________________ शब्दानित्यत्वप्रतिपादनम् ] न्यायभाष्यम् / 195 अविकारे चाविशेषः। यत्रेमौ इकारयकारौ न विकारभूतौ- 'यतते. यच्छति. प्रायस्त' इति. 'इकारः इदम्' इति च, यत्र च विकारभूतौ- 'इष्टया' 'दध्याहर' इति उभयत्र प्रयोक्तुरविशेषो यत्नः श्रोतुश्च श्रुतिरित्यादेशोपपत्तिः // प्रयुज्यमानाऽग्रहणार्छ / न खलु इकारः प्रयुज्यमानो यकारतामापद्यमानो गृह्यते, किं तर्हि 1. इकारस्य प्रयोगे यकारः प्रयुज्यते. तस्मादविकार इति // . अविकारे च न शब्दान्वाख्यानलोपः। इकारस्य. अन्यस्य= यकारस्य / उपपन्नः= उपपद्यते इत्यन्वयः, स्पष्टं सर्वम् / इकारयकारयोः प्रयत्नभेदात् साहित्यं नोपपद्यते तेन प्रकृतिविकारभावो नोपपद्यते- प्रकृतिविकृतिभूतयोः सुवर्णकटकयो साहित्यदर्शनादित्याशयः // ___ आदेशपक्षे उपपत्त्यन्तरमाह- अविकारेति, विकृताऽविकृतयोर्वर्णयोरविकारे= आदेशपक्षे अविशेषः= साम्यमुपपद्यते न तु विकारपक्षे इत्यन्वयः / स्वयं व्याचष्टे- यत्रेति, न विकारभूतौ= अविकृतौ यथा- यतते इत्यादिस्थले यत्यादिधातुरेव यकारादिरित्ययं यकारो न विकारभूतः, इकार इत्यादिस्थले इकारोपि न विकारभूतः, विकारभूताबुदाहरति- यत्र चेति, 'इष्ट्या' इत्यत्र यजधातुयकारस्य संप्रसारपेन इकारादेशो जात इत्ययमिकारो विकारभूतः, 'दध्याहर' इत्यत्र च "इको यणचि" इत्यनेन दधिशब्देकारस्य यकारादेशो जात इत्ययं यकारो विकारभूतः, स्ववक्तव्यमाह- उभयत्रेति, उभयत्र विकृताविकृतयोः, यथा 'इकारः' इत्यत्राविकृतस्येकारस्योच्चारणे वक्तुः प्रयत्नो भवति श्रोतुश्च श्रवणं भवति तथैव 'इष्ट्या ' इत्यत्र विकृतस्येकारस्योचारणे वक्तुः प्रयत्नः श्रोतुश्च श्रवणं भवति, एवमेव 'दध्याहर' 'यतते' इत्यादिस्थलेषु विकृताविकृतयोर्यकारयोः यत्नस्य श्रवणस्य च साम्यं विज्ञेयम् , एतत्साम्यं च विकारपक्षे नोपपद्यते- विकृताविकृतयोविशेषस्यावश्यकत्वात् लोकेपि दुग्धादिषु तथा दर्शनाद् अन्यथा विकृताविकृतत्वमेव न स्यात् , विशेषश्च वक्तुः प्रयत्ने श्रोतुश्च श्रवणे एव स्याद् न च प्रयत्नश्रवणयोर्विशेष उपलभ्यते इति न विकारपक्ष उपपद्यते / आदेशपक्षे तु 'इष्ट्या' इत्यत्रेकारो न विकारभूत इति 'इकारः' 'इट्या' इत्युभयत्रेकारस्याविकृतत्वेन साम्यात् तत्प्रयत्नश्रवणयोरपि साम्यमुपपद्यते इत्यादेशपक्ष एवोपपपद्यते न विकारपक्ष इत्याह- इत्यादेशोपपत्तिरिति // ___अविकारपक्षे उपपत्त्यन्तरमाह-प्रयुज्यमानेति, प्रयुज्यमानस्य= पूर्वप्रयोगविषयस्येकारादेर्यकारादिवर्णप्रयोगकाले ग्रहणाभावादपि विकारपक्षो नोपपद्यते- प्रकृतिविकृतिभावस्थले च प्रकृतेर्विकारावस्थायामपि ग्रहणं भवति यथा सुवर्णस्य कटकाद्यवस्थायां नैवं प्रकृतेस्तीति न विकारपक्षः किं तु आदेशपक्ष एव, आदेशपक्षे च पूर्ववर्णस्य निवृत्तिस्वीकारादुत्तरवर्णप्रयोगकाले ग्रहणापत्तिर्नास्तीत्यर्थः / स्वयं व्याचष्टेनेति / पूर्वपक्षी तत्त्वं जिज्ञासते- किमिति / उत्तरमाह- इकारस्येति, 'दध्यत्र' इत्यत्र इकारस्य प्रयोगे प्राप्ते इकारस्थाने यकारः प्रयुज्यते इत्यादेशपक्षः सिद्ध इत्यर्थः / उपसंहरति- तस्मादिति / स्पष्टं सर्वम् / अत्र- " यथा हि क्षीरं कालविपाकापेक्षं दधि भवद् दृश्यते न तथेकारो यकारो भवन् (दृश्यते) इत्यर्थः” इति तात्पर्यटीका // ननु वर्णानां विकाराभावपक्षे व्याकरणशास्त्रस्य वैयर्थ्यं स्यात् ? इत्याशङ्कयाह- अविकारेति, अविकारे विकाराभावपक्षे= आदेशपक्षे शब्दान्वाख्यानस्य= व्याकरणशास्त्रस्य लोपः= वैयर्थ्यं नास्ति