________________ जातिलक्षणम् ] न्यायभाष्यम्। 215 समानप्रसवात्मिका जातिः // 70 // या समानां बुद्धिं प्रसूते भिन्नेष्वधिकरणेषु. यया बहूनि इतरेतरतो न व्यावर्तन्ते. योऽर्थोऽनेकत्र प्रत्ययानुवृत्तिनिमित्तं तत् सामान्यम् , यच्च केषां चिदभेदं केषांचिद् भेदं करोति तत् सामान्यविशेषो जातिरिति // 70 // // इति वात्स्यायनीये न्यायभाष्ये द्वितीयाध्यायस्य द्वितीयमाह्निकं समाप्तम् // // द्वितीयाध्यायश्च समाप्तः // अत्र "न पुनः सर्वा जातिराकृत्या लिङ्गयते इति, मृत्सुवर्णरजतादिका हि रूपविशेषव्यङ्गया जाति - कृतिव्यङ्गया. ब्राह्मणत्वादिजातिस्तु योनिव्यङ्गया. आज्यतैलादीनां जातिस्तु गन्धेन वा रसेन वा व्यज्यते " इति तात्पर्यटीका / तथा- “आकृतौ नियमो न जातौ- सर्वाऽऽकृतिर्जातिलिङ्गमिति= न पुनः सर्वा जातिराकृत्या लिङ्गयते” इति वार्तिकम् / / 69 // ____ संप्रति जातिं लक्षयति- समानेति, समानप्रसवात्मिका गवादिव्यक्तिषु * गौौ:' इत्याद्याकारकसमानज्ञानोत्पादिका या सा गोस्वादिलक्षणा जातिरित्यन्वयः, परस्परं भिन्नास्वपि गवादि. व्यक्तिषु यत्प्रभावात् 'इयमपि गौरियमपि गौः' इत्याद्याकारकं समानं ज्ञानं जायते सा जातिरेवगोत्वादिजातेः सर्वास्वपि गवादिव्यक्तिष्वनुवर्तमानत्वेन गोत्वादिप्रकारकसमानज्ञानजनकत्वसंभवादिति सूत्रार्थः / अत्र 'समानज्ञानजननी जातिः' इत्येवं सूत्रं पठनीयमासीत् / अत्र- "समानप्रत्ययोत्पत्तिकारणं जातिरिति जाती नियमो न समानप्रत्ययोत्पत्तौ- जातिमन्तरेणापि दृष्टत्वात्= जातिमन्तरेणापि समानप्रत्ययो दृष्टो यथा पाचकादिषु" इति वार्तिकम् , सर्वेषु पाचकेषु पाचकत्वज्ञानं जाति विनैव पाकक्रियापुरस्कारेण भवतीति जातिमन्तरेणापि समानप्रत्ययो जायते. जातिस्तु समानप्रत्ययजनिकैवेति नियम इति वार्तिकार्थः / व्याचष्टे- येति, भिन्नेष्वधिकरणेषु= परस्परं भिन्नास्वपि गवादिव्यक्तिषु या समानाम्= 'गौौः' इत्याकारां बुद्धिं प्रसूते सा जातिरित्यर्थः / लक्षणान्तरमाह- ययेति, यया बहूनि शरीराणि= व्यक्तय इतरेतरतः= परस्परं न व्यावर्तन्ते= न भिद्यन्ते सा जाति:- परस्परं भिन्नानामपि गवादिव्यक्तीनां गोत्वादिजात्यैवैक्यसंभवादित्यर्थः / प्रथमलक्षणमनुवदति- योर्थ इति, यः पदार्थः अनेकत्र= अनेकासु व्यक्तिषु प्रत्ययस्य= द्रव्यत्वादिप्रकारकज्ञानस्य ' इदमपि द्रव्यमिदमपि द्रव्यम् ' इत्याघाकारकस्य अनुवृत्तेनिमित्तं तदेव सामान्यम्= परा जातियथा द्रव्यत्वादि, द्रव्यत्वसामान्येन सर्वेषु द्रव्येषु द्रव्यमिति ज्ञानं जायते इत्यर्थः / एवमन्यत्रापि बोध्यम् / अपरसामान्यस्य लक्षणमाह- यच्चेति, यथा गोत्वं गोव्यक्तीनां परस्परमभेदं करोति अश्वादीनां च गोव्यक्तिभ्यो भेदं करोतीति गोत्वादिकं सामान्यविशेषः जातिरित्युच्यते इत्यन्वयः, तदुक्तं " सामान्यं द्विविधं प्रोक्तं परं चापरमेव च " इति, द्रव्यत्वादिसामान्येन तु गवाश्वादीनां भेदो न भवति- द्रव्यत्वस्य द्रव्यमात्रवृत्तित्वादित्यलम् // 70 / / अत्र वार्तिकम् " संशयस्य प्रमाणानां विचारस्तव्यवस्थितिः / शब्दस्य तत्त्वं प्रामाण्यं पदार्थश्वेह कीर्तिताः // " इति / / // इति शब्दार्थनिरूपणं समाप्तम् / / // इति न्यायभाष्यद्वितीयाध्यायस्य प्रसन्नपदा व्याख्या समाप्ता / /