________________ धातुप्रदीपः। (5) ग्लानावनुवमाञ्च। एषाञ्चानुपसर्गाणां मितसंज्ञा वा स्यात / उभयत्र विभाषयम् / ग्लाना इत्य तयोरप्राप्त वनुवम्योः प्राप्ते / तत्र वनतेर्वनु च नोच्यत इत्यनेन प्राप्ता वमेश्चामन्तत्वात्। ग्लपयति ग्लापयति / स्नप. यति सापयति / वनयति वानयति / वमयति। वामयति। सोपसर्गात तु यथाप्राप्तम् / प्रग्लापयति / प्रनापयति / प्रवनयति / प्रवमयति / ___(6) न कम्य मिचमाम्। नैते मितः। कामयते / अमन्तत्वात् प्राप्ते णिडोऽभावपक्षे णिच्प्रत्यये मित्संज्ञाप्रतिषेधः। कामयति / पामयति / चामयति / ___(7) ·शमोऽदर्श ने / नेति वर्तते / दर्शनार्थे शमिन मित् / निशामयति रूपम् / अन्यत्र शमयति रोगम् / निशमयति वचः शृणोति / (85) (8) यमोऽपरिवेषणे। यमिन मित् / यामयति। आयामयते / परिवेषणे तु यमयति ब्राह्मणान् / कथं नियमयति संयमयति ? तत्करोतीति प्रातिपदिकास्मिन्प्रत्ययः / .. (9) स्खदिरपपरिभ्याञ्च / अपस्वादयति / परिवादयति। आभ्या. मन्यत्र स्खदयति / प्रस्खदयति। (86) फण गती। 823 / मिदित्यपेक्षते / नेति निवृत्तम्। अनुचितत्वात् / असम्भवाच्च / पूर्वमयं न पठ्यते / फणादिकाऱ्यांनुरोधात् / फणति / फणयति / पफाण / फेणतुः पफणतुः / फेणुः पफणु: / फाण्टम् फणितम् / हत्। एतस्मात् पूर्व हत्करणमित्येक / फाणयति / संफाणयति / दिति समस्तघटादिगणपरिसमास्यर्थम् / इति परस्मैभाषा उदात्ता उदात्तेतः / एते घटादिषु ज्वलादयः परस्मैपदिन इत्यर्थः। राजु दीप्तौ। 824 / राजति राजते / रेजतुः रराजतः रेजाते रराजाते। . (85) निशामय तदुत्पत्ति विस्तरादगदतो ममत्यत्र त्वार्ष: प्रयोगः / मतान्तरण वाव खित्यर्थः / (86) भ्वादिगणे गणसूवाणि नवसंखाकामि। तान्यत्र शर इत्यादि संखयाभिश्चिह्नितानि। एवञ्चान्यच बेदितव्यम् / विशेषतपुरादिगणे / स्वादौघटादयः षित प्रति हि प्रथमं मूवम् /