________________ 190 [2 अध्याये. आह्निकेपाणिकर्मणा पाणिघण्टाप्रश्लेषो भवति तस्मिंश्च सति शब्दसंतानो नोपलभ्यते अतः श्रवणानुपपत्तिः, तत्र प्रतिघातिद्रव्यसंयोगः शब्दस्य निमित्तान्तरं संस्कारभूतं निरुणद्धीत्यनुमीयते. तस्य च निरोधात् शब्दसंतानो नोत्पद्यते अनुत्पन्ने च श्रुतिविच्छेदः, यथा प्रतिघातिद्रव्यसंयोगादिषोः क्रियाहेतौ संस्कारे निरुद्धे गमनाभाव इति / कम्पसंतानस्य स्पर्शनेन्द्रियग्राह्यस्य चोपरमः कांस्यपात्रादिषु पाणिसंश्लेषो लिङ्गं संस्कारसंतानस्येति, तस्मानिमित्तान्तरस्य संस्कारभूतस्य नानुपलब्धिरिति // 36 // विनाशकारणानुपलब्धेश्वावस्थाने तन्नित्यत्वप्रसङ्गः // 37 // यदि यस्य विनाशकारणं नोपलभ्यते तदवतिष्ठते अवस्थानाच तस्य नित्यत्वं प्रसज्यते ? एवं यानि खल्विमानि शब्दश्रवणानि शब्दाभिव्यक्तय इति मतं न तेषां विनाशकारणं भवतोपपाद्यते अनुपपादनादवस्थानम् अवस्थानात् तेषां नित्यत्वं प्रसज्यते इति, अथ नैवम् ?: न तर्हि विनाशकारणानुपलब्धेः शब्दस्यावस्थानान्नित्यत्वमिति // 37 // कारणस्याभावोऽनुमीयते शब्दकारणाभावेन च शब्दकारणं सिद्धम्- अभावस्य स्वप्रतियोग्यधीनस्वनियमादित्येवमुक्ते संस्कारेऽनुमानेनोपलभ्यमाने तस्यानुपलब्धिर्योक्ता सा न संभवतीति सूत्रार्थः / ध्याचष्टेपाणिकर्मणेति, तस्मिन्= पाणिघण्टासंयोगे जाते सति / अतः= शब्दसंतानानुपलब्धेः, श्रवणानुपपत्तिःशब्दश्रवणाभाव उपद्यते इत्यन्वयः, हस्तसंयोगेन शब्दोत्पत्तौ निरुद्धायां शब्दसंतानभावस्तेन शब्दश्रवणाभाव इत्यर्थः / उक्तसंस्कारस्यानुमितिमाह- तत्रेति, तत्र= पाणिघण्टासंयोगेन शब्दानुपलब्धौ सिद्धायां प्रतिघाति द्रव्यं हस्तादि किं वा प्रतिघाती= निरोधको यो द्रव्यसंयोगः= उक्तहस्तादिसंयोगः स शब्दस्य संस्कारलक्षणं निमित्तान्तरं निरुणद्धि तेन शब्दोत्पत्तिनिरोध उपपद्यते इत्यनुमीयते. तथा च निरुध्यमानस्य कम्पादिलक्षणस्य संस्कारविशेषस्य निरोधात् पूर्व सत्ता सिद्धेति तादृशसंस्कारस्य यानुपलब्धिरुक्ता सा नोपपद्यते- उक्तानुमानेनोपलब्धेः सत्त्वात् , तस्य= उक्तसंस्कारभूतनिमित्तान्तरस्य निरोधात् शब्दो नोत्पद्यते अनुत्पत्तौ= एवं शब्दानुत्पत्तौ जातायां श्रुतिविच्छेदः= शब्दश्रवणाभावः शब्दानित्यत्वपक्षे उपपद्यते इत्यन्वयः / अत्र दृष्टान्तमाह- यथेति, यथा कुड्यादिप्रतिघातिद्रव्यसंयोगादिषोः= बाणस्य क्रियाहेतौ= गमनहेतुभूते संस्कारे निरुद्ध= विनष्टे सति गमनाभावस्तथा शब्दस्याप्युत्पत्तिकारणीभूते संस्कारे प्रतिघातिद्रव्यसंयोगानष्टे सति शब्दोत्पत्त्यभावो विज्ञेय इत्यन्वयः / कम्पेति- यद्वादनेन शब्दो भवति तादृशेषु कांस्यपात्रादिषु स्पर्शनेन्द्रियग्राह्यस्य= त्वगिन्द्रियग्राह्यस्य कम्पसंतानस्य पाणिप्रश्लेषेणोपरमः= निरोधो भवतीति स्पष्टमेव तथा च पाणिप्रश्लेषेण निरुध्यमानस्य संस्कारसंतानस्य पाणिप्रश्लेष एवानुमापकं लिङ्गम्- तदभावे कस्य निरोधः स्यादिति निमित्तान्तरस्य शब्दोत्पादकस्य संस्कारभूतस्योक्तरीत्या सिद्धत्वात् यानुपलब्धिरुक्ता सा नोपपद्यते इत्यर्थः // 36 // "विनाशकारणानुपलब्धेः" इत्यस्य प्रतिबन्धुत्तरमाह- विनाशेति, विनाशकारणानुपलब्धेःविनाशकारणानुपलब्ध्या शब्दस्याऽवस्थाने= नित्यत्वे हि तत्= तस्य= शब्दश्रवणस्यापि विनाशकारणानुपलब्ध्या नित्यत्वं स्यात् न चैवमस्ति तथा च यथा विनाशकारणानुपलब्धावपि न शब्दश्रवणस्य नित्यत्वापत्तिस्तथा शब्दविनाशकारणानुपलब्धावपि न शब्दस्यापि नित्यत्वापत्तिरिति सूत्रार्थः / विनाशकारणानुपलब्धिश्च विनाशकारणाप्रतिपादनादेव विज्ञेया। सूत्रे तत्पदं पूर्वोक्तश्रवणपरामर्शकम् / व्याचष्टे- यदीति / प्रकृतमाह- एवमिति, शब्दश्रवणानीति नैयायिकमतम्. अभिव्यक्तय इति मीमांसकमतम् , तेषाम्= शब्दश्रवणानाम् / व्यतिरेकमाह- अथेति, यदि विनाशकारणानुपलब्धावपि शब्दश्रवणानां न नित्यत्वमित्यर्थः / प्रकृतमाह- न तहीति / एवं न शब्दस्यापि नित्यत्वं संभवतीत्यन्वयः / स्पष्टमन्यत् / " अथ नैवं. न तर्हि " इत्यत्र " अथ नैवं. तर्हि " इति पाठस्त्वसंगत एव / / 37 //