________________ 1.1. ] प्रकरणस्याभिधेयप्रयोजनम् / .. एतासु' चानर्थसंभावनास्वेकस्यामप्यनर्थसंभावनायां न प्रेक्षावन्तः प्रवर्तन्तेः। अभि अथ यद्येवंविधा प्रवृत्तिः शास्त्रकृतां दृश्यते त्वयाऽप्यस्य किं न सम्भाव्यत इत्याहनापि इति / अपिरप्रयोजनापेक्षया समं प्रवृत्तिदर्शनं समुच्चिनोति। तदेवोत्पश्याम इति सम्बध्यमानमिह पश्याम इत्यस्यार्थे सम्बद्ध(न्ध)व्यम् / पश्याम इति वाऽध्याहार्यम् / अनेनैतदाह-तथापि सम्भावयामो यदि तेषामीदृशी पश्यामो न त्वेवमिति / अतो हेतोस्तेष्वभिधेयादिषु यद्वा तेषु शास्त्रकारेषु वक्तृषु सत्सु तदुक्तेष्वभिधेयादिष्विति प्रकरणात्संशयोऽर्थोन्मुख इति द्रष्टव्यम्। ननु सत्यप्यर्थसंशयेऽथित्वाभावे प्रवृत्तिर्नास्ति / तन्निमित्ता तु सा संशयमात्रादपि भवति। तन्मात्रञ्च साधक-बाधकविरहादप्यर्थे सिद्धम् / तत् किं तदुत्पादार्थेन वाक्येनेत्याह-अनुक्तेषु-इति / तुरुक्तावस्थाया अनुक्तावस्थां भेदवतीं दर्शयति / निर्गतं प्रयोजनं यस्मान्निष्क्रान्तं वा प्रयोजनात् / काकदन्ता ह्यभिधेयाः / ते च न क्वचित् पुरुषार्थ उपयुज्यन्ते / सप्रयोजनं वाभिधेयमशक्यानुष्ठानं संभाव्येत / किंवदित्याहज्वरेत्यादि / ज्वरं हरतीति ज्वरहरः। तक्षकाख्यस्य नागराजस्य चुडा शिखा। तस्या रत्नं रतिं तनोतीति विशिष्टं वस्तु / तेनालंकरणम् अलंकारः। ज्वरहरश्चासावेवंभूतश्चेति विग्रहः / स उपदिश्यते येन ग्रन्थेन तद्वत् / सतोर्वा सप्रयोजनशक्यानुष्ठानत्वयोरस्य प्रयोजनमनभिमतमेवास्तिकानां संभाव्येत / मातुर्विवाहस्य क्रमः परिपाटिरुपदिश्यते येन पारसीकशास्त्रेण तद्वत् / पारसीकशास्त्रेण हि मते पितरि माता प्रथममग्रजेन पुत्रेण परिणेतव्या। तदनु तदनुजेनेत्युपदिश्यते / अतो वा प्रकरणाल्लघुरल्पग्रन्थः प्रयोजनस्य सम्यग्ज्ञानव्युत्पत्तिलक्षणस्य। अनुपाय एव अनिमित्तमेव / ___ चत्वारोऽपि वाशब्दाः पूर्वपूर्वापेक्षया पक्षान्तरमवद्योतयन्ति / सम्भावना च सर्वा वर्णिताऽनर्थोन्मुखा प्रतिपत्तिः युक्त्या द्वितीयाकारानुप्रवेशाच्च संशयपदाभिलाप्या प्रत्येतव्या / सर्वत्रैवाकारान्तरस्य प्रतियोगिनः समुदाचारतोऽदर्शनात् / तथाविधाऽनर्थसंभावनायाश्च बीजमिदमस्त्यादिवाक्ये-यद्यस्य प्रयोजनादिकं भवेद् बहुभिरन्यरिवानेनाप्यादावुक्तं भवेत् / न चानेन किञ्चिदवादीति मतिः / कामममूरनर्थसम्भावना भवन्तु का नो हानिरित्याह-एतास्विति / न केवलं सर्वा इत्यपि. शब्देनाह / प्रयोजनाद्यनभिधान इव यद्यभिधानेऽपि भवन्ति तास्तदा किमभिधेयादिभिरभिहितर पीत्याह-अभिधेयादिषु इति / तुरुक्तेषु इत्यस्यानन्तरं द्रष्टव्यः, अनुक्तपक्षाच्च विशेषस्य द्योतकः / अथ कथमनयोरर्थानर्थसम्भावनयोविरोधो यतः सम्भावना संशय उच्यते / स चोभयां . भवतु नामैतावदूषणसंम्भावना को दोष इति चेदाह-टि० / /