________________ शब्दानित्यत्वप्रतिपादनम् ] न्यायभाष्यम् / 181 किमत्र ज्ञेयं प्रत्यात्मवेदनीयत्वात् / समानम्= अयं खल्वावरणमनुपलभमानः प्रत्यात्ममेव संवेदयते- 'नावरणमुपलभे' इति, यथा कुडयेनादृतस्याऽऽवरणमुपलभमानः प्रत्यात्ममेव संवेदयते, सेयमावरणोपलब्धिवद् आवरणानुपलब्धिरपि संवेद्यैवेति, एवं च सत्यऽपहृतविषयमुत्तरवाक्यमस्तीति // 19 // अभ्यनुज्ञावादेन तूच्यते जातिवादिनाअनुपलम्भादप्यनुपलब्धिसद्भाववद नाऽऽवरणा नुपपत्तिरनुपलम्भात् // 20 // यथाऽनुपलभ्यमानाप्यावरणानुपलब्धिरस्ति एवमनुपलभ्यमानमप्यावरणमस्तीति / यद्यभ्यनुजानाति भवान्- 'नानुपलभ्यमानाऽऽवरणानुपलब्धिरस्ति' इति. अभ्यनुज्ञाय च वदति- 'नास्त्यावरणमनुपलम्भात्' इत्येतत्. एतस्मिन्नप्यभ्यनुज्ञावादे प्रतिपत्तिनियमो नोपपद्यते इति // 20 // थस्तथा चावरणवशादेव सन्नपि शब्दो नोपलभ्यते इति शब्दनित्यत्वं सिद्धम् / आवरणानुपलब्धेरभावज्ञानकारणं सिद्धान्ती जिज्ञासते- कथमिति, शब्दनित्यत्ववादी भवान् आवरणानुपलब्धेरनुपलब्धिम्= अभावं कथं जानीते इत्यर्थः / पूर्वपक्षी उत्तरमाह- किमत्रेति, आवरणानुपलब्धि!पलभ्यते इत्यत्र ज्ञेयं गूढं किमपि नास्ति-प्रत्यात्मवेदनीयत्वात्= सर्वजनप्रसिद्धत्वादित्यन्वयः, शब्दावरणानुपलब्धिोंपलभ्यते इति सर्वजनप्रसिद्धमेव तेनावरणोपलब्धिः सिद्धा तया चावरणं सिद्धं तेन शब्दनित्यत्वं सिद्धमित्यर्थः / अत्र सिद्धान्ती प्रतिबन्द्युत्तरमाह- समानमिति, यथावरणानुपलब्धि!पलभ्यते तथावरणमपि नोपलभ्यते इति समानमेवेत्यर्थस्तथा चावरणानुपलब्ध्या शब्दाश्रवणस्य शब्दासत्त्वमूलकत्वेन शब्दानित्यत्वं सिद्धमित्यर्थः / उक्तं साम्यमेव व्याचष्टे- अयमिति, अयम्= शब्दानित्यत्ववादी शब्दावरणमनुपलभमानः 'नावरणमुपलभे' इति प्रत्यात्ममेव सर्वप्रसिद्धमेव आवरणानुपलम्भादावरणाभावमपि संवेदयते. अत्र दृष्टान्तमाह- यथेति, कुड्यलक्षणमावरणं यथा प्रत्यात्ममेव= सर्वप्रसिद्धमेव संवेदयते तथा / उपसंहरति- सेयमिति, यथावरणोपलब्धिर्वेद्यास्ति तथावरणानुपलब्धिरपि वेद्यास्ति आवरणानुपलब्ध्या चाश्रूयमाणस्य शब्दस्याऽसत्त्वापत्त्योक्तरीत्या ह्यनित्यत्वं सिद्धमित्यर्थः- विपक्षे विनिगमनाविरहात् / पर्यवसितमाह- एवमिति, एवम्= अनेन प्रकारेणावरणानुपलब्ध्यावरणाभावे सिद्धे उत्तरवाक्यम्= एतत्सूत्रात्मकं जात्युत्तरम्= आवरणोपपत्तिप्रतिपादनम् अपहृतविषयम्= निरस्तविषयम्= प्रत्याख्यातम्= मिथ्याभूतमस्तीति विज्ञेयमित्यन्वयः / अत्र-" अत्र सिद्धान्ती पृच्छति- कथं पुनरिति, जातिवाद्याहकिमत्र ज्ञेयं प्रत्यात्मवेदनीयत्वादिति, सिद्धान्त्याह- एवं सतीति, उत्तरवाक्यमिति- जात्युत्तरवाक्यमित्यर्थः" इति तात्पर्यटीका // 19 // ____ अग्रिमसूत्रमवतारयति- अभ्यनुज्ञेति, जातिवादिना= पूर्वपक्षिणा जातिमाश्रित्य अभ्यनुज्ञावादेन= हठात् स्वीकृतपक्षेणोच्यते इत्यर्थः / अत्र- " ननु पूर्वेणैव सूत्रेणावरणोपपत्तौ दर्शितायां कृतमनुपलम्भादित्यनेन सूत्रेणेत्यत आह- अभ्यनुज्ञावादेनेति" इति तात्पर्यटीका / अनुपलम्भादिति- आवरणानुपलब्धेरनुपलम्भात्= अनुपलम्भेपि यथा सद्भावः= सत्त्वं स्वीक्रियते तथा शब्दावरणस्यापि अनुपलम्भात्= अनुपलम्भेपि सद्भावः स्वीकार्य इति शब्दावरणस्यानुपपत्तिर्नास्ति तथा च शब्दः सन्नपि उच्चारणाभावकाले आवरणवशान्नोपलभ्यते इति शब्दस्य नित्यत्वं प्राप्तमिति सूत्रार्थः / व्याचष्टे- यथेति, प्रकृतमाह- एवमिति, असद्भावासाधकस्यानुपलभ्यमानत्वस्य आवरणानुपलब्धाविव आवरणेपि सत्त्वादेव. अन्यथावरणानुपलब्धेरपि सत्त्वं न स्यादित्यर्थः / अत्र तार्किकसौहार्देन व्यतिरेकमाह- यदीति, भवान्