________________ प्रथमः प्रत्यक्षपरिच्छेदः / [1.1 ... आभ्यां प्रमाणाभ्यामन्येन' च ज्ञानेन उदर्शितोऽर्थः कश्चिदत्यन्तविपर्यस्तः। यथा, मरीचिकासु जलम् / स चासत्त्वात् प्राप्तुमशक्यः। कश्चिदनियतो भावाभवयोः / यथा संशयार्थः। न च भावाभावाभ्यां युक्तोऽर्थो जगत्यस्ति। ततः प्राप्तुमशक्यस्तादृशः। सर्वेण चालिङ्गन' विकल्पेन नियामकमदृष्ट्वा प्रवृत्तेन १°भावाभावयोरनियत भवतामेते नियतार्थोपदर्शके, प्रमाणे तु कथमित्याह-तेन-इति / तेन नियतार्थप्रदर्शकत्वेन / नियतार्थप्रदर्शकत्वाभावात् किं नाप्रामाण्यमनयोः शङ्कितम् ? सत्यपि तस्मिन् कथं तत् स्यादिति भावः। अनयोः प्रवृत्तिविषयप्रदर्शनप्रकारोपदर्शने तदन्यस्य ज्ञानस्य च तदप्रदर्शने यद् बुद्धिस्थमासीत् , तदिदानीं नान्यदित्यादिनाऽभिव्यनक्ति / नान्यद् विज्ञानं प्रमाणमिति वचनविपरिणामेन सम्बन्धः / / यद्येवं ज्ञानत्वाविशेषादम् अपि प्रमाणे मा भूतामित्याह-प्राप्तुम् इति / आदर्शयदिति हेतौ शतुर्विधानाद्धेतुपदमेतत् / तेनायमर्थ :-यतः प्राप्तुं शक्यमर्थमादर्शयति तेन प्रत्यक्षादिकं . प्रापकमिति / भवतु प्रापकम्, प्रमाणं तु कस्मादित्याह–प्रापकत्वाच्च-इति / चोऽबंधारणे। नन आभ्यामन्येनापि दर्शितोऽर्थः शक्यप्रापण एव ततस्तदुपदर्शकमपि किं न प्रापर्क प्रापकत्वाच्च किं न प्रमाणमित्याह-प्रमाणाभ्याम् इति / चो यस्मात् / अत्यन्तग्रहणेन संशयज्ञानविषयाद् विशेषं दर्शयति / तथाविधोऽपि किं न प्राप्येत इत्याह-सच इति / चो यस्मादर्थे / नियतोपदर्शकत्वेऽप्यनर्थोपदर्शकत्वादप्रामाण्यमस्य दर्शितम् / यदि कश्चिदीदृशस्तदन्यज्ञानविषयोऽन्यादृशो भविष्यति। तदुपदर्शकं च प्रमाणं भविष्यतीत्यत आहकश्चिद् इति / संशयार्थः संशयालम्बनः स्थाणुर्वा पुरुषो वेति हि प्रत्ययः स्थाणुमुल्लिख्य प्ररुषो वेत्यालम्बयंस्तदभावमुल्लिखति। ततः स्थाण्वभावाव्यभिचारिणं ,पुरुषं पुरुष (षा)भावाव्यभिचारिणं च स्थाणुमवस्यन्न भावे नाप्यभाव(वे) नियतं स्थाणुं पुरुषं वा दर्शयतीति भावाभावयोरनियतं दर्शयति / यत एवायमेकान्तनियतं दर्शयितुमनीशानो दोलायते, तत एव संशय इत्युपपद्यत इति / अथ विपर्ययार्थोऽसत्त्वान्न प्राप्यताम्, अयं तु कस्मान्न प्राप्यत इत्याह-न च इति / चो यस्मादर्थे। ननु भवतु संशयविपर्यययोरप्रामाण्यं [10b] किं नश्छिन्नम् ? एतदतिरिक्तं प्रत्यक्षानुमानाभ्यामन्यत्प्रमाणं भविष्यतीत्याशङक्याह-सर्वेण च-इत्यादि। चो यस्मात् / सर्वान्त १शब्दादिना-टि० 2 ०न्येन ज्ञानेन E.N. 3 प्रदर्शितो A. C. P. N. अर्थ :-टि० ५०योः तद्व(च्च) यथा C. 6 अनियतोऽर्थः-टि० 7 मानसविकल्प०-टि० 8 चालिङ्गजेन C. D. A. B. P. H. E. N. 9 लिङ्गम्-टि० 10 सत्त्वासत्त्वयोः-टि