________________ 191 शब्दानित्यत्वप्रतिदपानम् ] न्यायभाष्यम् / कम्पसमानाश्रयस्य चाऽनुनादस्य पाणिप्रश्लेषात् कारणोपरमादभावः, वैयधिकरण्ये हि प्रतिघातिद्रव्याप्रश्लेषात् समानाधिकरणस्यैवोपरमः स्यादिति / ___अस्पर्शत्वादप्रतिषेधः // 38 // यदिदम् ‘नाकाशगुणः शब्दः' इति प्रतिषिध्यते. अयमनुपपन्नः प्रतिषेधः- अस्पर्शत्वात् शब्दाश्रयस्य, रूपादिसमानदेशस्याग्रहणे शब्दसंतानोपपत्तेरस्पर्शव्यापिद्रव्याश्रयः शब्दः इति ज्ञायते न च कम्पसमानाश्रय इति // 38 // संप्रति प्रत्याख्यातुं सांख्यमतमुपस्थापयति- कम्पेति, तदेतत्सांख्यमतं पूर्व द्वादशसूत्रभाष्यानन्तरमुक्तम् / यत्र वाद्यमानघण्टादावभिघातेन कम्पो भवति तत्रैव शब्दस्तिष्ठति न त्वाकाशे इति कम्पसमानाश्रयस्याऽनुनादस्य= शब्दस्य हस्तादिसंयोगेन कारणोपरमात् कम्पवदभावो भवति कारणं च संस्कारविशेषः, यदि हि शब्द आकाशनिष्ठः स्यात्तदा हस्तसंयोगस्य घण्टास्थत्वेन वैयधिकरण्यं प्राप्तं वैयधिकरण्ये हि प्रतिघातिद्रव्यस्य हस्तादेरप्रश्लेषात्= संयोगासंभवात् शब्दोपरमो न स्यादिति संयोगसमानाधिकरणस्यैव च शब्दस्योपरमः स्यात्= संभवति, प्रतिपातिद्रव्यसंयोगश्च घंटादिनैव भवतीति हस्तघण्टासंयोगेन शब्दनिवृत्त्युपपत्त्यर्थ शब्दस्य घण्टादिपदार्थस्थत्वं स्वीकार्यमिति शब्दः कम्पसमानाश्रय एव न त्वाकाशाश्रित इति सांख्यमतम. न च घण्टादिपदार्थस्थस्य शब्दस्य संतानासंभवेन ग्रहणासंभवः- दरस्थपुष्पनिष्टगन्धस्येव ग्रहणसंभवात, न चाकाशवृत्तित्वेप्याकाशगणत्वं संभवतिगन्धादीनां घटादीनां चाप्याकाशवृत्तित्वेनाकाशगुणत्वं स्यादित्याशयः / अत्र- " संप्रति सांख्यः प्रत्यवतिष्ठते- कम्पसमानाश्रयस्येति / अनुवृत्तो नादः शब्दोऽनुनादः / वैयधिकरण्ये हीति- द्रव्यप्रश्लेषसमानाधिकरणस्यैव संस्कारस्योच्छेदः स्याद न व्यधिकरणस्य शब्दस्य, व्यधिकरणस्य तच्छेदाभ्यपगमेऽतिप्रसङ्गः स्यात् तस्मात् कम्पसंतानसंस्कारसमानाश्रयः शब्दोऽभ्युपगन्तव्यः, तदनेनाकाशाश्रयत्व शब्दस्य प्रतिषिद्धम् " इति तात्पर्यटीका / ___उक्तं सांख्यमतं सूत्रेण निराकरोति- अस्पर्शेति, अप्रतिषेध इति- सांख्यैः शब्दे य आकाशाश्रितत्वस्य प्रतिषेधः कृतः स नोपपद्यते- शब्दाश्रयस्य अस्पर्शत्वात्= स्पर्शरहितत्वात्, शब्दाश्रयस्य सस्पर्शत्वे मूर्तत्वमव्यापकत्वं च स्यात्तथा च शब्दस्य घण्टादिपदार्थस्थत्वे घण्टादिभिः श्रोत्रसंयोगाभावकाले शब्दश्रवणं न स्यात्- इन्द्रियाणां स्वसंयुक्तमात्रग्राहकत्वात्. शब्दस्याकाशाश्रितत्वेतु आकाशस्य व्यापकत्वेन तदाश्रितशब्दस्य संतानप्रणाड्या श्रोत्रसंयोगः संभवतीत्याकाशाश्रित एव शब्दो न कम्पसमानाश्रय इति सूत्रार्थः / अत्र- “शब्दो हि न स्पर्शवद्विशेषगुणः- अग्निसंयोगासमवायिकारणकत्वाभाववदऽकारणगुणपूर्वककार्यत्वादित्याशयः" इति विश्वनाथभट्टास्तथा- “प्राप्यकारित्वमिन्द्रियाणां व्यवस्थितं प्राक्, घण्टाद्याश्रयः शब्दो न श्रोत्रं प्राप्नोति. एवं हि प्राप्नुयाद् यदि घण्टा कर्णशष्कुलीमागच्छेत् कर्णशष्कुली वा घण्टाम्. न चैतदुभयमस्ति, न चाहङ्कारिकमिन्द्रियं व्यापीत्युक्तम् , तस्मात् शब्दाधारो निस्पों व्यापी चाकाशः तदाधारः शब्दः श्रोत्रमायाति संतानवृत्त्येति युक्तं तथा च श्रवणमस्योपपन्नं नान्यथेति" इति तात्पर्यटीका। घण्टायाश्च मूर्तत्वेनाव्यापकत्वेन च तत्र शब्दस्य संतानो नोपपद्यते इत्यपि विज्ञेयम् / ब्याचष्टे- यदिदमिति, इति= इत्येवम् , " नाकाशगुणः" इत्यत्र " आकाशगुणः" इति पाठान्तरम् , स्ववक्तव्यमाह- अयमिति, शब्दस्य यदाकाशगुणत्वं प्रतिषिध्यते तदनुपपन्नमित्यर्थः / उक्ते हेतुमाह- अस्पर्शेति, शब्दाश्रयस्य अस्पर्शत्वात्- स्पर्शगुणराहित्यावश्यकत्वात् तथाकाशे संभवति न कम्पाश्रये घण्टादावित्यर्थः / स्वाभिप्रायमुद्धाव्यति- रूपादीति, यदि शब्दो रूपादिसमानदेशः= कम्पसमानश्रयः घण्टादिपदार्थस्थो गृह्येत स्यात् तदा शब्दसंतानो नोपपद्येतघण्टादिनिष्ठरूपादीनां संतानादर्शनात् , किं च घण्टादिपदार्थस्थस्य शब्दस्य श्रोत्रेण संबन्धो नोपपद्यते इति श्रावणप्रत्यक्षानुपपत्तिरित्युक्तमेव, रूपादिसमानदेशस्य= घण्टादिपदार्थस्थस्याग्रहणे= अस्वीकारे तु