________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.1. संबन्धप्रदर्शनपदं तु न विद्यते। सामादेव तु स प्रतिपत्तव्यः / प्रेक्षावता हि सम्यग्ज्ञानव्युत्पादनाय प्रकरणमिदमारब्धवता 'अयमेवोपायो नान्यः' इति दशित एवोपायोपेयभावः प्रकरण-प्रयोजनयोः संबन्ध इति / भवति। ततो व्युत्पादनं प्रयोजकव्यापारवशवत्तिनी व्युत्पत्तियोरपि प्रयोजनमिति इतिशब्द हेतुपदं कृत्वोपसंहरन्नाह-प्रकरणकरण-श्रवणयोः प्रयोजनं व्युत्पादनमिति / ननु च णिचि कृते व्युत्पादनं कथमुभयोः प्रयोजनम्, इत्थमिति [6a] प्रश्न-विसर्जने स्याताम् / तेनैव तावता दर्शितेन किं प्रयोजनम् ? सम्यग्ज्ञानव्युत्पत्तौ कथञ्चिन्निमित्तमात्रात् दधिभोजनादेराचार्यस्यासाधारणकारणताप्रतिपत्तिः प्रयोजनम् / अयमर्थः-असति प्रयोजकव्यापारप्रदर्शने सम्यग्ज्ञानव्युत्पत्तावुपयोगित्वमात्रेण स्वास्थ्यादिना साम्यमाचार्यस्य दर्शितं स्यात् / अस्ति चास्य तद्व्युत्पत्तावुपदेशलक्षणोऽसाधारणो व्यापारः / स कथं नाम प्रतीयतेति णिचा निर्देशः कृत इति / अथ भोजनादेस्तद्वयुत्पत्ती साक्षाद्वयापाराऽसम्भवाद् आचार्यव्यापारः प्रतिपत्स्यत इति चेत् / नैतत् / एवं हि व्याख्यातृणामिदं प्रतिपादनकौशलं स्यान्न कर्तुरिति न्याय्यो णिचा निर्देशः / ननूक्तम्-अभिधानस्य प्रयोजनं न निरूप्यत इति / तत् किमिदानीं तदेव व्याजान्तरेण निरूप्यते ? सत्यम् / केवलं वाक्यार्थत्वेन न निरूप्यत इत्यभिसन्धिना 'तन्न निरूप्यते' इत्युक्तम् / न तु पदार्थत्वेनापीति किं विरोधः ? सम्यग्ज्ञानं व्युत्पद्यमानानाम् इत्यसाधुरयं शब्द:-."व्युत्पत्त्यर्थस्य पदेरकर्मत्वाद्” इति भागवृत्तिकारः। तन्नातिश्लिष्टम् , ज्ञानार्थस्य पदे: सकर्मकस्य 'व्युत्पन्नः संकेतः' इत्यादी बहशः प्रयोगदर्शनान् / यथाऽवादि प्रमाणवात्तिके वात्तिककृता। "मनोऽव्यु(मनो व्युत्पन्नसंकेतमस्ति तेन स चेन्मतः / " [प्रमाणवा० 2. 143] इति / यद्यभिधेयादयः पदार्थाः, सम्बन्धस्तहि कस्य पदस्यार्थ इत्याह-सम्बन्धेत्यादि / / सामर्थ्याद् इति नाभिधाव्यापारेण / एवकारेण पदस्याप्यभिधामपोहति / तुशब्दः केवलमित्यस्यार्थे। कथं सामर्थ्यादित्याह-प्रेक्षावता इति / उपायः कारणम् / उपेया सम्यग्ज्ञानव्युत्पत्तिः साध्या। तयोर्भावः / यदशेनोपायोपेयज्ञानाभिधाने भवतः / एवकार उपायशब्दात् परो द्रष्टव्यः। प्रतियोगिनोपायायोगस्यैव शङ्कितत्वात् / तदन्ययोगस्य च शङ्किष्यमाणत्वात् / अनर्थाशङ्कोपस्थापितान्ययोगनिरासे तु कर्तव्ये सामर्थ्यगम्यमवधारणान्तरं कार्यम् / न त्विदमेव वाच्यम्। नान्य इति च नान्य एवेत्यवसेयम् / ' ननु यथाऽभिधेय-प्रयोजने दर्शिते एवं सम्बन्धादि दर्यतामित्याह-टि० .