________________ 186 प्रसन्नपदापरिभूषितम्- [2 अध्याये. २आह्निकेशब्दप्रयोगं प्रतिषेधतः शब्दान्तरमयोगः प्रतिषिध्यते तदभावे नास्त्यनन्यता- तयोरितरेतरापेक्षसिद्धेः // 32 // अन्यस्मादऽन्यतामुपपादयति भवान् उपपाद्य च अन्यत् प्रत्याचष्टे, 'अनन्यत्' इति च शब्दमनुजानाति. प्रयुङ्क्ते च 'अनन्यत्' इति एतत् समासपदम् . अन्यशब्दोयं प्रतिषेधेन सह समस्यते. यदि चात्रोत्तरं पदं नास्ति कस्यायं प्रतिषेधेन सह समासः, तस्मात् तयोरन्याऽनन्यशब्दयोरितरोऽनन्यशब्द इतरमन्यशब्दमपेक्षमाणः सिध्यतीति तत्र यदुक्तम्- 'अन्यताया अभावः' इति एतदयुक्तमिति // 32 // अस्तु त दानीं शब्दस्य नित्यत्वम् विनाशकारणानुपलब्धेः // 33 // यदनित्यं तस्य विनाशः कारणाद् भवति यथा लोष्टस्य कारणद्रव्यविभागात्, शब्दश्चेदनित्यस्तस्य विनाशो यस्मात्कारणाद् भवति तदुपलभ्येतन चोपलभ्यते तस्मान्नित्य इति॥३३॥ __ अग्रिमसूत्रमवतारयति- शब्देति, शब्दप्रयोगम्= अन्यशब्दप्रयोगं प्रतिषेधतः= प्रतिषेधपरस्य पूर्वपक्षिणः शब्दान्तरप्रयोगः= अनन्यशब्दप्रयोगः सिद्धान्तिना प्रतिषिध्यते- " यथा चोद्यं तथोत्तरम् / " इतिन्यायादित्यन्वयः / तदभावे इति- तदभावे= अन्यत्वाभावे अनन्यता नास्तिन संभवति- तयोःअन्यत्वानन्यत्वयोरितरेतरापेक्षसिद्धेः= परस्परापेक्षयैव सिद्धिसंभवात् अन्यत्वं विना तदभावरूपमनन्यत्वमपि न संभवतीत्यन्यत्वं सिद्धं तथा च शब्दस्याप्यन्यत्वेप्यभ्याससंभवात् स्थिरत्वं न सिध्यतीति सूत्रार्थः / व्याचष्टे- अन्यस्मादिति, भवान् पूर्वपक्षी, उपपाद्य= " अन्यदन्यस्मात् " इत्युक्तेन अन्यस्मादन्यतामुपपाद्य अन्यत्= अन्यत्वं प्रत्याचष्टे इति परस्परं विरोधः प्राप्तः- अन्यत्वाभावेऽन्यस्मादप्यन्यत्वासंभवादित्यर्थः / पूर्वपक्षिणा स्वीकृतेनाऽनन्यत्वेनान्यत्वं साधयति- अनन्यदिति, अनुजानाति= स्वीकरोति भवान् प्रयुङ्क्ते चेत्यन्वयः / स्वाभिप्रायमाह- एतदिति, एतत्= अनन्यदितिपदं समासपदम= समस्तं पदं तत्रान्यशब्दस्य प्रतिषेधेन= नवा सह समासात् 'अनन्यत्' इतिपदं सिध्यति, तत्र यदि उत्तरं पदम्= अन्यदितिपदं स्ववाच्यस्यान्यत्वस्याभावाद् नास्ति= न स्यात्तदा प्रतिषेधेन सहायं समासः कस्य स्यात् ? न कस्यापीति 'अनन्यत्' इति पदमेव न स्यात् तथा चानन्यत्वमपि न सिष्येदिति अन्यत्वम् अन्यशब्दश्च स्वीकार्य इत्यर्थः / उपसंहरति- तस्मादिति, तयोरन्यानन्यशब्दयोर्मध्ये / अन्यशब्दाभावे नसमासेनानन्यशब्दस्यासंभवादनन्यशब्दस्याऽन्यशब्दापेक्षेत्यर्थः / पर्यवसितमाह- तत्रेति, तत्र= एवमन्यत्वे सिद्धे 'अन्यताया अभावः' इति यदक्तं तदयक्तमेव तथा चान्यत्वेप्यभ्याससंभवः सिद्ध इति शब्दस्याप्यभ्यस्यमानस्यान्यत्वेनास्थिरत्वं संभवतीति स्थिरत्वापत्तिर्नास्तीत्यर्थः // 32 // ____ अग्रिमसूत्रमवतारयति- अस्त्विति, इदानीम्= वक्ष्यमाणहेतुनेत्यर्थः / विनाशेति- यत् संभवति तत् स्वकारणेनैव संभवति नान्यथा शब्दविनाशस्य च कारणं नोपलभ्यते अनुपलब्ध्या च शब्दविनाशकारणस्याभावः सिद्ध इति कारणाभावादेव शब्दविनाशाभावः प्राप्तस्तेन च शब्दस्य नित्यत्वं सिद्धमिति सूत्रार्थः। व्याचष्टे- यदिति, तस्य= अनित्यस्य, कारणात्= कारणनाशाद् विनाशकारणाद्वेत्यर्थः / उदाहरति- यथेति, लोष्टस्य= मृत्खण्डस्य विनाशः कारणद्रव्यविभागात्= आघातेनाऽवयवविभागाद् भवतीति विनाशकारणादेव विनाशः सिद्धः। प्रकृतमाह- शब्द इति, तस्य= शब्दस्य / शब्दस्य विनाशकारणं नोपलभ्यते इति विनाशाभावः प्राप्तस्तेन शब्दस्य नित्यत्वं प्राप्तमिति नित्य एव शब्दो नाऽनित्य इत्यन्वयः // 33 //