________________ 13 प्रकरणस्याभिधेयप्रयोजनम् / ननु च प्रकरणश्रवणात् प्राग् उक्तान्यपि अभिषेयादीनि प्रमाणाभावात् प्रेक्षावद्धिर्न गृह्यन्ते। तत् किमेतराम्भप्रदेशे उक्तः ? सत्यम् / अश्रुते प्रकरणे कथितान्यपि न निश्चीयन्ते / उक्तेषु स्वप्रमाणकेष्वप्यभिधेयाविषु संशय उत्पद्यते। संशयाच्च प्रवर्तन्ते / अर्थसंशयोऽपि हि प्रवृत्त्यङ्ग प्रेक्षावताम् / एवंरूपस्य सम्बन्धो व्युत्पाद्यत इति प्रयोजनाभिधानादेव दर्शितम् / तदुक्तम् "शास्त्रं प्रयोजनं चैव सम्बन्धस्याश्रयाद्गतौ / ' तदुक्त्यन्तर्गतस्तस्माद्भिनो नोक्तः प्रयोजनान् // " [श्लोकवा० 1. 18] इति अभिधेयादिप्रकाशनद्वारेणादिवाक्यं प्रवर्तकमिति असहमान आह-ननु च इति / निपातसमुदायश्चायं 'चोदयामि, अभिमुखो भव' इत्यस्यार्थस्य द्योतकः / श्रवणानन्तरं तेषां प्रतीयमानतया प्रमाणाभावासिद्धेः श्रवणात्प्राग इत्याह। अयं पूर्वपक्षवादिनोऽभिप्राय:-श्रवणात् प्राक् शब्दाश्रयण प्रवर्तमानमनुमानमन्यद्वा शब्दस्यार्थनान्तरीयतायां प्रवर्तयितुमर्हति / असम्बन्धनिबन्धनायाः परोक्षार्थप्रतिपत्तेः प्रामाण्यायोगात। सा च शब्दस्यासम्भविनी। आचार्यस्य चाप्तभावो दुर्बोधो येनाप्तोपदेशतया शब्दोऽर्थतथात्वं प्रत्याययेदिति। आरभ्यत इत्यारम्भः प्रकरणम् / तस्य प्रदेशः एकदेशः / सामर्थ्यात् तदादिः / . सच्चोये सत्यम् इत्याह। यदि सत्यमिदं किमर्थं तर्हि [6b] ते कथ्यन्त इति ? उक्तेषु इति / तुरनुक्तपक्षादुक्तपक्षस्य विशेषं दर्शयति। अनेनैतदाह-साधकबाधकप्रमाणाभावे येनर्ते : व्याहारात् प्रतिनियताधिकरणो यौक्तः संशयो भवितुमर्हतीति / अपि न्यायतः सम्भावनां ' दर्शयति, अतिशयं वा / अन्यथा किं सप्रमाणकेष्वपि संशयो जायते येनापिश्रुतिः संगच्छेत् / ननु प्रवृत्तिफ़लमादिवाक्यं प्रवृत्तिश्चेन्नास्ति किं संशयेनोत्पादितेनापीत्याह-संशयाच्च ' इति / चो यस्मादर्थे / . अथ ये तावन्मन्दाः श्रद्धया वाऽऽचार्यमुपसन्नास्ते तद्वचनादर्थं निश्चित्यैव प्रवर्त्तमाना न संशयात्प्रवर्तन्ते। येऽपि तद्विपरीताः संशेरते तेषामपि न संशयात्प्रवृत्तिः। प्रवृत्ती वा प्रेक्षावत्त्वहानिरित्याशक्याह-अर्थसंशयोपीति। न केवलमर्थनिश्चय इत्यपिशब्देनाह। शक्यनिश्चये हि निश्चयमन्तरेण प्रवर्त्तमानाः प्रेक्षावत्ताया हीयेरन् / यत्र त्वर्थसंशयेनार्थितया प्रवर्तमानाः, नोपालम्भमर्हन्तीति भावः। यदि च युक्त्या द्वितीयाकारानुप्रवेशेन संशयानस्य न क्वचित्प्रवृत्तिः, तर्हि न कस्यचिद् वचनात् क्वचित् प्रवत्तितव्यमिति भूयान् व्यवहारो विलुप्येत। ननु निवृत्तिरनर्थनिश्चयनिबन्धना। अनर्थनिश्चयश्च प्रमाणात् / सच्चेह नास्ति / निवृत्तीतरस्तु प्रवृत्तिव्यतिरेकी प्रकारो नास्ति / ततोऽयत्नसिद्धा प्रवृत्तिः / तरिक तदर्थेनादिवाक्येनेत्याह-अनर्थेत्यादि / न केवलमनर्थनिश्चयोऽपीत्यपि शब्दः / ' उक्तान्यभिधे० B. 2 श्रयावुभौ-श्लोकवा.