________________ शब्दानित्यत्वप्रतिपादम् ] न्यायभाष्यम्। 189 वाच्यं येन श्रुतिसंतानो भवतीति, शब्दभेदे चाऽसति श्रुतिभेद उपपादयितव्य इति / अनित्ये तु शब्दे घण्टास्थं संतानवृत्ति संयोगसहकारि निमित्तान्तरं संस्कारभूतं पटुमन्दमनुवर्तते तस्यानुवृत्त्या शब्दसंतानानुवृत्तिः पटुमन्दभावाच्च तीव्रमन्दता शब्दस्य. तत्कृतश्च श्रुतिभेद इति॥३५॥ न वै निनिमित्तान्तरं संस्कार उपलभ्यते अनुपलब्धेर्नास्तीति पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः // 36 // मन्दत्वादिविरुद्धधर्मसमवायस्यासंभवादित्याक्षेपः / अत्र- "शब्दस्य व्यज्यमानस्य यद् व्यक्तिकारणं तत् किं घण्टास्थम् ? आहोस्विदन्यवृत्ति ? इति, यदि घण्टास्थम् ?. किमवस्थितम् ? उत संतानवृत्ति ? इति, अन्यवृत्तित्वेपि किमवस्थितम् ? उत संतानवृत्ति ?" इत्यादि वार्तिकं द्रष्टव्यम् / तथात्र- “यदि घण्टास्थेन व्यञ्जकेनाइन्यवृत्तिना वाऽवस्थितेन संतानवृत्तिना वा नित्यः शब्दो व्यज्येत ततः तारतारतरतारतममन्दमन्दतरादिश्रुतिभेदो न स्यात्- नित्यस्य च शब्दस्य न स्वाभाविको भेदो नाप्यौपाधिक इत्युपपादितमधस्तात् / “अथ संतानवृत्तिस्तथापि सर्वे एव तत्संततिपतिताः समर्था इत्यायेनैव सर्वे व्यज्येरन् " इति तात्पर्यटीका / अत्र यदि व्यञ्जकं घण्टायां श्रोत्रे वाऽवस्थितं तदावस्थितत्वादेव शब्द सर्वदैव व्यंज्यादिति सततं शब्दश्रवणप्रसङ्गः, यदि शब्दसंतानानुवृत्ति व्यञ्जकं तदा संतानानुवर्तिना तारशब्दव्यजकेन व्यक्तस्य सर्वत्र तारत्वमेव स्यादिति दूरदेशप्राप्तावपि मन्दत्वं न स्यात् न चैवमस्ति, किं च व्यञ्जकस्य व्यङ्ग्यवृत्तित्वमप्यनुपपन्नमेव, यदि संतानवृत्तिशब्देन शब्दव्यजकस्यानवस्थितत्वं विवक्षितं तत्रानवस्थितत्वेनोत्तरोत्तरकाले मन्दत्वेन उत्तरोत्तरं शब्दमन्दत्वमुच्यते तदापि व्यजकमनवस्थितत्वादेव वाद्यमानातिरिक्तघण्टास्वपि प्राप्तः स्यादिति तत्रापि शब्दाभिव्यक्तिः स्यात् न चैवं दृश्यते, यदि व्यञ्जकमनवस्थितं श्रोत्रगतमुच्यते तदाप्यनवस्थितत्वादेव दूरस्थश्रोत्रमपि प्राप्नुयादिति तत्रापि शब्दाभिव्यक्तिः स्यात् न चैवमस्तीति दोषाः, यदि संतानवृत्तिशब्देन शब्दव्यञ्जकस्य विनाशित्वं विवक्षितं तदा विनाशिनो व्यञ्जकस्य स्थितिकालनियमासंभवात् या कदाचित् शब्दश्रवणानुवृत्तिदृष्टा सा नोपपद्येत, तत्रोत्तरोत्तरं व्यञ्जकानामुत्पत्तिस्वीकारेपि तद्व्यवधानात् शब्दश्रवणानुवृत्तेनैरन्तये नोपपद्येतेति दोषः, शब्दस्य नित्यत्वेनैकत्वात् तारत्वमन्दत्वादिरूपेण श्रवणभेदो नोपपद्यते इति सधैवपि पक्षेषु संकलितो दोषः / शब्दस्यानित्यत्वपक्षे उपपत्तिमाह- अनित्ये इति, शब्दस्य संस्कारभूतं यद् निमित्तान्तरं तद् घण्टास्थं सन्तानवृत्ति= अनवस्थितं दण्डादिसंयोगः सहकारी यस्य तत् संयोगसहकारि उत्तरोत्तरं पटु मन्दं चानुवर्तते तस्य= एतादृशनिमित्तस्यानुवृत्त्या शब्दसन्तानानुवृत्तिः पटुमन्दभावात्= तीव्रत्वमन्दत्वादिना च शब्दस्य तीव्रत्वमन्दत्वादि तत्कृतः= शब्दस्य तीव्रत्वमन्दत्वादिकृतश्च तीव्रत्वमन्दत्वादिरूपेण श्रवणभेदः= श्रावणप्रत्यक्षभेद इति शब्दस्यानित्यत्वपक्षे सर्वमुपपद्यते इति शब्दा. नित्यत्वं स्वीकार्यमित्यर्थः, शब्दकारणीभूतो घण्टादिपदार्थनिष्ठः संस्कारः कम्पादिलक्षणो विज्ञेयः स च दण्डादिसंयोगजन्य इति संयोगसहकारी पटुमन्दरूपश्च भवतीति स्पष्टमेव / अत्र- "शब्दानामुत्पत्तिकारणं घण्टावृत्ति कदाचिद् भवति कदाचिद् भावेपि सति संतानवृत्ति तस्माद् निमित्तभेदानुविधायिनः शब्दाः कदाचिद् भवन्ति सन्तानवृत्तित्वाच्च मन्दतरमन्दतमादिभिन्नरूपानुविधायिनं शब्दमुत्पादयन्तीति तच्च कारणं संस्कार इति” इत्यादि वार्तिकं द्रष्टव्यमित्यलम् // 35 / / ___ अग्रिमसूत्रावतारायोक्तं निमित्तान्तरभूतं संस्कारमाक्षिपति पूर्वपक्षी- न वै इति, उक्त: संस्कारः निनिमित्तान्तरम्= निमित्तान्तरं विना नोपपद्यते- अनित्यत्वात्. संस्कारजनकं च निमित्तान्तरं नोपलभ्यते इत्यनुपलब्ध्या ज्ञायते नास्तीति तथा च शब्दानित्यत्वपक्षोपपादकस्य संस्कारस्यासंभवेन शब्दानित्यत्वपक्षेऽनुपपत्तिः प्राप्तेत्यर्थः / अस्य सूत्रेणोत्तरमाह- पाणीति, घण्टायामभिहन्यमानायां पाणिनिमित्तकः= हस्तेन यः प्रश्लेषः= संयोगस्तस्मात् शब्दाभावो जायते तस्मिन् शब्दाभावे जायमाने शब्द