________________ प्रथमः प्रत्यक्षपरिच्छेदः। [ 1.1. 'तत्र योऽर्थो दृष्टत्वेन ज्ञातः स प्रत्यक्षेण प्रवृत्तिविषयीकृतः। यस्माद् यस्मिन्नर्थे, प्रत्यक्षस्य साक्षात्कारित्वव्यापारो' विकल्पेनानुगम्यते तस्य प्रदर्शकं प्रत्यक्षम्; तस्माद् दृष्टतया ज्ञातः५ प्रत्यक्षदर्शितः / अनुमानं तु लिङ्गदर्शनानिश्चिन्वत् प्रवृत्तिविषयं दर्शयति / न किञ्चित् / आद्येनैव कर्त्तव्यस्य कृतत्वादिति भावः / अतोऽस्माद् हेतोरधिगतविषयं तदधिगन्तृसजातीयं विजातीयं वा न प्रमाणम् / तेन प्रमाणसम्प्लवो नाम नास्त्येवेति प्रकाशितम् / ननु च प्रबन्धनानेन प्रवृत्तिविषयोपदर्शकं सम्यग्ज्ञानमिति दर्शितम् / वक्ष्यमाणया नीत्या . प्रत्यक्षानुमाननामनी द्वे सम्यग्ज्ञाने। तत्र यदि समानमनयोः प्रवृत्तिविषयोपदर्शनं तदिदं . प्रत्यक्षं सत्प्रमाणम्, इदमनुमानं सदिति भेदो न स्यात् / अतस्तदनयोरसमानविषयत्वमेव कथितव्यम् / एवं च कस्य कथं तदिति वक्तव्यमित्याह-तत्र-इति। तयोः प्रत्यक्षानुमानयोर्मध्ये दृष्टत्वेन ज्ञातो निश्चितः / यदि ज्ञात इत्येव क्रियते तदाऽनुमेयोऽपि निश्चितः सन् / * प्रत्यक्षेण प्रवृत्तिविषयीकृतः प्रसज्यतेति दृष्टत्वेनेति कृतम् / अथ यो दृष्ट इति कि नोच्यते ? - नोच्यते। क्षणिकत्वादेरपि दृष्टत्वेन प्रत्यक्षविषयत्वादनुमानावताराभावप्रसङ्गादिति / .. ननु न प्रत्यक्षस्य निश्चयनाद् ग्रहणमपि तु प्रतिभासात् / तत्किमुच्यते ज्ञातो निश्चित इत्याशङ्कयाह-यस्माद् इति / विकल्पेनानुगम्यतेऽनुस्रियतेऽध्यवसीयते पश्यामीत्याकारेण / तस्माद् दृष्टत्वेन ज्ञात इत्युच्यते। विकल्पेनेति तत्पृष्ठभाविनाऽनुरूपेणेति द्रष्टव्यम् / अननुरूपविकल्पानुगतव्यापारस्य तत्राप्रामाण्यात् क्षणिकत्व इव / एवं ब्रुवतश्चायमभिप्राय:सांव्यवहारिकस्य प्रमाणस्येदं लक्ष[9b]णमुच्यते / ततो वस्तुवृत्त्या प्रकाशमानमप्यनुरूपविकल्पनाविषयीकृतं सदप्रतिभासमानं नातिशेते, व्यवहारायोग्यत्वात् / एवं तद्ग्राहकमपि तथाविधविकल्पेनाननुगम्यमानव्यापार व्यवहारयितुमपर्याप्तं सत् तृणस्यापि कुब्जीकरणेऽसमर्थमग्राहकं नातिवर्तते। तेन यदुक्तं प्रदर्शकत्वमेव प्रवर्तकत्वादीति, यच्चोक्तम्-अधिगतिरेव फलमिति तदनुरूपनिश्चयानुगतव्यापारमनुरूपनिश्चयानुगताविति द्रष्टव्यम् / एवं यत्र यत्रोच्यते प्रत्यक्षं वस्तूपदर्शकं वस्तुग्राहकमित्यादिना शब्देन तत्र सर्वत्रानुरूपनिश्चयानुगतव्यापारमेव बोद्धव्यम् / अथैवं सति विकल्पस्यापि प्रामाण्यं प्रसज्यतेति चेत् / एतत्स्वयमेव धर्मोत्तरेणाशक्य निराकरिष्यत इति नेहोच्यते / यदि प्रत्यक्षमेवं प्रवृत्तिविषयमुपदर्शयति अनुमानमप्येवं तदा 1 एवं सामान्येनाविसंवादकं सम्यग्ज्ञानं प्रतिपाद्य विशेषेण प्रत्यक्षानुमाने स्वव्यापारं कुर्वतां सम्यग्ज्ञानं भवत इति दर्शयन्नाह-टि. 2 विषयः कृतः B. C. D. 3 तत्पृष्ठभाविना विकल्पेनावसीयते। एतदुक्तं भवति–प्रतिभासमानार्थाध्यवसायं कुर्वत् प्रत्यक्षप्रमाणं संवादकमित्यर्थ:-टि० 4 अनुभूयते-टि० 5 निश्चित:-टि० 6 लिङ्गदर्शनं लिङ्गजातम् / तच्च वह्नयव्यभिचारि धूमनिश्चयं ज[नयति] सामान्येन साध्याविनाभावित्वस्मरणजातम्-यथा धूमं प्रत्येक्षण गृहीत्वा सर्वत्रायं वह्निज इति स्मरणं तस्मात्-टि० 7 विकल्पयत्-टि०