________________ . 28 धातुप्रदीपः। जट झट संघाते / 303 / 304 | जटति। जटः। जटा। झटति / झाटः / कर्मणि घञ् / भट भृतौ / 305 / भटति / भाटः / भटः / भटित्रम् / तट उच्छाये / 306 / तटति / तटः / तटम् / तटी। तटिनी सरित् / खट कावायाम् / 307 / खटति / खटः / खाटः / खट्वा / णट नृतौ। 308 / नति। प्रणटति। नटः। नाटः / नाटकः / नाटिका। पिट शब्दसंघातयोः। पेटति / पेटः / पेटकः / पेटी। पिटः / पिटकः / बलाकादयश्चेति (उण, 4 / 53) आकः / पिटाकः / 30 / हट दीप्तौ। 310 / हटति / जहाट / हाटः / हाटकम् / षट अवयवे / 311 / सटति / सिषाटयिषति | साटः / सटा / लुट विलोड़ने / 312 / लोटति / लोटः। दिवादिष्वप्ययं पठ्यते / लुट्यति / चिट परप्रेष्य / 313 / चेटति। चेटः / गौरादित्वाच चेटी। चेटकः / विट शब्द / 314 / वेटति / विटः / इगुपधात् कः। विटपः / वेटः / बिट बिड़ आक्रोशे / 315 / 316 / बेटति / बेटः / बेड़ति / बिडालः / इट किट कट इ गतौ। 317-320 / एटति। इयेट। एटः / केटति / चिकेट / केटः / कटति / अकटीत् अकाटीत् / कटिमिदितमेके पठन्ति / तन्मते कण्टति / कण्टः / कण्टकम् / अयति / इयाय / इयतुः / वसयत्प्रवृत्त्येह कार्याणि क्रियन्त इति यणादेशं कृत्वा स्थानिवत्त्वाद दिवचनमत्र। इकारवत्प्रकरणादयति रुपदिष्टः। तदनुरोधेन चान्ये / अयति दीर्घमिच्छन्ति चान्द्राः / व्यपदेशिवदभावेन गुरुमत्त्वादाम्प्रत्ययमुदाहरन्ति च / अयाञ्चकारति / मड़ि भूषायाम् / 321 / मण्डति / मण्डकम् / मण्डनम् / मण्डनः / शलिमण्डिभ्यामूकण ( उण 4 / 488 ) / मण्डूकः / कूपमण्डूकः / पात्रेसमितादित्वात्।