________________ 184 प्रसन्नपदापरिभूषितम्- [2 अध्याये. वालिकेयेन संप्रदीयते यस्मै च तयोरन्तरालेऽवस्थानमस्य केन लिङ्गेनोपलभ्यते?, संप्रदीयमानो ह्यवस्थितः संप्रदातुरपैति संप्रदानं च प्रामोति इत्यवर्जनीयमेतत् // 26 // अध्यापनादप्रतिषेधः // 27 // अध्यापनं लिङ्गम्- असति संप्रदानेऽध्यापनं न स्यादिति // 27 // उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः // 28 // समानमध्यापनमुभयोः पक्षयोः- संशयानिवृत्तेः- किमाचार्यस्थः शब्दोऽन्तेवासिनमापद्यते तदध्यापनम् ? आहो स्वित् नृत्योपदेशवद् गृहीतस्यानुकरणम् अध्यापनम् ? इति, एवमध्यापनमलिङ्गं संप्रदानस्येति // 28 // अयं तर्हि हेतु: अभ्यासात् // 29 // अहेतुः= शब्दनित्यत्वासाधकइति सूत्रान्वयः / व्याचष्टे- येनेति, येन= आचार्येण. यस्मै= छात्राय. शब्दः इतिशेषः, तयोः- छात्राचार्ययोः, अस्य शब्दस्य, केन लिङ्गेनोपलभ्यते ? न केनापीत्यर्थः / खाभिप्रायमाह- संप्रदीयमान इति, संप्रदीयमानोऽवस्थितो धनादिः संप्रदातुः= दानकर्तृतः अपैति निवर्तते संप्रदानम्= ग्रहीतारं च प्राप्नोति इति अवर्जनीयम्= प्रतिषेद्धमशक्यम्= सर्वलोकप्रसिद्धमस्ति न च शब्दः संप्रदातुराचार्यादपैतीति शब्दे संप्रदीयमानत्वमेव नास्ति येन तेन साध्यसिद्धिः स्यादित्यर्थः / किं च संप्रदीयमानस्यापि धनादेनित्यत्वं बाधितमेवेति न संप्रदानादिति हेतुः शब्दनित्यत्वसाधनक्षमः / आचार्येण च शब्द उपदिश्यते न प्रदीयते // 26 // उक्तं पूर्वपक्षी प्रत्याचष्टे- अध्यापनादिति, संप्रदीयमानत्वस्य शब्दे अप्रतिषेधः= प्रतिषेधो नोपपद्यते- अध्यापनात्- यदि शब्दस्य संप्रदानं न स्यात्तदाऽध्यापनं न स्यात् भवति चाध्यापनं तेन शब्दे संप्रदीयमानत्वं सिद्धं तेन चावस्थितत्वं सिद्धमिति सूत्रार्थः / किं वा शब्दे यत्संप्रदीयमानत्वं तदध्यापनस्वरूपमेव तस्य च प्रतिषेधो नोपपद्यते इति सूत्रार्थः / व्याचष्टे- अध्यापनमिति, लिङ्गम्= शब्दसंप्रदानस्य लिङ्गम्= साधकम् / विपक्षे बाधकमाह- असतीति, असति संप्रदाने संप्रदानासंभवे इत्यर्थः / स्पष्टमन्यत् // 27 // ___ उक्तपूर्वपक्षं प्रत्याचष्टे- उभयोरिति, शब्द संप्रदीयमानत्वमस्तीत्येकः पक्षः नास्तीति द्वितीयः पक्षः एतयोरुभयोरपि पक्षयोर्मध्ये अन्यतरस्य= कस्याप्येकस्य पक्षस्याध्यापनात् प्रतिषेधो नोपपद्यतेउभयोरपि पक्षयोरध्यापनस्य समानत्वात्= यथा शब्दस्य संप्रदीयमानत्वपक्षेऽध्यापनमुपपद्यते तथाऽसंप्रदीयमानत्वपक्षेप्यध्यापनमुपपद्यते- स्वज्ञातशब्दसदृशशब्दस्योपदेशार्थमिति नाध्यापनात् शब्द संप्रदीयमानत्वं सिध्यतीति सूत्रार्थः / व्याचष्टे- समानमिति / अध्यापनसाम्ये हेतुमाह- संशयेति, एकतरपक्षस्य नियामकाभावादित्यर्थः / पक्षद्वये प्रथमपक्षमाह- किमिति, आचार्येण शब्दस्य यत् संप्रदानं किं तद् अध्यापनमित्यर्थः, द्वितीयपक्षमाह-आहो इति, गृहीतस्य= आचार्येणोच्चारितस्य, अनुकरणम् आचार्यवदुच्चारणम् / नृत्येति- नृत्यं हि क्रिया सा च नावस्थिता संभवति- क्षणिकत्वादिति नृत्योपदेशे हि आचार्यकृतचेष्टाया अनुकरणमेव संभवति न संप्रदानमिति तद्वदध्यापनेपि आचार्योचारणस्यानुकरणमेवेत्यर्थः / उपसंहरति- एवमिति, एवम्= उक्तरीत्योभयोरपि पक्षयोरध्यापनस्य समानत्त्वादध्यापनं शब्दसंप्रदानस्य साधकं न संभवतीत्यर्थः / पक्षद्वयं चोक्तमेव // 28 // ___अग्रिमसूत्रमवतारयति- अयमिति, शब्दनित्यत्वे अयम्= अभ्यासादिति हेतुः / पूर्वपक्षी शब्दनित्यत्वे हेत्वन्तरमाह- अभ्यासादिति, अभ्यस्यमानत्वादित्यर्थः, नित्यः शब्दोऽभ्यस्यमानत्वात् , अभ्य