________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.1. यच्च तेन' प्रदर्शितं तदेव प्रापणीयम्। अर्थाधिगमात्मकं हि "प्रापकमित्युक्तम्। स्यादेतत्-शक्यप्राप्तिकार्थोपदर्शकमेव सम्यग्ज्ञानं [11a] नान्यदिति निनिमित्तमिदम् / तथा चान्यदपि किं न परीक्ष्यत इत्याह-अर्थक्रियाथिभिः-इति / चो यस्मात् / अर्थस्य दाहादे:, क्रिया निष्पत्तिः। तामर्थयन्तीति तथा / एतैरर्थक्रियायां शक्तस्य वस्तुनः प्राप्तेर्यनिमित्तं तन्मग्यतेऽन्विष्यते। अर्थक्रियाथित्वादेव च तदन्वेषणमेषामवसेयम् / तैश्च / प्रेक्षावद्भिरिति प्रकरणाद् द्रष्टव्यम् / इतरथार्थक्रियार्थिभिरप्यप्रेक्षावद्भिर्मिथ्याज्ञानमपि निभाल्यत इति तत्परीक्षाऽप्यापतेत् / / यदि नाम तैस्तन्मृग्यं तथापि तदितरदपि ज्ञानं किं न परीक्ष्यत इत्याह यच्च-इति / चोऽवधारणे। विचार्यते परीक्ष्यते। ईदृशं तत्सम्यग्ज्ञानं प्रवर्तकं यदनुसरन्ति भवन्त इति विभज्य प्रतिपाद्यते / अयमस्याशयः -न व्यसनितयाऽऽचार्येण ज्ञानं विचार्यते। किन्तहि ? अर्थक्रियाथिजनानुरोधेन। ते तथाभूतमेव ज्ञानं मृगयन्ते नान्यदिति तदेव विचार्यत इति / तदेवेति च मुख्यवृत्त्यभिप्रायेणोक्तम् न तु मिथ्याज्ञानं शास्त्रेऽस्मिन् न विचार्यते एव / प्रसङ्गात्तु तस्यापि कल्पनाप्रभृतौ विचारसम्भवादिति / ननु शक्यप्रापणार्थोपदर्शकमेव सम्यग्ज्ञानं कुतो व्यवस्थाप्यते नान्यदिति प्रश्ने किमिदमप्रकृतमुच्यत इत्याह-तत इति / यतोऽर्थक्रियार्थिनां प्रेक्षावतां नान्यन्मृगयणीयम् / तदन्वेषणीयमेव विचारणीयम् , व्यसनितया विचारासम्भवात् / ततोऽर्थक्रियासमर्थस्य वस्तुनः प्रदर्शक सम्यग्ज्ञानं नान्यदिति अर्थात् / अस्तु सम्यग्ज्ञानमीदृशमेव। तत्पुनरन्यदुपदर्य अन्यत् प्रापयदपि किं न सम्यग्ज्ञानं सत् प्रमाणं व्यवह्रियते? तथा च पीतसंख्या(शङखा)दिज्ञानमपि प्रामाण्यान्नापैति। आह—यच्च इति / चोऽवधारणे। अनेन पीतसं (शङ) खादिज्ञानमप्यंशे संवादात प्रमाणमिति यत्कश्चिदिष्टिं तदपि सम्यग्ज्ञानव्यवच्छेद्यमिति दर्शयति / ननु चानुक्तसममिदं पीतशङ्खादिज्ञानेनानुपदर्शितस्यापि शुक्लशङखस्य, जलज्ञानेनानुपदर्शितस्यापि मरीचिकानिचयस्य प्रापणदर्शनात्। नैतदस्ति / यतो न तज्ज्ञानपूर्विका सा प्राप्तिः, तस्याऽज्ञातवस्तुविषयत्वात् / न च तेन शुक्लशङ्खवस्तु मरीचिवस्तु वा ज्ञातम् / यथा तु ज्ञानान्तरादेव तथाविधार्थप्राप्तिर्न ततस्तथा अनेनैव प्रामाण्यपरीक्षायां निलोठितमिति नेहोच्यते / ज्ञानेनटि० 2 तदेव तेन प्रा० C. D. / ननु च यदि उपदर्शितार्थप्रापणात् प्रमाणं सम्यग्ज्ञानं शुक्लशले पीतज्ञानं कुञ्चिकाविवरमणिप्रमायां मणिज्ञानम् , अर्धरात्रे मध्याह्नकालग्राहिस्वप्नज्ञानं च प्रमाणमाप्नोति / एभिरुपदर्शितार्थस्यार्थमात्रस्य प्राप्तेस्ततश्च सम्यग्ज्ञानमित्याशङक्याह-टि० 4 अर्थाधिगमात्मकत्वं हि प्रापकत्वमि० C.D.अर्थक्रियासमर्थवस्त्वधिगमात्मकत्वम्-B. 5 प्रापणमि. N.