________________ 82 __ धातुप्रदीपः। ___मा भक्षणे / 46 / साति। प्रणिमाति / पसौ। अप्सासीत् / असासिष्टाम् / सातः / द्रप्सः / (15) .. पा रक्षणे / 47 / पाति। पायते राज्ञा लोकः। पपौ। अपासीत् / पालयति। पायः / पायकः / रा दाने / 48 / राति / व्यतिराते / व्यतिरासे / व्यतिरै / ररौ। / ला आदाने / 48 / लाति / व्यतिलाते / लली। लाता। अलासीत् / दाप लवने / 50 / दाति / प्रणिदाति प्रनिदाति / दायते वृक्षस्तक्षणा / ददौ। अदासीत् / दापयति / दातं वहिः / दात्रम् / / ख्या प्रकथने / 51 / ख्याति / चख्यौ। अख्यत् / चक्षिङः ख्याजिति (2 4 / 54) ख्याजादेश आचख्ये आचख्यौ। इत्थञ्चाकर्चभिप्राये क्रियाफले पात्मनेपदं मा भूदिति। कर्चभिप्राये तङ् यथा स्यात् / प्रा पूरणे / 52 / प्राति / पप्रौ। प्रायः / मा माने / 53 / माति / मीयते / ममौ / मितम् / वच भाषणे / 54 / वक्ति। वक्तः / वक्षि / वच्मि / अन्तवचनस्यानभिधानमाचक्षते / उवाच / जचतुः / अचः / उवक्थ उवचिथ / वक्ता / अवोचत् भवोचताम् / अवोचन् / ब्रुवो वचिरित्यादेशे (2 / 4 / 53 ) उमि अवोचत् अवोचत / प्रवचनीयो देवदत्तः प्रवचनीयं देवदत्तेन / वाक् / वाचौ। इति अनुदात्ता इति। द्यौतिप्रभृतयः / विद ज्ञाने / 55 / वेत्ति वेद / विवेद विदाञ्चकार / संविट्रते संविदते / वैदिता / वेत्तु विदाकरोतु / (16) विदितम् / ब्रामणवेदं भोजयति। अस भुवि / 56 / अस्ति / स्तः / सन्ति / असि / स्थः / स्थ / स्मः / व्यतिसे / व्यतिहे। व्यतिखहे / व्यतिस्महे / इह नित्यत्वादेत ऐ इति (3 / 4 / 53) एकारादेश ह एतीति (7 / 4 / 52) न भवति / व्यत्यसै। व्यत्यसावहै / व्यत्यसामहै। अस्तु एधि / अयानि / असाव / असाम / आसीत्। आस्ताम् / (15) द्रवणेन सानीयो द्रप्सः / धजथे कः / पृषोदरादित्वाद द्रादेशः / (16) वक्त्रं संवणु नाञ्चलेन चपले पखेरुहस्यास्य वा तत्वं वीक्ष्य विदांकरोतु भगवानभोजिनीवल्लभ इति।