________________ शब्दानित्यत्वप्रतिपादनम् ] न्यायभाष्यम् / सोऽयमुभयतः सव्यभिचार:- स्पर्शवांश्चाणुनित्यः. अस्पर्श च कर्माऽनित्यं दृष्टम् / “अस्पर्शत्वात् " इत्येतस्य साध्यसाधर्म्यणोदाहरणम् न-कर्माऽनित्यत्वात् // 23 // साध्यवैधणोदाहरणम् . न-अणुनित्यत्वात् // 24 // उभयस्मिन्नुदाहरणे व्यभिचारान हेतुः // 24 // अयं तर्हि हेतु: संप्रदानात् // 25 // संप्रदीयमानमवस्थितं दृष्टं संपदीयते च शब्द आचार्येणान्तेवासिने तस्मादवस्थित इति // 25 // तदन्तरालानुपलब्धेरहेतुः // 26 // ___ उक्तहेतोर्व्यभिचारित्वमाह- सोयमिति, अयम्= 'अस्पर्शत्वात्' इतिहेतुः उभयतः= अन्वयव्याप्त्या व्यतिरेकव्याप्त्या च व्यभिचारी, स्वाभिमतव्यतिरेकव्यात्या व्यभिचारमुदाहरति-स्पर्शवानिति, यत्राऽस्पर्शत्वं नास्ति तत्र नित्यत्वमपि नास्तीति व्यतिरेकव्याप्तिरपि नास्ति- परमाणौ व्यभिचारात= परमाणौ अस्पर्शत्वस्याऽभावेपि नित्यत्वस्य सत्त्वात. परमाणोः सस्पर्शपदार्थत्वात् / अन्वयव्यात्या व्यभिचारमुदाहरति- अस्पर्शमिति, यत्राऽस्पर्शत्वं तत्र नित्यत्वमित्यन्वयव्याप्तिरपि नास्ति- कर्मणि= क्रियायां व्यभिचारात्- कर्मणि अस्पर्शत्वस्य सत्त्वेपि नित्यत्वस्याऽसत्त्वात् क्रियाया अनित्यपदार्थत्वादित्यर्थः / एवमस्पर्शत्वहेतोनित्यत्वव्यभिचारित्वमुपपाद्य अग्रिमसूत्रमवतारयति- अस्पर्शत्वादिति, साध्यसाधयेण= अन्वयव्याप्त्या उदाहरणम्= प्रत्युदाहरणं किं वा व्यभिचारोदाहरणं वक्ष्यमाणं कर्मेत्यर्थः। नेतिअस्पर्शत्वहेतुना शब्दस्य नित्यत्वं न संभवति- कर्मानित्यत्वात्= अस्पर्शस्यापि कर्मणोऽनित्यत्वात , नित्यत्वाभाववत्यपि कर्मणि अस्पर्शत्वस्य सत्त्वेन नित्यत्वव्यभिचारित्वादित्यर्थः / भाष्यमत्र नास्तिसूत्रस्य स्पष्टार्थत्वात् // 23 // ___अग्रिमसूत्रमवतारयति- साध्येति, साध्यवैधम्र्येण= व्यतिरेकव्याप्त्या उदाहरणम्= प्रत्युदाहरणं किं वा व्यभिचारोदाहरणं परमाणुरित्यर्थः / नेति- अस्पर्शत्वहेतुना शब्दस्य नित्यत्वं न संभवतिअणुनित्यत्वात् अस्पर्शत्वरहितस्यापि परमाणोनित्यत्वात्. यन्नित्यं तदस्पर्शमित्यस्याः यत्रास्पर्शत्वं नास्ति तत्र नित्यत्वं नास्ति इत्यस्याश्च व्याप्तेः परमाणौ व्यभिचारादिति सूत्रार्थः / व्याचष्टे- उभयेति, उभयस्मिन्नुदाहरणे= कर्मणि परमाणौ च, व्यभिचारश्च प्रदर्शितः, न हेतुः= अस्पर्शत्वं शब्दनित्यत्वसाधक न संभवतीत्यर्थः // 24 // अग्रिमं पूर्वपक्षसूत्रमवतारयति- अयमिति, यदि सव्यभिचारादस्पर्शत्वं न हेतुस्तहि अयम् संप्रदानादिति शब्दनित्यत्वस्य हेतुः= साधक इत्यन्वयः / संप्रदानादिति-नित्यः शब्दः संप्रदानात= प्रदानकर्मत्वादिति सूत्रान्वयः / ब्याचष्टे- संप्रदीयमानमिति, संप्रदीयमानं धनादिकमवस्थितम् अक्षणिकं दृष्टम् / प्रकृतमाह-संप्रदीयते इति, अन्तेवासिने छात्राय / उपसंहरति- तस्मादिति, शब्द इतिशेषः, शब्दस्य संप्रदीयमानत्वेनाऽक्षणिकत्वे प्राप्ते उच्चारणानन्तरमपि स्थितौ सिद्धायां तदनन्तरं विनाशकारणासंभवान्नित्यत्वं भविष्यतीत्यर्थः // 25 // उक्तं प्रत्याचष्टे- तदन्तरालेति, तत्= तयोः छात्राचार्ययोरन्तराले= मध्यप्रदेशे शब्दस्यानुपलब्धेः= अनुपलभ्यमानत्वात् संप्रदीयमानत्वमेव नास्तीति किं वाऽवस्थितत्वं नास्तीति संप्रदानादिति