________________ धातुप्रदीपः / इङ् अध्ययने / 37 / अधीते / अधीयाते / अधीयते / अधिजगे / प्रधिजगाते। अध्यगौष्ट अध्यैष्ट / अध्यैष्यत अध्यगोष्थत। अध्यापयति / अध्यापिपत् अध्यजीगपत्। अधिजिगापयिषति अध्यापिपयिषति / अधिजिगांसते। अधीयानः। अधीयन् पारायणम्। अधीतः। अधीत इति अध्यायकः। अध्यापयतीति अध्यापकः / एयन्ताणगवुल। कठश्चासावध्यापकञ्चेति कठाध्यापकः। ब्राह्मणाध्यापक इति याजकादिभिश्चेति (2 / 2 / 8) कारकषष्ठीसमासः / अयमात्मनेभाषः / प्रात्मनेपदीत्यर्थः / इक स्मरणे / 38 / ककारीऽधीगर्थदयेशां कर्मणीति (2252) विशेषणार्थः / अध्येति / अधीतः। अधीयन्ति / केचित्तु इणो यस्मिति (6481) यणादेशमिच्छन्ति / अधियन्ति / (14) अधीयाय / अध्यगात् / वी गतिप्रजनकान्त्यसनखादनेषु / 28 / वेति। वीतः। वियन्ति / विवाय / विव्यतुः / विव्युः / वेता। ___या प्रापणे / 40 / याति। प्रणियाति। ययौ। याती यान्ती / यायावर:। / वा गतिगन्धनयोः / 41 / वाति / वबौ / वाजयति वापयति / निर्वाणः निर्वातः। भा दीप्तौ / 42 / भाति / बभौ। ष्णा शौचे। 43 / साति। सम्रौ। सिष्णासति / सिष्णापयिषति / निष्णातः / प्रतिष्णातं सूत्रम् / नदीष्णः / श्रा पाक / 44 / श्राति / शत्रौ / शृतं क्षौरम् / श्राणा यवागूः / ___ द्रा कुत्सायां गतौ / 45 / हाति। प्रणिद्राति / दद्रौ। निद्रा। निद्राणः। निद्रालुः / .. (14) इणो यन्नित्यव (481) णकारोच्चारणमिङिकोनिवृत्त्यर्थमिति न्यासकारः / ये तु इण्वदिक इति (2445, वा) सार्वधातुकार्धधातुकयो. सामान्ये नातिदेशमिच्छन्ति तेषां मते इङ एव निवृत्त्यर्थम् / इकस्तु भवितव्यमेव यणा / अधियन्ति / अधियन् / मतान्तरे त्वाधंधातुक एव यण। अधीयाय। नतु सार्वधातुके . अधीयन्ति। 'ससीतयो राघवयोरधीयन्निति भट्टिः। अधिगमयति। अधिजिगमिषति।