________________ 182 प्रसन्नपदापरिभूषितम्- [2 अध्याये. २आह्रिकेअनुपलम्भात्मकत्वादनुपलब्धेरहेतुः // 21 // यदुपलभ्यते तदस्ति. यन्नोपलभ्यते तन्नास्तीति अनुपलम्भात्मकम् असदिति व्यवस्थितम्, उपलब्ध्यभावश्चाऽनुपलब्धिरिति सेयमभावत्वान्नोपलभ्यते सञ्च खल्वावरणं तस्योपलब्ध्या भवितव्यं न चोपलभ्यते तस्मानास्तीति / तत्र यदुक्तम्- "नावरणानुपपत्तिरनुपलम्भात्" इति अयुक्तमिति // 21 // अथ शब्दस्य नित्यत्वं प्रतिजानानः कस्माद् हेतोः प्रतिजानीते? अस्पर्शत्वात् // 22 // अस्पर्शमाकाशं नित्यं दृष्टमिति तथा च शब्द इति // 22 // शब्दानित्यत्ववादी यद्यऽभ्यनुजानाति= निश्चिनोति, अभ्यनुज्ञेयमाह- नेति, 'आवरणानुपलब्धिरनुपलभ्यमानत्वान्नास्ति' इत्यभ्यनुजानाति. अनुपलभ्यमानत्वादेवावरणानुपलब्धेरसत्त्वमभ्यनुज्ञाय च 'शब्दावरणं नास्ति- अनुपलभ्यमानत्वादेव आवरणानुपलब्धिवत् ' इत्येतत् वदति भवान्. तदा एतस्मिन्नपि अभ्यनुज्ञावादे= अभ्यनुज्ञापक्षे प्रतिपत्तिनियमः= त्वदुक्तनियमः= आवरणाभावो नोपपद्यते तथा हि यद्यावरणानुपलब्धिर्नास्ति तदावरणोपलब्धिः स्यादेवेत्यावरणसद्भावः सिद्धः, यदि चावरणानुपलब्धिरनुपलभ्यमानाप्यस्ति तदावरणानुपलब्धिवदावरणमप्यनुपलभ्यमानमप्यस्तीति सिद्धमित्यावरणाभावो नोपपद्यते तथा च सन्नपि शब्दोऽनुच्चारणकाले आवरणवशान्नोपलभ्यते न तु स्वाभावादिति सिद्धं शब्दस्य नित्यत्वमित्यर्थः // 20 // पूर्वसूत्रद्वयोक्तं कुचोद्यं परिहरति- अनुपलम्भेति, आवरणस्यानुपलब्धैरनुपलम्भात्मकत्वात्= उपलम्भाभावरूपत्वात्= उपलब्ध्यभावरूपत्वादेवानुपलम्भोस्ति न चानुपलम्भोऽनुपलभ्यमानस्य सत्त्वसाधको भवति येनावरणस्य सत्त्वसाधकं स्यात् तथा चाऽऽवरणानुपलब्ध्यनुपलम्भः आवरणसद्भावस्य अहेतुःन साधकः संभवतीत्यन्वयः, आवरणानुपलब्धिर्हि आवरणोपलब्ध्यभाव एव आवरणोपलब्धेश्चाभावे सिद्धे आवरणस्य सत्त्वापत्तिर्नास्ति अन्यथा घटोपलब्ध्यभावेन घटस्यापि सत्त्वमापद्येत न चैवमस्तीति आवरणानुपलब्धिसत्त्वेनापि तद्वदावरणस्य सत्त्वापत्तिर्नास्तीति सूत्रार्थः / व्याचष्टे- यदिति, अनुपलम्भात्मकम्= अनुपलभ्यमानं किं वा उपलम्भाभावः अभावत्वादेवासदिति व्यवस्थितमस्ति / प्रकृतमाहउपलब्धीति, अनुपलब्धिर्हि उपलब्ध्यभाव एवेति सेयम्= आवरणानुपलब्धिरपि अभावत्वात्= अभाव. रूपत्वादेव चाक्षुषादिप्रत्यक्षेण नोपलभ्यते. शब्दावरणं तु सत्= भावस्वरूपमस्तीति तस्य आवरणस्य उपलब्ध्या भवितव्यम्-भावपदार्थस्य प्रत्यक्षेणोपलम्भसंभवात् न चावरणमुपलभ्यते तस्माद् ज्ञायते शब्दा. वरणं नास्तीति तत्र= एवमावरणाभावे सिद्धेपि यत्पूर्वसूत्रेणोक्तम्- “नावरणानुपपत्तिरनुपलम्भात् " इति तद् अयुक्तमेव-आवरणानुपपत्तेः प्रदर्शितत्वेन आवरणानुपपत्तेरभावस्यासंभवात् , तथा च शब्दस्यावरणं नास्त्येव येन सन्नपि शब्दो नोपलभ्येत किं तु अनुपलभ्यमानः शब्दः स्वाभावादेव नोपलभ्यते इति उत्पत्तिविनाशधर्मकत्वादनित्यः शब्द इति सिद्धमित्यर्थः // 21 // ____ तार्किकः शब्दनित्यत्वसाधकं हेतुं जिज्ञासते- अथेति / अत्र- "विप्रतिपत्तेः प्रमाणमूलत्वाद्धेतोः परिप्रश्नः" "न च विप्रतिपत्तिः प्रमाणमन्तरेण युक्तेति नित्यत्वे प्रमाणं वक्तव्यमित्यत आह" इति वार्तिकम् , अत्र शब्दस्य नित्यत्वानित्यत्वयोर्विप्रतिपत्तिः। सूत्रेणोत्तरमाह- अस्पर्शत्वादिति, शब्दः नित्यः अस्पर्शत्वात्= स्पर्शगुणरहितत्वादाकाशवदिति सूत्रार्थः / ब्याचष्टे- अस्पर्शत्वान्नित्यः शब्दः / स्पष्टमन्यत् // 22 //