SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 192 प्रसन्नपदापरिभूषितम्- [2 अध्याये. २आह्निकेप्रतिद्रव्यं रूपादिभिः सह संनिविष्टः शब्दः समानदेशो व्यज्यते इति नोपपद्यते। कथम् ? विभक्त्यन्तरोपपत्तेश्व समासे // 39 // संतानोपपत्तेश्चेति चार्थः, तद् व्याख्यातम् / यदि रूपादयः शब्दश्च प्रतिद्रव्यं समस्ताः= समुदितास्तस्मिन् समाससमुदाये यो यथाजातीयकः संनिविष्टस्तस्य तथाजातीयस्यैव ग्रहणेन भवितव्यं शब्दस्य रूपादिवत्, तत्र योऽयं विभागः एक द्रव्ये नानारूपा भिन्नश्रुतयो विधर्माणः शब्दा अभिव्यज्यमानाः श्रूयन्ते. यच्च विभागानन्तरं सरूपाः समानश्रुतयः सधर्माणः शब्दाः शब्दसंतानः उपपद्यते तेन शब्दग्रहणमुपपद्यते, एवं हि आकाशाश्रयः शब्दः स्यात् आकाशस्य व्यापकत्वेन तन्निष्ठस्य शब्दसंतानस्य श्रोत्रसंबन्धः संभवीति श्रवणमुपपद्यते इति हेतोः शब्दोऽस्पर्श व्यापि घ यद् द्रव्यमाकाशस्तदाश्रित इति ज्ञायते कम्पसमानाश्रय इति तु न संभवतीत्यर्थः // 38 // पुनरपि सांख्यमतं दूषयति-प्रतिद्रव्यमिति, रूपादिभिः सह प्रतिद्रव्यम्= प्रत्येकं घण्टादिद्रव्ये शब्दः संनिविष्टः= स्थितस्तत्रैव समानदेशः= रूपादिसमानदेशो व्यज्यते इति नोपपद्यते इत्यन्वयः / उक्तानुपपत्तौ सांख्यवादी हेतुं जिज्ञासते- कथमिति / सूत्रेणोत्तरमाह- विभक्त्यन्तरेति, समासे= समुदाये= शब्दसंताने विभक्त्यन्तरस्य तीव्रत्वमन्दत्वादिरूपेण विभागस्य उपपत्तेः= संभवात् इत्यन्वयः, उत्तरोत्तरं शब्दपरम्परा शब्दसंतानस्तत्र कश्चिच्छब्दस्तीत्रः कश्चिच्च मन्द इत्युपपद्यते यदा हि रूपादिसमानाश्रयः शब्दस्तदा रूपादिवदेव संतानहीनः स्यादित्येक एव स्याद् एकस्य च शब्दस्य तीव्रत्वमन्दत्वादिभेदो नोपपद्यते-विरोधादिति सूत्रार्थः / अत्र- " समासः= समुदाय एतच्च स्पर्शवद्व्यवृत्तिषु शब्देषु न प्राप्नोति गन्धादिवद् यथा प्रतिद्रव्यमेको गन्ध एवं प्रतिद्रव्यमेकः शब्द इति / संतानोपपत्तेश्चेति चार्थः- यद्ययं गन्धादिभिः सह संनिविष्टः स्यात् नान्यत्र वर्तमानः श्रोत्रे उपलभ्येत सस्मात् संतानवृत्तित्वादाकाशाश्रयः शब्द इति" इतिवार्तिकम् / तथात्र-" सांख्यानां रूपरसगन्धस्पर्शशब्दसमुदायो वीणावेणुशङ्खादिद्रव्यं तत्र समासे= समुदाये स्थित एव व्यज्यते (शब्दः) इति दर्शनम. तस्मिन् समुदाये सांख्याभिमते विभक्त्यन्तरोपपत्तेश्च न व्यज्यते शब्दः, यदि समुदाये ब्यज्येत शब्दः? विभक्तिश्च षड्जधैवतगान्धारादिभेदेन विभागान्तरं च षड्जजातीयस्यैव तारमन्द्रादिरूपं नोपपद्यतेन हि तद्गतानां गन्धादीनामेकस्मिन्नेव द्रव्ये वीणादौ नानाजातीयानां च प्रतिक्षणं भेदो दृश्यते तस्माद् विभक्त्यन्तरोपपत्तेने समासे व्यज्यते शब्दोऽपि तु आकाशगुणः क्रियते (उत्पाद्यते) इति सांप्रतम् / / इति तात्पर्यटीका / अत्र पक्षे 'न व्यज्यते' इत्यध्याहार्य सूत्रे तस्य 'समासे न व्यज्यते / इत्यन्वय इति विज्ञेयम् / व्याचष्टे- संतानेति, चार्थः= सूत्रघटकचशाब्दाद् ग्राह्यः / तत्= शब्दसंतानः / सांख्यमतेन यथा संभवति तदाह- यदीति, समस्ता इत्यस्य समुदिताः- एकत्रीभूता इत्यर्थः, यदि रूपादिसमानाश्रयः शब्दस्तदा तस्मिन् समाससमुदाये= समासेन किं वा समस्तानां रूपशब्दादीनां समूहे यः शब्दो यथाजातीयकः= तीव्रत्वादिरूपेण यादृशः स्थितस्तस्य शब्दस्य तथाजातीयस्य= तीब्रादिरूपस्यैव ग्रहणेन भवितव्यम्= प्रत्यक्षं संभवति नान्यथा रूपादिवत्= यथा रूपादिकं यादृशं तत्र संनिविष्ठं तादृशमेव गृह्यते नान्यथाभूतमित्यन्वयः / अत्रानुपपत्तिमाह- तत्रेति, उक्तपक्षे विवक्षितविभागानुपपत्तिरित्यर्थः, विभागमाह- एकेति, एकद्रव्ये एकस्मिन्नपि द्रव्ये वीणादौ नानारूपाः= षड्जगान्धारादिरूपा भिन्नाः श्रुतयः तीब्राकुमुदत्यादयो येषां ते भिन्नश्रुनय अत एव विधर्माणः- परस्परं भिन्नाः शब्दाः श्रूयन्ते एतादृशं भेदेन श्रवणं नोपपद्यते- रूपादिसमानाश्रयस्य शब्दस्य रूपादिवदेव एकस्मिन्नेबाश्रये भेदासंभवादित्याशयः, षड्जादिसप्तस्वराणां यथाविभागं द्वाविंशतिः श्रुतयः संगीतशास्ने मनिमिते संगीतसुदशनेपि च प्रसिद्धास्तदुक्तम्- 'तीव्राकुमुदती मन्दा' इत्यादि / ननु यथैकस्मिन्नपि पटे
SR No.004320
Book TitleNyayadarshanasya Nyayabhashyam
Original Sutra AuthorN/A
AuthorVatsyayan
PublisherManilal Iccharam Desai
Publication Year1922
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy