________________ 188 प्रसन्नपदापरिभूषितम्- [2 अध्याये. २आह्निकेउपपादितः शब्दसंतान:- संयोगविभागजात् शब्दाच्छब्दान्तरं ततोप्यन्यत् ततोप्यन्यदिति, तत्र कार्यः शब्दः कारणशब्दं विरुणद्धि. प्रतिघातिद्रव्यसंयोगस्तु अन्त्यस्य शब्दस्य निरोधकः, दृष्टं हि तिरपतिकुड्यमऽन्तिकस्थेनाप्यश्रवणं शब्दस्य श्रवणं दूरस्थेनाप्यसति व्यवधाने इति / घण्टायामभिहन्यमानायां तारस्तारतरो मन्दो मन्दतर इति श्रुतिभेदाद् नानाशब्दसंतानोऽवि. च्छेदेन श्रूयते, तत्र नित्ये शब्दे घण्टास्थमन्यगतं वाऽवस्थितं संतानवृत्ति वा अभिव्यक्तिकारणं नित्यत्वसाधकं न संभवति- अभावात्= विनाशकारणोपलब्धेरित्यर्थः / अत्र- " यदा क्रमेलकं विषाणित्वादश्वत्वेन साधयति तदाऽस्य न विषाणं नापि तत्संबन्धः, यथा विषाणित्वं क्रमेलकेऽसिद्धं तथानुमानेन विनाशकारणोपलब्धौ तदनुपलब्धिरसिद्धेति" " अश्वत्वविषाणत्वयोर्यतः कोपि संबन्धोऽश्वेषु सिद्धो नास्ति तस्माद्विरोधादनुमानमेतदशोभनमित्यर्थः” इति तात्पर्यटीका / शब्दविनाशकारणोपलम्भकमनुमानम्= हेतुं जिज्ञासते-किमिति / उत्तरमाह-संतानेति, संतानस्य हेतुत्वेन संतानोपपत्तेहेतुत्वमुक्तमिति विज्ञेयम्- संतानस्य हेतुत्वे संतानोपपत्तेरपि हेतुत्वसंभवात्. यथा धूमोपपत्तेरपि वह्निहेतुत्वं तथा, या शब्दादुत्तरोत्तरं शब्दोत्पत्तिः स एव शब्दसंतानः स च पूर्वपूर्वशब्दस्य विनाशित्वे एवोपपद्यते. शब्दस्य नित्यत्वे तादृशसंतानस्य वैयर्थ्यात्. विनाशश्च स्वकारणेनैव संभवतीति शब्दसंतानेन शब्दस्य विनाशकारणमनुमीयते इत्यर्थः / हेतुभूतस्य शब्दसंतानस्य सिद्धिमाह- उपपादित इति, संयोगविभागजात प्रथमात् शब्दात्. ततः= शब्दान्तरादुत्पन्नात् , अन्यत्= शब्दान्तरमिति उत्तरोत्तरोत्पन्नशब्दानां परम्परैव शब्दसंतानः स च पूर्व त्रयोदशसूत्रभाष्ये उपपादित इत्यन्वयः / शब्दविनाशक्रममाह- तत्रेति, कार्यः शब्दः= पूर्वशब्दादुत्पन्नः शब्दः, कारणशब्दम् = पूर्व स्वोत्पादकं शब्दं विरुणद्धि= विनाशयति, एवमेव शब्दसंताने पूर्वपूर्वशब्दानां विनाशो विज्ञेयः, अन्तिमशब्दस्य विनाश. माह- प्रतिघातीति, प्रतिघातिद्रव्यं कुड्यादिकं तत्संयोगोऽन्त्यशब्दस्य निरोधकः= विनाशको भवति / प्रतिघातिद्रव्यसंयोगस्य शब्दविनाशकत्वे प्रत्यक्षप्रमाणमाह- दृष्टमिति, तिरःप्रतिकुड्यम्= कुड्यव्यव. धाने सति अन्तिकस्थेन= शब्दोत्पत्तिस्थानसमीपस्थेनापि जनेन शब्दस्याश्रवणं दृष्टम्. असति च कुड्यादिव्यवधाने दूरस्थेन= शब्दोत्पत्तिस्थानाद् दूरस्थेनापि जनेन शब्दस्य श्रवणं दृष्टमित्यन्वयव्यतिरेकाभ्यां व्यवधायकसंयोगस्य शब्दविनाशकत्वं सिद्धम् अन्यथा अवणाभावो नोपपद्यतेत्यर्थः / पूर्वदिश्युत्पन्नस्य शब्दस्योत्तरदिशो दक्षिणदिशं प्राप्तं कुड्यं व्यवधायकं भवति नान्यथेति हेतोः " तिरःप्रतिकुड्यम् " इत्युक्तम् / शब्दसंतानमत्राप्याह- घण्टायामिति, घण्टासमीपस्थेन तारतरस्ततो दूरस्थेन तारस्ततो दूरस्थेन मन्दस्ततोपि दूरस्थेन मन्दतरः शब्दः श्रूयते, तारत्वादिरूपेणैतादृशशब्दसंतानसिद्धौ श्रुतिभेदः= श्रवणभेदः कारणं श्रवणभेदे च श्रोतृजनस्य सामीप्यादिकं कारणं समीपस्थेन प्रथमं श्रूयते इति तारतरः शब्दः श्रूयते इत्येवं व्याख्येयं तदनेन शब्दसंतान उपपादितः, शब्दसंतानास्वीकारे शब्दस्यैक्यं स्यात् एकस्मिंश्च शब्दे तारत्वमन्दत्वादिविरुद्धधर्मसमवायो नोपपद्यते इति शब्दभेदः स्वीकार्यस्तेन च संतानः सिद्धः संतानेन चोक्तरीत्या शब्दस्य विनाशित्वं तेन विनाशकारणमपि सिद्धमित्यर्थः / शब्दनित्यत्वपक्षेऽनुपपत्तिमाह- तत्रेति, नित्येशब्दे शब्दनित्यत्वपक्षे शब्दस्याभिव्यक्तिकारणं तादृशं वक्तव्यं येनाभिव्यक्तिकारणेन श्रुतिसंतानः= तारत्वमन्दत्वादिरूपेण श्रवणवैविध्यमुपपद्येत न चैवं वक्तुं शक्यते इत्याशयः, अभिव्यक्तिकारणं चैतत् किं घण्टास्थं किं वान्यगतम्= श्रोत्रगतं तत्रापि किमवस्थितं किं वा संतानवृत्ति= अनवस्थितम् इति चतुर्धा विकल्पः, व्यञ्जकस्यावस्थितत्वपक्षे घण्टायां श्रोत्रे वाऽवस्थितत्वं विज्ञेयं संतानवृत्तित्वपक्षे घण्टास्थस्य वा श्रोत्रस्थस्य वा विनाशित्वं विज्ञेयम्, किं वा संतानवृत्तिशब्देन शब्दव्यजकस्योत्तरोत्तरं संतानो ग्राह्यस्तेन पूर्वपूर्वाणां व्यञ्जकानां विनाशित्वमुत्तरोत्तरं मन्दत्वं च प्राप्तम्, किं चाऽसति शब्दभेदे शब्दनित्यत्ववादिना श्रुतिभेदः= तारत्वमन्दत्वादिरूपेण प्रत्यक्षः श्रवणभेद उपपादनीयः न चोपपादयितुं शक्यते- शब्दस्य नित्यत्वेनैकत्वे प्राप्ते एकस्मिन् शब्दे तारत्व.