________________ धातुप्रदीपः। विछ गतो। 148 ! विच्छायति / विच्छे स्तुदादिपाठसामर्थ्यादायप्रत्ययान्तादपि शो (25) भवति यथा जगुप्सत इत्यत्रात्मनेपदम् / एकदेशपाठात्। अन्ये तु अत्र पाठसामर्थेन सार्वधातुकेऽप्यायप्रत्ययस्य विकल्प विधानमाचक्षते। तथाच च्छोः शूडनुनासिके चेत्यत्र (6 / 4 / 18) गां विच्छतौति गोविड़िति न्यासे दृश्यते / एवञ्च विच्छति विच्छायति / विविच्छ विच्छायाञ्चकार / विच्छिता विच्छायिता। विच्छायन्ती विच्छायती। विच्छयति / 'विच्छाययति। अविविच्छत् अविविच्छायत्। विच्छित्वा विच्छायित्वा / विच्छितः विच्छायितः / विश्नः / इति परस्मैभाष उदात्तः / विश प्रवेशने / 150 / विशति / निविशते / वेष्टा / अविक्षत् / विष्टम् / वेशः / वेशनम् / मृश आमर्शने / 151 / मृशति। मष्टा मी। म्रक्ष्यति मयति / अनाक्षीत् अमाझेत् अमृक्षत् / अम्राष्टाम् अमाम् अमृक्षताम् / मुद प्रेरण / 152 / नुदति / नुनोद। नीता। . षदल विशरणे। 153 / सीदति / ससाद। सत्ता। असदत् / सिषत्सति / सीदती सौदन्ती। सादः सद इति ज्वलादिपाठात् / (26) शदल शातने / 154 / शीयते / शशाद / शत्ता / शत्स्यति / शिशत्सति / भ्वादिष्वयं पठितः / स्वरार्थं पुनरत्र पठ्यते (27) / इति परस्मैभाषा अनुदात्ताः। एते विशिप्रभृतयः। हलन्ता अप्येतेऽनिटप्रकरणे पुनः परस्पदिन उक्ताः। . मिल सङ्गमे / 155 ! मिलति मिलते। न्यमलोत् न्यमलिष्ट (28) / अयमुदात्तः। (25) तुदादिभ्यः श इत्यनेन (1977) शप्रत्यय इत्यर्थः / (26) अब पाठे प्रयोजन सीदती सौदन्तीति नुविकल्पः / भादौ पाठः ज्वलादित्वात् सादः सद प्रति वा प्रत्ययार्थः / स्वरभेदार्थश्च / भादौ सौदतीत्यस्य शतिपोरनुदात्तत्वाद धातो (1992) रित्यायुदात्तत्वम् / तुदादौ तु प्रत्ययखरण मध्योदात्तत्वम् / (27) शदः शित इति (1 / 3 / 60) तडविधानादत्र नुविकल्पप्रयोजनं नास्ति / खरभेदस्तु प्रयोजनम् / सवपूर्ववत् तुदादौ अस्य मध्योदात्तस्वम् / (28) पुनः पाठः कार्यभिप्राय सर्थः /