________________ शब्दानित्यत्वप्रतिपादनम् ] न्यायभाष्यम् / 185 __ अभ्यस्यमानमवस्थितं दृष्टम्- ‘पञ्चकृत्वः पश्यति' इति रूपमवस्थितं पुनः पुनदृश्यते, भवति च शब्देऽभ्यासः- 'दशकृत्वोऽधीतोऽनुवाकः विंशतिकृत्वोऽधीतः' इति, तस्मादवस्थितस्य पुनः पुनरुच्चारणम् अभ्यास इति // 29 // न-अन्यत्वेप्यभ्यासस्योपचारात् // 30 // अनवस्थानेप्यभ्यासस्याऽभिधानं भवति- 'द्वित्यतु भवान् नित्यतु भवान्' इति 'द्विरनृत्यत् त्रिरनृत्यत् ' 'द्विरग्निहोत्रं जुहोति 'द्विभुते' (इति) // 30 // एवं व्यभिचारात् प्रतिषिद्धहेतौ अन्यशब्दस्य प्रयोगः प्रतिषिध्यते अन्यदन्यस्मादऽनन्यत्वादनन्यदित्यऽन्यताऽभावः // 31 // यदिदम् / अन्यत्' इति मन्यसे तत् स्वात्मनोऽनन्यत्वादन्यन्न भवति एवमन्यताया अभावः, तत्र यदुक्तम्- 'अन्यत्वेप्यभ्यासोपचारात्' इति एतदयुक्तमिति // 31 // स्यमानत्वं हि पुनःपुनःक्रियमाणक्रियाविषयत्वं तच्च स्थिरस्यैव संभवति न क्षणिकस्येति शब्दस्याभ्यस्यमानत्वेन स्थिरत्वे प्राप्ते कालान्तरे विनाशकारणासंभवान्नित्यत्वं सिध्यतीति सूत्रार्थः / व्याचष्टे- अभ्यस्येति / उदाहरति- पञ्चेति, रूपमिति शेषः, पञ्चकृत्वो दर्शनं हि दर्शनाभ्यास एव तद्विषयस्य रूपस्यावस्थितत्वं प्रसिद्धमेव. क्षणिकस्य द्वितीयादिक्षणे विनाशेन द्वितीयदर्शनादिविषयत्वं नोपपद्यते इत्यर्थः / प्रकृतमाह- भवतीति / शब्दाभ्यासमुदाहरति दशेति, दशवारमधीतो विंशतिवारमधीतोनुवाक इत्यर्थः, अनुवाकश्च वेदभागविशेषः शब्दसमुदायात्मक एव. दशवारमध्ययनं च शब्दाभ्यास एव तद्विषयत्वात् शब्दस्यावस्थितत्वं सिद्धं रूपवत् / उपसंहरन् शब्दाभ्यासस्वरूपमाह- तस्मादिति, तस्मात् शब्दोऽवस्थित इत्यर्थः / स्पष्टमन्यत् // 29 // ____ उक्तपूर्वपक्षं प्रत्याचष्टे- नेति, अभ्यासादभ्यस्यमानस्य स्थिरत्वं न संभवति- अन्यत्वेपि= अस्थिरत्वेन भेदेपि अभ्यासस्य उपचारात्= संभवात्. तथा च शब्दस्याऽस्थिरत्वेप्यभ्याससंभवान्नाऽभ्यासात् शब्दस्य नित्यत्वापत्तिरिति सूत्रान्वयः / व्याचष्टे- अनवस्थानेपीति, अस्थिरत्वेपीत्यर्थः, अभिधानम्प्रयोगः= उपचारः / उक्तमुदाहरति-द्विरित्यादिना, नृत्यस्य यद् दित्वं त्रित्वं च तदभ्यास एव नृत्यं च क्रियेति न स्थिरमित्यस्थिरत्वेष्यभ्यासो भवति / उदाहरणान्तरमाह-द्विरिति, अग्निहोत्रभोजनादिकमपि क्रियैव तथा च यथा नृत्यादिक्रियाणामस्थिरत्वेप्यभ्यासो भवति तथा शब्दस्याप्यस्थिरत्वेपि पुनः पुनरुच्चारणलक्षणोऽभ्यासः संभवतीति नाऽभ्यासात् शब्दस्य नित्यत्वापत्तिरित्यर्थः // 30 // ____ अग्रिमसूत्रमवतारयति- एवमिति, एवम्= उक्तरीत्या "अभ्यासात्" इतिहेतौ व्यभिचारात् प्रतिषिद्धे सति पूर्वसूत्रे योऽन्यशब्दस्य प्रयोगः कृतः स पूर्वपक्षिणाग्रिमसूत्रेण प्रतिषिध्यते इत्यन्वयः / व्यभिचारश्चास्थिरत्वेप्यभ्यासस्य संभवादुपपादित एव / अन्यदिति- यदन्यद् भवति तद्ऽन्यस्मादेवाऽन्यद् भवति न तु स्वस्मादिति स्वात्मनोऽनन्यत्वादऽनन्यदेव भवति नाऽन्यत्- स्वाभेदस्यावश्यम्भावित्वात् तथा चाऽन्यतायाः= भेदस्याऽभावः प्राप्त इति कथमन्यत्वेऽभ्यासः स्यात् स्वापेक्षयाऽन्यत्वस्यैवाभावात् तथा च शब्दस्यापि स्वात्मनो भेदाभावेनाऽभेदः प्राप्तस्तेन च स्थिरत्वं प्राप्तमिति स्थिरस्यैव शब्दस्याभ्यासान्नित्यत्वं सिद्धमिति नाऽस्थिरत्वापत्तिरिति सूत्रार्थः / व्याचष्टे- यदिदमिति, अन्यत्- इदं पदमन्यत् इदं च पदमन्यत् इतियन्मन्यसे तत्= अन्यत् स्वारगनोऽनन्यत्वादन्यत् न भवति- अन्यत्वानन्यत्वयोः परस्परं विरोधात् , उपसंहरति- एवमिति, एवम्= अनन्यत्वात् , सिद्ध इतिशेषः / पर्यवसितमाह-तत्रेति, तत्र एवमन्यत्वस्याभावे सिद्धे " अन्यत्वेप्यभ्यासोपचारात्" इति यदुक्तं तन्न युक्तम्- अन्यत्वासंभवेऽन्यत्वेनाऽभ्यासस्याप्यसंभवात् तथा चाभ्यस्यमानस्य शब्दस्य भेदाभावेन स्थिरत्वं सिद्धमित्यर्थः // 31 //