________________ 1.1.] . प्रमाणलक्षणम् / 23 एवार्थों दर्शयितव्यः। स च प्राप्तुमशक्यः / तस्मादशक्यप्रापणम्-अत्यन्तविपरीतम्, भावाभावानियतं चार्थ दर्शयद् अप्रमाणमन्यज्ज्ञानम् / अर्थक्रियार्थिभिश्चार्थक्रियासमर्थ. वस्तुप्राप्तिनिमित्तं ज्ञानं मग्यते / यच्च तैर्मग्यते तदेव शास्त्रे विचार्यते / ततोऽर्थक्रियासमर्थवस्तुप्रदर्शकं सम्यग्ज्ञानम् / र्गतत्वादनुमानस्यापि तथात्वं स्यादित्याह-अलिङ्गेन-इति / नास्य लिङ्गमत्पादकत्वेन विद्यत इत्यलिङ्गम् / यद्यलिङ्गेन सर्वेण तत्करणीयं तदा प्रत्यक्षपृष्ठभाविनोऽपि विकल्पस्य तदाऽऽयातमित्याह-नियामकम् इति / विषयाधीनो हि नियतार्थपरिग्रहो ज्ञानस्येत्यर्थो नियामकः / तमदृष्ट्वा / . ननु किं प्रत्यक्षपृष्ठभाव्यपि नियामकमर्थं दृष्ट्वा प्रवर्त्तते, येन ताद्रूप्यविरहादन्येषां विकल्पानां तथात्वमाशङक्यते / उच्यते / प्रवृत्तनेत्यत्रान्तर्भूतो णिजों द्रष्टव्यः। ततोऽयमर्थः, नियामकमदृष्ट्वा प्रवत्तितेमेति / तथा च सति प्रत्यक्षपृष्ठभावी विकल्पो नियामकं दृष्ट्वैव प्रत्यक्षेण प्रत्ययेन प्रवर्त्यत इति तथात्वेन परिहृतो भवति। इतरे त्वलिङ्गविकल्पा येन प्रवर्त्यन्ते जायन्ते न तेन साक्षान्नियामको दृष्ट इति तेषां तथात्वानुषङ्गः। . अन्ये तु अनुमाननिवृत्त्यर्थमलिङ्गेति योजयित्वा कथं पुनरवसायात्मकेनाप्यलिङ्गेन . तेनैवं करणीयमित्याशय नियामकमदृष्ट्वेत्यस्य तु हेतुभावेन विशेषणत्वान्नियामकमदृष्ट्वा प्रवृत्तत्वादित्यर्थः, इति व्याख्याय तात्पर्यार्थमपि दर्शयन्ति / यद्यपि शब्दादिजन्मानो विकल्पा नोभयपक्षसंस्पर्शन दोलायन्ते, तथापि ते नियामकानाश्रयेण प्रवर्त्तमाना न यौक्ति(क्त)संशयरूपतामतिवर्त्तन्त इति / पूर्वव्याख्यानेऽप्ययमेवाशयः / सर्वस्य तस्य समुदाचरतोविरुद्धयोराकारयोरभावेऽपि युक्त्या द्वितीयाकारानुप्रवेशात्संशयरूपत्वेन भावाभावानियतार्थोपदर्शकत्वमिति / एके तु नियामकं विकल्पयितव्यं वस्तुनान्तरीयकं वस्त्वदृष्ट्वा प्रवृत्तेनेति योजयन्ति / * अलिङ्गनेति चास्यैवार्थस्य हेतुभावेन विशेषणमाहुः। उभयेऽपि तु प्रत्यक्षपृष्ठभाविविकल्पेनातिप्रसङ्गमनधिगतार्थाधिगन्तुर्विकल्प्य(ल्प)स्य प्रामाण्यचिन्ताऽधिकारेण निराकुर्वते। तेनायमर्थःसर्वेण तेनानधिगतत्वा(गतार्था)धिगन्तृतयाऽभिप्रेतेनैवमवश्यकरणीयमिति / अनियतार्थप्रदर्शकमपि तत्प्रापकं स्यादित्याह–स च इति / चो यस्मादर्थे / अशक्य इत्यस्यानन्तरं स अवधारणार्थो द्रष्टव्यः। सोऽनियतोऽर्थो न प्राप्तुं शक्योऽशक्यत्वादिति भावः / ननु च तादृशं सर्वं मा भूत्प्रापकम्, प्रमाणं तु कस्मान्न भवतीत्याशङक्य पूर्वोक्तमेवोपसंहरति तस्माद् इति / यस्मात्प्रापकत्वादेव प्रमाणं तस्मात् / अर्थस्याशक्यप्रापणत्वेऽत्यन्तविपरीतत्वानित्य (त्वानियत)त्वे हेतू हेतुभावेनानयोविशेषणत्वात् / चोप्राप्तिकार्थसमुच्चये। कश्चिदत्यन्तविपर्यस्तः, कश्चिदनियत इत्यादेर्यथाक्रममुपसंहार:-अन्यज्ज्ञानमिति नान्यज्ज्ञानमित्यस्य / 1 अनियतोर्थ:-टि० 2 ०'समर्थार्थप्रा'. A. H. P.N, समर्थप्रा० B.E. 3 तदेव तेन शास्त्रे B H 4 इति तद् भवति सम्यग्ज्ञानमिति शेषः-टि०