________________ प्रसन्नपदापरिभूषितम्- [2 अध्याये. २काहिकेइकारस्व प्रयोग विषयकृते यद् इकारः स्थानं जहाति तत्र यकारस्य प्रयोगं ब्रुवते, संहितायां विषये इकारो न प्रयुज्यते तस्य स्थाने यकारः प्रयुज्यते स आदेश इति, उभयमिदमुपदिश्यते तत्र न ज्ञायते किं तत्त्वमिति // आदेशोपदेशस्तत्त्वम् विकारोपदेशे ह्यन्वयस्याग्रहणाद् विकाराननुमानमिति / सत्यऽन्वये किंचिद् निवर्तते किंचिदुपजायते इति शक्येत विकारोऽनुमातुं न चाऽवयो गृह्यते तस्माद् विकारो नास्तीति // भिन्नकरणयोश्च वर्णयोरप्रयोगे प्रयोगोपत्तिः। विदृतकरण इकारः ईषत्स्पृष्टकरणो यकारः ताविमौ पृथक् करणाख्येन प्रयत्नेनोच्चारणीयौ तयोरेकस्याऽप्रयोगेऽन्यस्य प्रयोग उपपन्न इति // इकारादेविनाशाभावादन पक्षे नित्यत्वं प्राप्तमित्यर्थः / पक्षान्तरमाह- केचिदिति, केचित्= वैयाकरणप्रभृतयः, विषयकृत= विषयीकृते= प्राप्ते इत्यर्थः, यत् स्थानमित्यन्वयः, अत्रापि पक्षे वर्णानित्यत्वं न प्राप्नोति- इकारादेः प्रयोगस्य परित्यागेपि विनाशित्वासंभवादित्याशयः। स्वाभिमतमादेशपक्षमाहसंहितायामिति, संहितायाम्= अव्यवहितसंयोगे, तदेतद् व्याकरणे प्रसिद्धम् / तस्य इकारस्य, या वर्णान्तरस्थाने वर्णान्तरोत्पत्तिः स आदेश इत्यर्थः, अत्र पक्षे पूर्ववर्णविनाशेनोत्तरवर्णोत्पत्त्या च वर्णानामनित्यत्वं प्राप्नोतीत्याशयः / उपसंहरति- उभयमिति, उभयम्= विकार आदेशश्च. तत्र पूर्वोक्तपक्षद्वये विकारस्तृतीयपक्षे चादेश इत्युभयमित्युक्तम् / प्राप्तसंशयमाह- तत्रेति, तत्र विकारादेशयोर्मध्ये. विकारपक्षो वा तत्त्वमादेशपक्षो वा तत्त्वमिति निश्चयाभावात् तत्र संशय इत्यन्वयः // संशयनिरासाथै तत्त्वमाह- आदेशेति / आदेशपक्ष एव यथार्थो न विकारपक्ष इत्यर्थः / विकारपक्षं प्रत्याचष्टे- विकारेति, विकारोपदेशे= विकारपक्षे ह्यन्वयः= पूर्वपदार्थस्योत्तरोत्तरमनुवृत्तिदृश्यते यथा सुवर्णस्य कटकादिषु. 'दध्यत्र' इत्यादिवर्णस्थले तु अन्वयस्याऽग्रहणात्= पूर्ववर्णस्य इकारादेरुत्तरवर्णेषु यकारादिषु अनुवृत्तेरदर्शनाद् विकारस्यानुमानं न संभवति न हि यकारादिषु इकारादीनां गन्धोप्यस्तीत्यर्थः / अत्र " विकारोपदेशे” इति पदं व्यर्थमेव किं वा 'अन्वयस्य ग्रहणात् / इति वक्तव्यमासीत् / स्ववाक्यं स्वयमेव व्याचष्टे- सतीति, अन्वये= अनुवृत्तौ, यथा सुवर्णस्य कटकादिष्वनुवृत्त्या सुवर्णकटकयोः प्रकृतिविकृतिभावः, सुवर्णस्य किंचित्= कुण्डलाकृतिनिवर्तते तत्र किंचित् कटकाकृतिरुपजायते सुवर्ण तूभयत्रापि सममनुवर्तते इति तत्र प्रकृतिविकारभावः स्वीक्रियते, प्रकृते च न पूर्ववर्णखरूपस्योत्तरवणेष्वनुवृत्तिर्गृह्यते इति न वर्णानां विकारोस्तीति ज्ञायते इत्याह- न चेति / / अविकारपक्षे उपपत्त्यन्तरमाह- भिन्नेति, करणम् प्रयत्नः, तत्र विवृतप्रयत्न इकारः ईषत्स्पृष्टप्रयत्नो यकार इति व्याकरणे प्रसिद्धम् , भिन्नकरणयोः= भिन्नप्रयत्नोच्चार्ययोर्वर्णयोर्मध्ये एकस्याप्रयोगेऽन्यस्य प्रयोग उपपद्यते यथेकारस्याऽप्रयोगे यकारस्य प्रयोग इति पूर्ववर्णस्याऽप्रयोगेन निवृत्तिरापद्यते न च निवृत्तस्य प्रकृतित्वमुपपद्यते तस्मान्न वर्णानां परस्परं प्रकृतिविकृतिभाव उपपद्यते, यदि प्रकृतिविकृतिभावः स्यात्तदा पूर्ववर्णस्य निवृत्तिन स्याद् यथा सुवर्णस्य कटककुण्डलादिषु निवृत्तिन भवति. भवति च पूर्ववर्णस्याऽप्रयोगेन निवृत्तिरिति न प्रकृतिविकारभाव उपपद्यते. किं च प्रकृतिविकृतिभावे उच्चारणानुकूलप्रयत्नस्य भेदो न स्यादित्यर्थः / किं वेकारादीनामप्रयोगे एव हि यकारादीनां प्रयोगसंभवात् विरुद्धत्वं प्राप्तं तेन प्रकृतिविकारभावस्याभावः सिद्धः- विरुद्धयोः प्रकृतिविकारभावाsसंभवादित्यर्थः / स्वयं व्याचष्टे- विवृतेति / तौ= इकारयकारौ / तयोः= इकारयकारयोर्मध्ये एकस्य==