________________ प्रमाणलक्षणम् / तथा च प्रत्यक्ष प्रतिभासमानं नियतमर्थं दर्शयति / अनुमानं च लिङ्गसम्बद्धं नियतमर्थ दर्शयति। अत एते 'नियतस्यार्थस्य प्रदर्शके। तेन ते प्रमाणे / नान्यद्विज्ञानम् / 2 . प्राप्तुं शक्यमर्थमावर्शयत् प्रापकम् / प्रापकत्वाच्च प्रमाणम् / कथं भेदव्यवस्थेति ? आह–अनुमानं तु–इति / तुः प्रत्यक्षादनुमानस्य वैधर्म्यमाह। प्रत्यक्षं न स्वयं निश्चिन्वत् प्रवृत्तिविषयं दर्शयति किन्तु निश्चाययत् / अनुमानं तु स्वयमेव निश्चिन्वदिति / कथमप्रतिभासमानं निश्चेतुमीष्टे तदित्याह-लिङ्गदर्शनाद् इति / लिङ्गस्य साध्याविनाभूतस्य धूमादेर्दर्शनात् / दर्शनं च स्वरूपग्रहणपूर्वकं 'सर्वत्रेदं साध्याविनाभूतमिति' ज्ञानम्, 'सर्वत्र साध्याविनाभूतमिति' स्मरणपुरःसरं वा क्वचित् स्वरूपग्रहणमिह विवक्षितम् / ननु च प्रत्यक्षानुमानज्ञानवदन्यस्यापि ज्ञानस्य यथा प्रवृत्तिविषयप्रदर्शनं तथा किं न प्रदर्श्यते ? अथाप्रामाण्यान्नोपदर्यते। कथं पुनरप्रामाण्यमन्यस्य ? अनियतप्रवृत्तिविषयप्रदर्शकत्वादिति चेत् / तहि प्रत्यक्षानुमानयोरपि तथात्वेन प्रामाण्यं न स्यादित्यागूर्य ज्ञानान्तराद भेदमनयोर्दर्शयन्नाह तथा च-इति। तस्मिश्च प्रत्यक्षस्य स्वव्यापारानुसारिविकल्पोपजननेन निश्चयनात्, प्रवृत्तिविषयप्रदर्शनप्रकारे४........ मन्यदा लिङ्गदर्शनात्स्वयं निश्चयेन प्रवृत्तिविषयप्रदर्शनप्रकारे। प्रत्यक्षं ज्ञानं प्रतिभासमानं स्वरूपेण प्रकाशमानं नियतमर्थक्रियाक्षमे भावरूपएव व्यवस्थितं दर्शयति / तेन नानर्थं नाप्यनियतं दर्शयतीत्याकूतम् / अनुमानं च नियतमर्थ दर्शयति / चः प्रत्यक्षेण सममनुमानं नियतप्रदर्शकत्वेन समुच्चिनोति / लिङ्गसम्बद्धम् इति हेतुभावेन विशेषणम् / तदयमर्थः-यस्माल्लिङ्गं विजातीयव्यावृत्तेऽर्थेऽर्थक्रियाकारिणि तादात्म्येन तदुत्पत्त्या वा सम्बद्धमायत्तं तस्मात् तत्प्रभवमप्यनुमानं नियतं दर्शयति अध्यवस्यतीति। तेनानुमानमपि नानर्थं नाप्यनियतं भावात्मन्यभावात्मनि वा दर्शयतीति प्रकाशितम् / इयांस्तु विशेषोऽनुमानं सम्बन्धग्रहणकालदृष्टसाधारणं रूपमाश्रित्योदयमानं स्वलक्षणमध्यवस्यदपि न सन्तानान्तरासाधारणमध्यवस्यतीति प्रवृत्तिविषयापेक्षमपि सामान्यविषयमेव / प्रत्यक्षं तु प्रवृत्तिविषयापेक्षमप्यसाधारणविषयमेव / सन्तानान्तरासाधा[10a] रणेनैव रूपेण विषयस्य निश्चायनादिति / इदानीं यस्यायमाशयः-'अस्तु प्रत्यक्षं नियतार्थदर्शकम्, अर्थस्य साक्षात्करणात्; अनुमान तु परोक्षार्थस्यासाक्षात्करणात्कथं नियतं दर्शयति ? तस्मान्न द्वयोनियतार्थप्रदर्शकत्वम्, अपि तु एकस्यैव' इति / तं सामस्त्यनिषेधवादिनं प्रत्युपसंहरन्नाह–अत इति / यस्माद् वस्तुप्रकाशात् प्रत्यक्ष नियतं दर्शयति / परोक्षस्यान्तरा साक्षादनवभासेऽपि तत्सम्बद्धतया चानुमानं कार्यस्वभावजमेकान्तनियतं भावम् , अनुपलम्भजमेकान्तनियतमभावं तथाभूतं दर्शयति / अतोऽस्माद् हेतोरेते द्वे अपि तथारूपे / ततोऽनेन सामस्त्यनिषेधस्य निषेध उपसंहृतः / अन्यथा व्याख्यायमाने तु यतोऽस्तु(यतस्तु) नियतमर्थं प्रदर्शयतोऽत एते नियतार्थोपदर्शके इत्यर्थः स्यात् / एतच्च परिस्फुटस्यैव स्फुटीकरणमनर्थकमापद्यतेति / 'नियतार्थस्य B. 3 ०र्थमुपदर्श C. D. B. 2 शब्दोपमानादिकम्-टि० 4 सूक्ष्मत्वात् न पठ्यते /