________________ 196 प्रसन्नपदापरिभूषितम्। [2 अध्याये. २ाहिकेन विक्रियन्ते वणा इति। न चैतस्मिन् पक्षे शब्दान्वाख्यानस्याऽसंभवो येन वर्णविकारं पतिपद्येमहीति। न खलु वर्णस्य वर्णान्तरं कार्यम्- न हि इकाराद् यकार उत्पद्यते यकाराद्वा इकारः, पृथक्स्थानप्रयत्नोत्पाद्या हीमे वर्णास्तेषामन्योऽन्यस्य स्थाने प्रयुज्यते इति युक्तम् / एतावच्चैतत् परिणामो विकारः स्यात् कार्यकारणभावो वा, उभयं च नास्ति तस्मान्न सन्ति वर्णविकाराः // वर्णसमुदायविकारानुपपत्तिवच्च वर्णविकारानुपंपत्तिः / - "अस्तेर्भूः" "ब्रुवो वचिः" इति यथा वर्णसमुदायस्य धातुलक्षणस्य कचिद्विषये वर्णान्तरसमुदायो न परिणामो न कार्य शब्दान्तरस्य स्थाने शब्दान्तरं प्रयुज्यते तथा वर्णस्य वर्णान्तरमिति // 40 // आदेशविधायकत्वेन साफल्यादित्यर्थः / स्वयं व्याचक्षाणः सिद्धान्तमाह-नेति / यदि वर्णानां विकाराभावपक्षे व्याकरणस्य वैयर्थ्य स्यात् तदा तत्सार्थक्याथै वर्णविकारः स्वीक्रियेतापि न चैवमस्तीत्याह-न चेति, एतस्मिन् पक्षे= वर्णविकाराभावपक्षे / वर्णान्तरस्य वर्णान्तरकार्यत्वं प्रत्याचष्टे- न खल्विति, विकारपक्षे वर्णान्तरं वर्णान्तरकार्य स्यात् न चैतदुपपद्यते इत्यर्थः / कार्यकारणभावाऽभावे हेतुमाहन हीति / स्वमतमाह-पृथगिति, पृथक्पृथक्स्थानप्रयत्नाभ्यामुत्पाद्या वर्णास्तत्र इकारयकारयोः .. भेदाभावेपि प्रयत्नभेदोस्त्येव यथा विवृतप्रयत्न इकार ईषत्स्पृष्टप्रयत्नश्च यकार इति. तदेतद् व्याकरणे प्रसिद्धम् , तथा च पृथक्स्थानप्रयत्नोत्पाद्यानां वर्णानां परस्परं कार्यकारणभावो नोपपद्यते- कार्यस्य कारणापेक्षया सर्वथा वैलक्षण्यस्यासंभवादिति तेषां वर्णानां मध्येऽन्यो वर्णः अन्यस्य वर्णस्य स्थाने प्रयुज्यते इत्येव युक्तमित्यादेशपक्षः सिद्धः- अत्र पक्षे पूर्वोत्तरवर्णयोः साम्यापेक्षाया अभावादित्यन्वयः / अन्यत् पूर्वपक्षिमतं निराकरोति- एतावदिति, वर्णानां वर्णान्तररूपेण परिणामपक्षेपि परिणामोयं विकारो वा स्यात् कार्यकारणभावः= कार्यकारणभावेन कार्य वा स्यात् एतदुभयं नोपपद्यते इति प्रतिपादितमेवेति न विकारपक्षो वा कार्यकारणभावपक्षो वा संभवति किं त्वादेशपक्ष एव संभवति तत्र च वर्णानामनित्यत्वं स्पष्टमेवेत्युपसंहरति- तस्मादिति / अत्र- " ननु मा भूद्विकारः परिणामो ऽर्थान्तरं तु भविष्यति ततो नित्या वर्णा भविष्यन्तीत्याह- एतावच्चैदिति" इति तात्पर्यटीका, परि. णामपक्षे परिणममानपदार्थस्य स्वरूपनाशाऽस्वीकारान्नित्यत्वमित्यर्थः / अत्र " एतावचैतत् " इत्यत्र ‘स चायम् / इति वक्तव्यमासीत् / विकारश्च प्रकृतिविकृतिभावमूलक इतिविशेषो विज्ञेयः // __ वर्णविकारानुपपत्तौ दृष्टान्तमाह- वर्णेति, वर्णसमुदायः= पदं तच्चानित्यमेवेति पूर्वपक्षिणापि स्वीकृतम अनित्यस्य च पदस्य विकारस्वीकारावश्यकताया अभावात-अनित्यत्वनिवृत्त्यर्थमेव वर्णानां विकारस्वीकारात् विकारस्थले प्रकृतिस्वरूपस्य विकृतिष्वनुवृत्तिस्वीकारेण नित्यत्वस्वीकारादिति पदानामनित्यानां विकारानुपपत्तिरिति यथा " अस्तेर्भूः" इत्यत्र अस्धातुस्थाने भूरित्यादेश एव स्वीक्रियते न तु विकारस्तथा 'दध्यत्र ' इत्यादिस्थले पूर्ववर्णस्थानेप्युत्तरवर्णस्य आदेश एव स्वीकार्यों न विकार इति वर्णविकारानुपपत्तिरित्यर्थः / अत्र-" वर्णस्यैकस्य वास्तवत्वात् कदाचिद्विकार उपपद्यते. बुद्धिसमाहारमात्रस्य तु तत्समुदायस्य न विकारसंभवस्तस्मात् तत्राकामेनाप्यादेशोपदेशो वक्तव्यः स वरं क्लप्तत्वादेकस्मिन्नप्यस्तु वर्णे इति" इति तात्पर्यटीका / स्वयं व्याचष्टे- अस्तेरिति, एतद् व्याकरणे प्रसिद्धम् , वर्णसमुदायस्य= अस् इत्यादेः, कचिद्विषये= आर्धधातुकप्रत्यये परे सति प्राप्तो वर्णान्तरसमुदायः= भूरितिपदं न परिणामः संभवति. न वा कार्यम्- पूर्ववर्णसमुदायस्यानुवृत्तेरभावात्. कार्यपक्षे परिणामपक्षे च कारणानुवृत्तेः प्रत्यक्षत्वात्. किं तु अस् इति शब्दान्तरस्य स्थाने भूरिति शब्दान्तरं प्रयुज्यते तथा च तद्वदेव 'दध्यत्र ' इत्यादौ वर्णान्तरस्य स्थानेपि वर्णान्तरं प्रयुज्यते इत्येव स्वीकार्यम्- क्लोनैव कार्यसंभवे वर्णानां विकारकल्पनायां गौरवादित्यर्थः / क्लाश्चायमादेशपक्ष एव // 40 //