________________ शब्दानित्यत्वप्रतिपादनम् ] न्यायभाष्यम् 187 अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः // 34 // यथा विनाशकारणानुपलब्धेरविनाशप्रसङ्गः एवमश्रवणकारणानुपलब्धेः सततं श्रवणप्रसङ्गः / व्यञ्जकाभावादश्रवणमितिचेत् 1. प्रतिषिद्धं व्यञ्जकम् / अथ विद्यमानस्य निनिमित्तमऽश्रवणमिति ?. विद्यमानस्य निनिमित्तो विनाश इति / समानश्च दृष्टविरोधो निमित्तमन्तरेण विनाशे चाश्रवणे चेति // 34 // उपलभ्यमाने चानुपलब्धेरसत्त्वादऽनपदेशः // 35 // अनुमानाचोपलभ्यमाने शब्दस्य विनाशकरणे 'विनाशकारणानुपलब्धेः= असत्त्वात' इत्यनपदेशः यथा ' यस्माद्विषाणी तस्मादश्वः' इति / किमनुमानमितिचेत् 1. संतानोपपत्तिः, प्रतिवन्द्युत्तरमाह- अश्रवणेति, अश्रवणम्= श्रवणाभावः, यदि शब्दस्य विनाशकारणानुपलब्ध्या नित्यत्वं तदा नित्यस्य शब्दस्य अश्रवणकारणमपि नोपलभ्यते इति अश्रवणकारणानुपलब्ध्या शब्दश्रवणस्यापि नित्यत्वं स्यादिति सततम् सर्वदा शब्दश्रवणप्रसङ्गोस्ति, न च सततं शब्दः श्रूयते तथा च यथा ह्यश्रवणकारणानुपलब्धावपि अश्रवणं स्वीक्रियते तथा शब्दस्य विनाशकारणानुपलब्धावपि विनाशः स्वीकार्य इति न शब्दस्य नित्यत्वापत्तिरिति सूत्रार्थः / व्याचष्टे- यथेति, शब्दस्येतिशेषः / प्रकृतमाह- एवमिति / नन्वश्रवणस्य कारणमस्ति शब्दव्यजकस्योच्चारणादेरभावस्तथा च शब्दव्यजकस्य मेरीदण्डसंयोगादेरभावेनाश्रवणमुपपद्यते इति न सततश्रवणप्रसङ्ग इत्याशङ्कते- व्यजकेति / एतनिराकरोति-प्रतिषिद्धमिति, पूर्व संयोगादीनां शब्दव्यञ्जकत्वं प्रत्याख्यातमेवेत्यर्थः / ननु विद्यमानस्यनित्यस्यापि शब्दस्याश्रवणं निर्निमित्तम्= अकारणकमेवेति नाऽश्रवणकारणापेक्षेत्याशङ्कते- अथेति / अत्र प्रतिबन्दीमाह-विद्यमानस्येति, यथा निनिमित्तमश्रवणं स्वीकृतं तथा विद्यमानस्यापि शब्दस्य निर्निमितो विनाशोपि स्वीकार्य इत्यर्थः / ननु कारणं विना विनाशस्वीकारे दृष्टविरोधोस्ति विनाशकारणेनैव विनाशदर्शनादित्याशङ्कयाह- समान इति, कारणं विना विनाशस्वीकारे यथा दृष्टविरोधस्तथा कारणं विनाऽश्रवणस्वीकारेपि दृष्टविरोधोस्त्वेव-कार्यमात्रस्य सकारणकत्वदर्शनात् तथा च विद्यमानस्य शब्दस्य निर्निमित्तमश्रवणं नोपपद्यते इति नित्यत्वे सततश्रवणप्रसङ्गः न च सततं शब्दः श्रूयते इति शब्दस्य विनाशित्वं सिद्धमित्यर्थः // 34 // "विनाशकारणानुपलब्धेः” इतिपूर्वोक्तपूर्वपक्षस्य वास्तविक प्रत्याख्यानमाह- उपलभ्यमाने इति, शब्दजनकस्य संयोगादेविनाश एव शब्दविनाशकारणं तस्मिन् उपलभ्यमानेपि यदुक्तम्- " विनाशकारणानुपलब्धेः” इति. तत् अनपदेशः= अहेतुः= शब्दनित्यत्वासाधकमेव= अयुक्तमेवेति यावत्अनुपलब्धेरसत्त्वात् शब्दस्य विनाशकारणोपलब्धौ विनाशकारणानुपलब्धेरसत्त्वात्= असंभवादिति शब्दस्य विनाशित्वं सिद्धमिति सूत्रार्थः / अत्र "अनपदेशः= अहेतुरित्यर्थः" इतितात्पर्यटीका / - व्याचष्टे- अनुमानादिति / विनाशेति- अत्र ‘विनाशकारणस्यानुपलब्धेः' इत्येवं वक्तव्यमासीत् तथा च 'विनाशकारणस्यानुपलब्धेः अर्थात् असत्त्वात्. किं वाऽनुपलब्ध्या च शब्दविनाशकारणस्याऽसत्त्वात्' इति यः शब्दनित्यत्वे हेतुरुक्तः सोऽनपदेशः= अहेतु:= शब्दनित्यत्वसाधको न भवति- शब्दविनाशकारणस्य शब्दोत्पादकविनाशस्योपलभ्यमानत्वादित्यन्वयः, किं वा 'विनाशकारणानुपलब्धेरसत्वात् ' इति= इत्यनेन हेतुना पूर्वोक्त:- "विनाशकारणानुपलब्धेः" इतिहेतुरनपदेशः= अहेतुर्जात इत्यन्वयः। उदाहरति- यथेति, यथा गर्दभं पक्षीकृत्य ' यस्माद्विषाणी तस्मादश्वः= अयमश्वः विषाणित्वात्। इत्यनुमाने प्रयुक्ते गर्दभादेरश्वत्वसाधने विषाणित्वादितिहेतुरहेतुरेव- विषाणित्वस्याऽश्वत्वसाधकत्वाभावात्- अश्वे विषाणसंबन्धाभावात् गर्दभेपि विषाणाभावात्तथा " विनाशकारणानुपलब्धेः" इत्यपि शब्द