________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1. 1. ज्ञानं जनयदर्थ प्रापयति, अपि त्वर्थे पुरुष प्रवर्तयत् प्रापयत्यर्थम् / प्रवर्तकत्वमपि प्रवृत्तिविषय-. प्रदर्शकत्वमेव / न हि पुरुषं हठात् प्रवर्तयितुं शक्नोति 'विज्ञानम् / ननूपदर्शितार्थप्रापकं संवादकमिति ब्रुवता ज्ञानस्यैकस्योपदर्शकत्व-प्रापकत्वे प्रतिज्ञाते / प्रवृत्तिमन्तरेण प्राप्तेरनपपत्तेरर्थतः प्रवर्तकत्वमपि / न चैकस्यैते व्यापाराः सम्भवन्ति / यतोऽन्यत् प्रदर्शति येन जानीते। अन्यत्प्रवर्त्तयति यदनन्तरं प्रवृत्तिमाचरति / अन्यच्च प्रापयति यतः प्राप्त्याभिसम्बद्धयतें पुरुष इत्याशङक्याह-प्रदर्शिते च–इति / चो यस्मादर्थे / प्रवर्तकत्वमेव प्रापकत्वं ब्रवतोऽयमभिप्राय:-यद्यप्यर्थं साक्षात्कृत्यानुरूपं निश्चयं जनयत्प्रदर्शकं किञ्चित्, अपरं प्रदर्शयद् वा बाह्यायाः प्रवृत्ते. कारणं भवत्प्रवर्तकम्, इतरत्प्रवर्त्तनद्वारेण बाह्यायाः प्राप्तेनिमित्तं भवत् प्रापकं व्यपदिश्यते / तथापि स एव बाह्यप्रवृत्तिकारणभाव: प्रवर्त्तयितृत्वादिप्रयोजकव्यापाररूपो ज्ञानस्य पुरुषप्रेरणेनार्थजननेन च प्रवर्तनप्रापणयोरसम्भवेन प्रदर्शनादन्यो नोपयुज्यत इति वस्तुतः सर्वस्यैव ज्ञानस्य निश्चयानुगतस्याधिगमान्नापरौ प्रवर्तन-प्रापणव्यापारौ। अत एव तत्राद्यमेव ज्ञानं प्रमाणं व्यवस्थाप्यते। ततो वस्तुतः प्रदर्शकत्वादीनामभेदः, व्यावृत्तिनिबन्धनस्तु भेदोऽस्त्येव / अत एवैते प्रदर्शक-प्रवर्तक-प्रापकशब्दाः कृतकत्वानित्यत्वादिवन्न पर्याया इति / स्यान्मतम्-किं पुनः प्रयोजनं येन प्रर्वत्तनात् नाऽपरः प्रापणव्यापारो ज्ञानस्य, अधिगमाच्च नान्यत्प्रवर्त्तनं प्रयत्नेन साध्यते ? यद्युत्तरज्ञानस्य प्रामाण्यनिषेधार्थम, तदा गहीतग्राहितैव तनिषेत्स्य[8b]तीति किं तदर्थेन प्रयासेनेति / अत्रोच्यते / यदि प्रवर्तयितृत्वं प्रापयितृत्वं च प्रदर्शकत्वात्परमार्थतोऽन्यत् स्यात् तदा गृहीतग्राहितव न शक्यते प्रतिपादयितुमिति केन / प्रामाण्यं निषेध्येत / तथा हि न तज्ज्ञानं गृहीतं गृह्णाति, अपि तु गृहीते प्रवर्तयति / अपरं तु गृहीतं प्रापयति / तथाकारिणोश्च भिन्नोपयोगत्वात्प्रामाण्यं कथमपाक्रियते ? यदा तु प्रवर्त्तनान्नापरः प्रापणव्यापारो ज्ञानस्य प्रदर्शनाच्च नान्यत्प्रवर्त्तनम्, प्रथमेनैव च प्रत्यक्षा- - नुमानक्षणेनार्थक्रियासमर्थो वस्तुसन्तान: प्रवृत्तिविषयीकर्तुं निश्चयात् शक्यते, तदोत्तरेषां तत्सन्तानभाविनामभिन्नयोगक्षेमतया प्रामाण्यमपास्यत इति / एतेन तदपि प्रत्युक्तं यत् केनचिदभ्यधायि धर्मोत्तरे–“यधुपदर्शकत्वमेव प्रापकत्वं तर्हि यदुक्तं उपदर्शितमर्थं प्राययत् संवादकमिति तस्यायमर्थः स्यात्-उपदर्शितमुपदर्शयदिति / न चैतद् युक्तमर्थभेदाभावात्।” तथा हि यदि परमार्थतोऽर्थाभेद उच्यते तदा न किञ्चिदवद्यम् / अथ तदापि नैवं वक्तव्यः / अत्यल्पमिदमुच्यते / कृतकत्वमनित्यत्वं प्रतिपादयतीत्यपि न वक्तव्यम् , अर्थाभेदादित्यपि किं नोच्यते ? अथ शब्दप्रवृत्त्यपेक्षयाऽर्थाभेद उच्यते तदाऽसावसिद्धो व्यावृत्तिभेदस्य दर्शितत्वात / तेनायमर्थ:-उपदर्शितं साक्षात्कृत्य जनितानुरूपनिश्चयमर्थं प्रवर्तनद्वारेण बाह्यायाः प्राप्तेः साक्षाद् योग्यतया वा निमित्ततां गच्छत् संवादकमिति / वास्तवस्तु प्रवर्तक-प्रापकयोः प्रमेयाधिगतिलक्षणात्प्रदर्शनव्यापारादन्यो व्यापरो नास्तीति न प्रवर्तयितत्वं प्रापयितत्वं च प्रयोजकव्यापारोऽनयोभिन्न इति / १ज्ञानम्-B. N