________________ 1. 1..] प्रमाणलक्षणम्। अविसंवादकं ज्ञानं सम्यग्ज्ञानम् / लोके च पूर्वमुपदर्शितमर्थ प्रापयन् संवादक उच्यते। तद्वज्ज्ञानमपि स्वयं प्रदर्शितमर्थ प्रापयत् संवादकमुच्यते। प्रदर्शिते चार्थे प्रवर्तकत्वमेव प्रापकत्वम्, नान्यत् / तथा हि-न एवमनेन प्रबन्धन सम्यग्ज्ञानेत्यादिवाक्यस्य समुदायार्थं व्याख्यायावयवार्थमिदानीम अविसंवादकम् इत्यादिना व्याचष्टे / अत्रायं पूर्वपक्षः। किमिदं सम्यक्त्वं ज्ञानस्याभिप्रेतम् ? यद्योगात्सम्यग्ज्ञानमुच्यते / यद्येवं वस्तुतत्त्वग्रहणं सम्यक्त्वम्, अथापि गृहीतवस्तुप्रापणम् ? उभयथाऽपि अनुमानमवस्तुग्रहणादसम्यग्ज्ञानम् / अगृहीतप्रापणाद् वा सम्यग्ज्ञानत्वे जलज्ञानमप्युपदर्शितमरीचिकाः प्रापयतीति न किञ्चित्सम्यग्ज्ञानं न स्यादिति / सिद्धान्तवाद्यप्यमीषां पक्षाणामनभ्युपगमेन निरासं मन्यमान:-अविसंवादकत्वं सम्यक्त्वं विवक्षितमिति [8a] दर्शयति। अविसंवादकं संवादकमुच्यते। विशब्दो हि संवादकप्रतिषेधे वर्त्तते / तत्प्रतिषेधस्य विधिरूपत्वात् संवादक एवावतिष्ठत इति संवादकार्थोऽविसंवादकशब्दः / तदयमर्थ:--अविसंवादकं प्रवृत्तिविषयवस्तुप्रापकं सम्यग्ज्ञानमिति / स्यादेतत्-वृद्धव्यवहारो हि शब्दार्थनिश्चयभूमिः / तत्र च संवादकशब्दो नोपदर्शितार्थप्रापके वर्तते। कि तर्हि ? सत्यवादिनि / न च ज्ञानस्य ताद्रूप्यमस्ति। तत् कुतस्तत्र संवादकशब्द इत्याह-लोके च इति / चो यस्मादर्थे अपिशब्दार्थे वा / लोके व्यवहतरि जने। अयमाशयो यथा लोके सत्यवादिशब्दप्रवृत्तिनिमित्तस्योपदर्शितार्थप्रापणस्य पुरुषे सम्भवात्संवादकशब्दः प्रवर्तते, तथा ज्ञानेऽपि तत्सम्भवादिति / अथोच्यते नोपदर्शितार्थप्रापणनिमित्तकः पुरुषे संवाद[क] शब्द: किन्तु प्रतिज्ञातार्थप्रापणनिमित्तकः / तत् कथमिह निमित्तसम्भव इति ? तदवद्यम् / तत्रापि प्रतिज्ञयोपदर्शनस्योपलक्ष' णात् / तदेव तूपदर्शनं क्वचिद् वचनेन, क्वचिदध्यवसायना४.......पि क्वचिद् वस्तुप्रतिभासपूर्वकेण क्वचिदन्यथा वृत्तेनेति विशेषः / संवाद[क]शब्दःप्र (ब्दप्रवृत्तिनिमित्तं तु सर्वत्र समानमिति। प्रापयन् इति ५लक्षणहेत्वोरिति हेतौ शतुर्विधानात् प्रापणादित्यर्थः / एवमुत्तरत्राप्यवसेयम् / 1 अथाविसंवादकमिति कः शब्दार्थ इत्याह-टि० ...मपि प्रद० A. C. D. P. E. - 3 ननु प्रदर्शक-प्रवर्तक-प्रापकाणि विभिन्नान्येव प्रमाणानि / तत् कथं स्वयं प्रदर्शितमर्थं ज्ञानं प्रापयदिति सामानाधिकरण्यमित्याशङक्याह / यद्वा प्रदर्शक-प्रवर्तक-प्रापकाणि विभिन्नान्येव प्रमाणानि अभ्युपगम्यन्ते कैश्चिदिति तन्निराकतु प्रवर्तक-प्रापकयोस्तावदैक्यं प्रदर्शयन्नाह-टि० 4 पाठोऽत्र पश्चाद् वर्धितो दृश्यते किन्तु सूक्ष्मत्वात् न पठ्यते / 5 पाणिनि 3. 2. 126 /