________________ शब्दानित्यत्वप्रतिपादनम् ] - न्यायभाष्यम्। 193 तीव्रमन्दधर्मतया भिन्नाः श्रूयन्ते. तदुभयं नोपपद्यते- नानाभूतानामुत्पद्यमानानामयं धर्मो नैकस्य व्यज्यमानस्येति / अस्ति चायं विभागो विभागान्तरं च तेन विभागोपपत्तेर्मन्यामहे- न प्रतिद्रव्यं रूपादिभिः सह शब्दः संनिविष्टो व्यज्यते इति // 39 // द्विविधश्चायं शब्दः- वर्णात्मको ध्वनिमात्रश्च तत्र वर्णात्मनि तावत् विकारादेशोपदेशात् संशयः // 40 // 'दध्यत्र' इति केचिद् इकारः इत्वं हित्वा यत्वमापद्यते इति विकारं मन्यन्ते, केचिद् तन्तुभेदेन रूपादिभेद उपपद्यते तथौकस्मिन्नपि द्रव्ये वीणादौ स्वरस्थानभेदेन षड्जादिशब्दभेदः किं न स्यादित्याशङ्कय सांख्यमतेऽनुपपत्त्यन्तरमाह- यच्चेति, विभागानन्तरम् षड्जादिशब्दानां भेदेनोत्पत्यनन्तरं किं वा स्वस्वश्रुतिभेदेन स्वस्वस्थानभेदेन च भेदे सत्यपि समानाः श्रुतयो येषां ते समानश्रुतयः अत एव सधर्माणः अत एव सरूपाः= एकरूपा अपि शब्दाः षड्जादयस्तीव्रत्वमन्दत्वादिधर्मेण यद् भिन्नाः कालभेदेन श्रूयन्ते तन्नोपपद्यते सांख्यमते इत्यन्वयः, अयमर्थः- तीव्राकुमुदतीमन्दाछन्दोवतीति चतुःश्रुत्यात्मकः षड्जो वीणायां स्वस्थाने प्रकटीभूतोपि यदुत्तरोत्तरकाले मन्दो भवति तन्नोपपद्यते न ह्येकस्मिन्नेव तन्तौ तपस्योत्तरोत्तरकाले भेदो दृश्यते तस्मादुत्तरोत्तरं शब्दसंतानः स्वीकार्यस्तथा च शब्दस्योत्पत्तिः सिद्धा भवति नामिव्यक्तिः. शब्दस्य श्रोत्रेण संबन्धोपपत्त्यर्थं च व्यापकीभूताकाशाश्रितत्वं स्वीकार्यमिति न शब्दस्य रूपादिसमानाश्रयत्वमुपपद्यते इति / उक्तानुपपत्तिद्वयमाहतदुभयमिति, उभयम्= षड्जगान्धारादीनां शब्दानां परस्परं विभागः तारत्वमन्द्रत्वादिरूपश्च प्रतिस्वरमवान्तरविभागश्च सांख्यमते नोपपद्यते / उक्ते हेतुमाह- नानेति, अयम्= उक्तलक्षणः धर्मः= धर्मभेदः, एकस्मिन् पदार्थे धर्मभेदासंभवादित्यर्थः। उक्तधर्मभेदसत्तामाह- अस्तीति, विभागः= षड्जत्वादिना भेदः, विभागान्तरम्= तारत्वमन्द्रत्वादिनाऽवान्तरभेदः / उपसंहरति-तेनेति, तेन= विभागसत्त्वेन, विभागोपपत्तेः= विभागदर्शनात् विभागोपपत्त्यर्थ वेत्यर्थः / उक्तेन सिद्धमाह-न प्रतिद्रव्यमिति, तदेतत् प्रतिपादितमेव / अत्र- "विभागश्च विभागान्तरं चेति विभक्त्यन्तरम् " इति वार्तिकम् // 39 // / __अग्रिमसूत्रावतारार्थ शब्दं द्विधा विभजते-द्विविधश्चेति, ध्वनिमात्रः= वर्णातिरिक्तो ध्वन्यात्मकः / प्रकृतमाह- तत्रेति, 'वर्णात्मनि विकारादेशोपदेशात् नित्यत्वानित्यत्वयोः संशयः' इत्यन्वयः / अत्र" तदेवम्- रूपादिसंनिविष्टः शब्दो व्यज्यते इति सांख्यमते दूषिते स एव सांख्यो वर्णेषु प्रकृतिविकारभावश्रुतेम॒त्सुवर्णादिवत् परिणामिनित्या वर्णा इति यदि प्रत्यवतिष्ठते तत्र परीक्षामारभते-द्विविधश्चायं शब्द इति / विकारोपदेशोपि न ध्वनिमात्रे शब्देऽस्तीति न तस्य परिणामिनित्यतामापादयितुमर्हति केवलं वर्णात्मन्यापादयेद् यद्यऽसंदेहः स्याद् अस्ति तु तत्रापि संदेहस्तथा हि- "इको यणचि" इत्यादिकं विकारोपदेशमाचक्षते एके. अन्ये त्वादेशोपदेशं तत्र व्याख्यातृविप्रतिपत्तेः संशयः तन्नाऽपरीक्ष्य शक्यमवधारयितुमित्यर्थः, तत्र परीक्षायामादेशोपदेशस्तत्त्वमित्यवधारयति- आदेशोपदेश इति" इति तात्पर्यटीका / वस्तुतस्त्वत्र पूर्वपक्षो मीमांसकस्य प्रतिभाति- सांख्यैः प्रकृतिपुरुषातिरिक्तस्य नित्यत्वास्वीकारादिति विचार्यम् / विकारेति- "इको यणचि" इत्यादिस्थलेषु केचिद् वर्णानां विकारोपदेशं केचिच्चादेशोपदेशं व्याचक्षते तत्र विकारपक्षे इको विकारो यण इति प्राप्तं तत्र यथा सुवर्णादीनां कटकादिरूपेण विकारे= परिणामेपि सुवर्णस्वरूपविनाशो न भवति- अनुवर्तमानत्वात् तथा वर्णानामपि विकारपक्षे परिणामिनित्यत्वेनाऽविनाशित्वं प्राप्नोति तेनाऽनित्यत्ववादो निरस्तो भवति, आदेशपक्षे च पूर्ववर्णस्थाने उत्तरवर्णादेशेन पूर्ववर्णस्य विनाश उत्तरवर्णस्य च तत्रोत्पत्तिः प्राप्नोतीति शब्दानित्यत्वं प्राप्नोति, तत्र विकारादेशयोविप्रतिपत्तेः शब्दे नित्यत्वानित्यत्वसंशयो जात इतिहेतोर्विचार्यते इति सूत्रार्थः / व्याचष्टे- दध्यत्रेति, इति= इत्यत्र, केचित्= मीमांसकादयः / इत्वादिधर्मपरित्यागेपि धर्मिण