________________ 1. 1. ] प्रमाणलक्षणम् / 'अत एव चार्थाधिगतिरेव प्रमाणफलम्। अधिगते चार्थे प्रवर्तितः पुरुषः प्रापितश्चार्थः। तथा च सत्याधिगमात् समाप्तः प्रमाणव्यापारः। अत एव 'चानधिगतविषयं प्रमाणम् / येनैव हि ज्ञानेन प्रथममधिगतोऽर्थः, तेनैव प्रवर्तितः पुरुषः, प्रापितश्चार्थः। तत्रैव चार्थे 5 किमन्येन ज्ञानेनाधिकं कार्यम् ? ६अतोऽधिगतविषयमप्रमाणम् / स्यान्मतम् यद्यधिगतिरेवोत्तरेषामपि फलं स्यात् तदोपयोगान्तराभावाद् भवेदप्रामाण्यं यावता प्रवर्तकस्य प्रवृत्तिः फलम् , प्रापकस्य प्राप्तिरिति फलभेदनिष्यत्तेभिन्नो व्यापार इत्याहअत एव-इति / यतो नार्थजननद्वारेणार्थप्रापणं ज्ञानस्य, यतश्च न प्रसह्य प्रेरणेन प्रवर्त्तनम, अत एवास्मादेव कारणादर्थस्याधिगतिः परिच्छित्तिः फलम्, न प्रवृत्त्यादि / ननु तत् प्रमाणस्य फलं व्यवस्थाप्यते, यस्मिन् सति तद्व्यापारः परिसमाप्यते / न चाधिगतावपि प्रवृत्ति-प्राप्त्योरभावे स परिसमाप्यत इत्याह-अधिगते च-इति / चो यस्मादर्थे / यस्माद् येनार्थः सम्यग्ज्ञानेन दर्शितस्तत्र तेनाप्रवत्तितोऽपि पुरुषः प्रवृत्तियोग्योपदर्शनात् तद्गतस्य च व्यापारान्तरस्याभावात्प्रवत्तित इत्युच्यते / सत्यथित्वे प्रवर्त्तनमेव / ज्ञानेन तावत्प्रवृत्तियोग्यः कृत इति यावत् / अस्तु पुरुषस्तथा प्रवर्तितोऽर्थस्तु न प्रापितः, तथा च व्यापारान्तरमन्याधीनमस्तीत्याहप्रापित इति / चः पूर्ववत् / अर्थोऽप्यसावप्राप्तोऽपि शक्यप्राप्तिको दर्शित इति प्रापित उच्यते / अत एव प्रापणशक्तिरेव ज्ञानस्य प्रामाण्यम् / सा च प्राप्यादर्थादात्मलाभनिमित्तेति, यतो [9a] येन प्रवर्तते तदपि प्रापणयोग्यमेव / शक्तिनिश्चयस्त्वर्थक्रियानिर्भासस्य सर्वस्यानुमानस्य च स्वत एव / प्रवर्तकाध्यक्षस्य च कस्यचित्स्वत एव यदभ्यासेन परितो निरस्तविभ्रमाशङ्कम्, यन्निद्राद्यनुपप्लुतं सद् आसन्नदेशमनाशङ्कयव्यञ्जकाधीनाऽन्यथाभिव्यक्ति च वस्तु गृह्णाति / तद्रूपसंवेदनादेव सत्यार्थं निश्चीयते। कस्यचित्तु परतोऽर्थक्रियानिर्भासात्मकात् स्वतः प्रमाणादन्यतो वा यतः कुतश्चिन्नान्तरीयकार्थदर्शनान्मध्यकालवतिभ्रान्तिशङ्कापनोदेन निश्चीयत इति / प्रापितश्चार्थमिति क्वचित्पाठः / स तु युक्तरूपः प्रवृत्तियोग्यीकरणात्प्रवर्तितः प्राप्यार्थोपदर्शनात्प्रापितोऽर्थमित्येकवाक्यतयोपदर्शनात् / एवमुत्तरत्राऽप्येष एव पाठोऽवदात इति / तथा च सति तस्मिश्च प्रकारे सति / समाप्तः पर्यवसानं गतः / तस्मादधिगमस्य फलत्वं युक्तमिति भावः। यतोऽधिगमादन्यत्फलं नोपपद्यते, जाते च तस्मिन् समाप्यते व्यापारः, अतोऽस्मात्कारणाद् अनधिगतो ज्ञानान्तरेणापरिच्छिन्नो विषयोऽर्थो यस्य तत् प्रमाणं भवति / नन अधिगतविषयमुदीचीनं ज्ञानं तत्रार्थे किञ्चिदधिकमादधानं प्रमाणं भविष्यति / न हि विषयभेदादेव प्रमाणभेदोऽपि तूपयोगभेदादपीत्पाह-येनैव-इति। हिर्यस्मात् / पूर्वाद् योग्य- तया प्रवत्तितः प्रापित इति चोक्तं तत्रैव पूर्वज्ञानादधिगते किमधिकमतिरिक्तं कार्य कर्त्तव्यम् ? - 1 यत एव प्रवर्तकत्वमेव प्रापकत्वं प्रवर्तकत्वमपि प्रवृत्तिविषयप्रदर्शकत्वम्-टि० 2 अत एवार्था० B. 3 यत एव समाप्ता प्रमाणव्यापृतिः-टि. 4 अत एवानधि A. P. H. E. N. 5 तत्रैवार्थे A. P. E. H. N. ततो A. B.C. D. P. H. E. N.