाः समा अधिकाश्च गृह्यन्ते. तद्वदयं विकारो न्यूनः स्यादिति / द्विविधस्यापि हेतोरभावादऽसाधनं दृष्टान्तः- अत्र नोदाहरणसाधाद् हेतुरस्ति न वैधात् . अनुपसंहृतश्च हेतुना दृष्टान्तो न साधक इति // . प्रतिदृष्टान्ते चानियमः प्रसज्येत / विकारपक्षेऽनुपपत्त्यन्तरमाह- प्रकृतीति, प्रकृतेर्वृद्धौ सत्यामेव विकारस्यापि वृद्धिर्भवतीति प्रकृतिविकारभावस्थले प्रसिद्धं यथा तन्तुवृद्धया पटवृद्धिरिति, 'ग्रामण्यः' इत्यादिस्थले तु प्रकृतिभूतस्येकारस्य दीर्घत्वेन वृद्धौ सत्यामपि यकारस्य वृद्धिर्न दृश्यते तस्मान्न विकारपक्षः संभवतीत्यर्थः / ब्याचष्टेप्रकृतीति, प्रकृत्यनुविधानम्= प्रकृतेरनुकरणम् सादृश्यं विकारेषु दृश्यते यकारे तु प्रकृतिभूतेकारस्य यो धर्मो हस्वत्वं दीर्घत्वं वा तदनुविधानम् ‘दध्यत्र ' इत्यादिस्थले नास्तीति न विकारपक्षः संभवतीत्यर्थः / येन प्रकृत्यनुविधानेन / अत्र- " महद्भिः खलु तूलपिण्डैरारब्धः स्थूलः पिण्डः अल्पैश्वारब्धो महानल्प इति दृष्टं तद्वदिहापि दीर्धकारविकारस्य यकारस्य इकारविकाराद् भवितव्यं विशेषेण. न चास्ति विशेषस्तस्मान्न प्रकृतिविकारभाव इत्यर्थः” इति तात्पर्यटीका // 41 // उक्तस्य पूर्वपक्ष्युचरमाह- न्यूनेति, प्रकृत्यपेक्षया विकाराणां कचित् न्यूनत्वं भवति यथा तूलापेक्षया तन्तो.. कचित् समत्वं भवति यथा सुवर्णतत्कार्ययोः. कचिच्चाधिक्यं भवति यथा बीजापेक्षया वृक्षस्येति न प्रकृतिवृद्धौ विकारवृद्धिनियम इति पूर्वसूत्रेण यो वर्णविकारप्रत्याख्यानहेतुरुक्तः सोऽहेतुरेवेति न वर्णविकाराभावसाधक इत्यर्थः / व्याचष्टे- द्रव्येति, विकाराणां न्यूनत्वादिकमुदाहृतमेव / प्रकृतमाह- तद्वदिति, यथा तूलविकारस्तन्तुः तूलापेक्षया न्यून एव भवति तद्वत् अयं विकारः= वर्णलक्षणो विकारोपि प्रकृत्यपेक्षया न्यूनो भवति यथा एकमात्रिकेकारापेक्षया यकारस्यार्धमात्रिकत्वेन न्यूनत्वं तथा च प्रकृत्यपेक्षया विकारस्य न्यूनाधिकभावसंभवात् इकारादिवर्णानां यकारादिवर्णा विकारभूता एवेति स्वीकार्यमिति विकारपक्ष उपपन्न इत्यर्थः / सूत्रं व्याख्याय तन्निराचष्टे-द्विविधस्येति, हेतोः= व्याप्तेः, उक्तो द्रव्यविकारलक्षणो दृष्टान्तो वर्णविकाराणामसाधनम्= असाधक इत्यन्वयः / व्याप्तिद्वैविध्याभावमाह- अत्रेति, उदाहरणसाधाद् हेतुः= अन्वयव्याप्तिः, उदाहरणवैधाद् हेतुः= व्यतिरेकव्याप्तिः / उपसंहरति- अनुपसंहृत इति, हेतुना= व्याप्त्या, दृष्टान्तोपसंहारो हि व्याप्त्या भवतीत्यत्र हेतुशब्दो व्याप्तिपरो विज्ञेयः। यत्र यत्र विकारत्वं तत्र तत्र न्यूनत्वं वाधिकत्वं वेति नियमो नास्ति- परस्परं व्यभिचारादित्यन्वयव्याप्तेरभावः, यत्र विकारत्वं नास्ति तत्र न्यूनत्वादिकं नास्तीति व्यतिरेकव्याप्तिरपि नास्ति- अश्वगजयोर्व्यभिचारात्. यत्र न्यूनत्वादिकं नास्ति तत्र विकारत्वं नास्तीत्यपि व्यतिरेकव्याप्ति स्ति- समाधिकविकारेषु व्यभिचारादित्यर्थः // प्रत्युदाहरणमाह- प्रतिदृष्टान्ते इति, प्रतिदृष्टान्ते विद्यमाने त्वदुक्तस्यानियमः प्रसज्यते इत्यन्वयः, पूर्वस्थाने प्राप्तः परः पूर्वस्य विकार एव भवतीति नियमो नास्ति- वृषभस्थाने नियुक्तस्याश्वस्य वृषभविकारत्वासंभवात् . तद्वदेव इकारस्थाने प्रयुक्तस्य यकारस्य इकारविकारत्वं नोपपद्यते इति प्रतिदृष्टान्तसत्त्वात्