________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.1. धेयादिषु तुक्तेष्वर्थसंभावना अनर्थसंभावनाविरुद्धा उत्पद्यते / तया प्रेक्षावन्तः प्रवर्तन्ते / / इति प्रेक्षावतां प्रवृत्त्यङ्गमर्थसंभावनां कर्तुं सम्बन्धादीन्यभिधीयन्त इति स्थितम् / शावलम्बन इत्यन्योन्यस्यामन्याकारोऽस्तीति कुतः सहानवस्थानम् / उच्यते / एकस्यामनाकार उद्रिक्तोऽनुभूयते युक्तेस्तु द्वितीयाकारानुप्रवेशः / इतरस्यां नू(तू)द्रिक्तोऽ[7b] कारोऽनुभूयते / युक्तेस्त्वनाकारानुप्रवेश इत्युभयोरप्यन्योन्यवैपरीत्येनानुभवाद् कथमविरोधः / भवत्वेवं तथापि कथमस्याभिधानेऽर्थाशङका निरस्तेति चेत् / उच्यते। पुरुषार्थसिद्धिरूपाभिधेयप्रयोजनाभिधानेनाऽदिमाऽनर्थसम्भावना निरस्ता / अभिधेयतत्प्रयोजनयो / रूपनिरूपणेन च द्वितीयतृतीये निरस्ते / अन्तिमाऽपि सामर्थ्यगतिसम्बन्धप्रतिपादनानिरस्ता। तुरीयां तु परमविवेकशालिन आचार्यस्य प्रकरणारम्भसामर्थ्यान्निरस्यते / तथाहि न / समानेऽप्युपायान्तरे सम्भवति महतो महानयं प्रेक्षापूर्वकारी प्रकरणमीदृशमारभते, किमङ्ग पुनर्लघूनीति / __ अथ स्यात्-समसमयसम्भवी देशान्तरवर्ती च कश्चिदेतदग्रतो लघूपायान्तरकाक:(न्तरग्रन्थः ?) स्यात् / तत्कथं तत्प्रणीतलघूपायान्तरनिरासः? अत्रापि तत्प्रेक्षावतैव महती निबन्धनम् / प्रेक्षापूर्वकारित्वादेव तथाभूतात्तेनास्मिन्नार्यावर्तेऽन्यत्र वा लोके नेदानीन्तनेनैतदर्थं प्रकरणं प्रणीतमिति बहुधाऽनुसतव्यम् / अनुसृत्य दृष्ट्वा तल्लघुरुपाय इति च निश्चित्येदं प्रणेतुमुचितं नान्यथेति। सर्वत्रैव प्रकरणे सत्यादिवाक्ये लघुपायान्तरनिरासे गतिरियमेव / नहि अन्यत्रा-. प्यभिधेयतत्प्रयोजनादिप्रकाशनमन्तरेण लघुपायान्तरनिरासाभिधानमस्तीति किं नानुमन्यते ? यद्यवमितरासामप्यनर्थसम्भावनानामेवमेवास्तु निरासस्तत्किमादिवाक्येन ? नैतत् / न हि सूचीप्रवेश इत्येव मूष(मुस)लप्रवेशः। तथाहि-असत्यादिवाक्ये प्रेक्षापूर्वकारिप्रयुक्तत्वमेव प्रकरणस्य न शक्यते कल्पयितुम्, प्रत्युताप्रेक्षापूर्वकारिप्रयुक्तत्वमेव शक्यकल्पनम् / दृश्यन्ते हि प्रेक्षापूर्वकारिणः प्रकरणादौ सर्वत्र प्रयोजनाद्यमिधायकमादिवाक्यं प्रणयन्ते(न्तः)। न चानेनादिवाक्यं तदर्थमकारि। तस्मान्नायं प्रकरणकारः प्रेक्षापूर्वकारीति संकल्पादुपाददीति(त)। ननु च प्रवृत्यर्थोऽयं प्रयासः। सा चेन्नास्ति किं तयोत्पन्नयापीत्याह तया-इति / यद्यर्थसम्भावना प्रकरणे पुरुषस्य प्रवर्त्तयित्री तर्हि किमभिधेयाद्यभिधीयत इत्याह-इतिइति / यस्मादर्थसम्भावनया प्रवर्त्तन्ते इतिस्तस्मादर्थसम्भावनां कर्तुम् / किम्भूतां ? प्रवृत्तरङ्गं निमित्तम् / अङ्गादिशब्दानामसति बहुव्रीहौ परलिङ्गाग्रहणात्स्वलिङ्गेन निर्देशः / इतिरेवमर्थे स्थितं निश्चितम् / 1 उक्तेषु त्वभिधेयादिष्वर्थसं०-E. अभिधेयादिष्वर्थसं० H. P. अभिधेयादिषु त्त(तू)क्तेष्वर्थसं० B. 2 नन्वभिधेयाभिधानेऽप्यनर्थसम्भावनया न प्रवृत्तिर्भविष्यतीत्याह-टि. 3 तया तु प्रेक्षा०-A. P. H. N. * इति तस्मादर्थे-टि०