SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 14 प्रथमः प्रत्यक्षपरिच्छेदः / अनर्थसंशयोऽपि निवृत्त्यङ्गम् / अत एव शास्त्रकारेणैव पूर्व सम्बन्धादीनि युज्यन्ते वक्तुम् / ___व्याख्यातृणां हि वचनं क्रीडाद्यर्थमन्यथापि संभाव्यते / शास्त्रकृतां तु प्रकरणप्रारम्भ न विपरीताभिधेयाद्यभिधाने प्रयोजनमुत्पश्यामो नापि प्रवृत्तिम् / अतस्तेषु संशयो युक्तः / अनुक्तेषु तु प्रतिपत्तृभिनिष्प्रयोजनमभिधेयं संभाव्यताऽस्य प्रकरणस्य काकदन्तपरीक्षाया इव', अशक्यानुष्ठानं वा ज्वरहरतक्षकचडारत्नालंकारोपदेशवद, अनभिमतं वा प्रयोजनं मातविवाहक्रमोपदेशवद्, अतो वा प्रकरणात् लघुतर उपायः प्रयोजनस्य, अनुपाय एव वा प्रकरणं संभाव्यत। यद्यवश्यं वक्तव्यान्यभिधेयादीनि तहि व्याख्यातार एव तानि वक्ष्यन्ति / तत्कि। शास्त्रकृतो व्याहारेणेत्याह-शास्त्रकारेणैव न व्याख्यातृभिः / अथोच्यते-प्रवृत्त्यङ्गत्वाच्च व्याचक्षते। अभिधेयाद्यनभिधाने तु प्रवृत्तेरेवासम्भवात्कथं सम्भविनो व्याख्यातारो येनाशङक्य तेषां व्याहारमयं निरस्यतीति / अत्रोच्यते। न सर्वथा- . . भिधेयादिप्रकाशनं केनचिन्न कर्त्तव्यमेवेति चोद्यं प्रवृत्तम, किन्त्वादिवाक्यं तदर्थं न कर्त्तव्यमित्यभिसन्धिना। तत्र ये तावत साक्षादाचार्योपसन्नास्तेषां तद्वचनादेव तत्प्रतीतो प्रवृत्तिज्ञानयोः सम्भवात् सम्भवि व्याख्यातृत्वम् / तेभ्योऽपि तदुपसन्नानामिति किमवद्यम् ? ननु च न शास्त्रकृद्वचनमपि प्रसह्य प्रवर्त्तयति, कि तर्हि प्रयोजनाद्यभिधानेन प्रवृत्तिविषयोपदर्शनात् / तच्च व्याख्यातृवचनेऽपि सम्भवतीति किमुच्यते शास्त्रकारेणैवेत्यत आह-व्याख्यातृणां हि इति / हिर्यस्मादर्थे / शास्त्रकारेष्वपीदं समानमित्याह-शास्त्रकृतामिति / तुना व्याख्यातृभ्यः शास्त्रकृतां वैधर्म्यमाह / विपरीतं च तदभिधेयाद्यभिधानञ्चेति विग्रहः / अथवा विपरीतं च तदसत्यत्वादभिधेयञ्चाभिधेयतया प्रकाशनात् / तस्याभिधानमिति विग्रहीतव्यम् / उत्पश्याम उत्प्रेक्षामहे / अनेनैतदाह तेषामपि तथाभिधाने किमस्माकं बाधकं प्रमाणम् ? केवलमेषां महीयसाऽऽशयेन शास्त्रं प्रणेतुमिच्छतां परार्थप्रवृत्तानां नैतत्सम्भावयाम इति / प्रकरणस्य प्रारम्भ आदी। एतच्च प्रयोजनाद्यभिधाननियतसन्निधेर्यथाभूतार्थचिन्ताविधानविषयस्य कालस्य निर्देशो न तु प्रकरणस्य [7a] मध्येऽवसाने वा तत् सम्भवति सप्रयोजनं चेति / ' संशयो निवृ० A. P. H. E. N. 2 अत्रैवशब्दो व्याख्यातणामभिधेयादिप्रकाशने कदाचित् क्रीडाद्यर्थमपि प्रवृत्तिर्भवतीति-टि० 3 आख्यातृणां हि E. N. आख्यातृणां टीकाकाराणां हि B. 4 क्रीडार्थं A. P. E. - 5 इव १-इत्यादिरूपेण अनर्थसंभावनाया अनन्तरं संख्याङ्गा निर्दिष्टा: B प्रतौ D प्रतौ च–सं० 6 उपायोऽस्ति प्रयो C
SR No.004317
Book TitleDharmottar Pradip
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherKashiprasad Jayswal Anushilan Samstha
Publication Year1956
Total Pages380
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy