________________ 58 धातुप्रदीपः। कम्पने चलिः / 817 / चल कम्पने इति ज्वलादौ / स च कम्पनेऽर्थे मित्। चलयति वातः शाखाम् / कम्पनादन्यत्र चालयति सूत्रम् / (83) चालयति शूद्रं सार्थं वा।। छदि र्जने / 818 / छद अपवारण इति चुरादिः। तस्योर्जने बले प्राणने च मित्संज्ञार्थमिह पाठः / छदयति / स्वार्थिको वा णिच् / छदन्तं प्रयुक्त इति वा / अपवारण छादयति / उर्जनादन्यत्र हिच्छादयति / जिबोम्मथने लड़िः / 818 / लड़ विलासे इत्ययं जिह्वयोन्मथने मित् / लड़यति जिदया। जिह्वोन्मथनादन्यत्र लाड़यति बालकम् / उन्मथन मुत्क्षेपणम्। डलयोरेक्याद लालयेत् पञ्चवाणीत्यादि साधु।। मदी हर्षग्लेपनयोः / 820 / हर्षग्लेपनयोर्माद्यतिर मित् / मदयति / हर्षयति ग्लेपयति वा / (84) आम्यामन्यत्र मादयति / / ध्वन खन शब्दे। 821 / 822 / स्खन अवतंसन इत्येके / ध्वनयति। खनयति / शब्दावतंसनाभ्यामन्यत्र ध्वानयति / स्वानयति / (2) घटादयो मितः / अमी घटादयो मित्संज्ञकाः स्युः / मितां इखः (6 / 4 / 32) / चिण्णमुलोर्दीधोऽन्यतरस्यामिति (6 / 4 / 93) मित्संज्ञाफलम् / (3) जनीजृषकसुरजोऽमन्ताश्च / जायतिजीयतिकस्यतिरनतयो मितः / अमन्ताय / जनयति / जरयति / कसयति / र रणौ मृगरमण इत्यनुनासिकलोपे (6 / 4 / 34, वा) अतउपधाया इति (73 / 116) दौ मित्वे मितां इखः (1 / 4 / 82) / रजयति मृगान् / अमन्ताः गमयति / रमयति / यमयति / अमन्ताश्चेत्यकारोपादानात् तिम टिम आर्दीभाव इत्येतस्य तेमयति टेमयतीति इस्त्रो न भवति / (4) ज्वलबलझलनमामनुपसर्गाहा / - अनुपसर्गात् परेषां ज्वलादोनां वा मित्संज्ञा। सोपसर्गानां तु नित्यमेव / पूर्व विधानात् / ज्वलयति ज्वालयति / वलयति द्वालयति / प्रलयति प्रालयति / नमयति नामयति / इह नित्यम् / प्रज्वलयति / प्रबलयति / प्रालयति। प्रणमयति / (83) क्षिपतीत्यर्थः। (84) ग्लेपनं दैन्यम्।