________________ * 1.1] . प्रमाणलक्षणम् / 25 तत्र प्रदर्शितादन्यद्वस्तु भिन्नाकारम् , भिन्नदेशम् . भिन्नकालं च / विरुद्धधर्मसंसर्गाद्धि अन्यद वस्तु। देशकालाकारभेदश्च विरुद्धधर्मसंसर्गः। तस्माद् अन्याकारवद्वस्तुग्राहि' नाकारान्तरवति वस्तुनि प्रमाणम्। यथा पीतशङ्खमाहि शुक्ले शङ्क। देशान्तरस्थग्राहि च न देशान्तरस्थे प्रमाणम्। यथा कुञ्चिकाविवरदेशस्थायां मणिप्रभायां मणिग्राहि ज्ञानं नापवरकस्थे मणौ। कालान्तरयुक्तग्राहि च न कालान्तरवति वस्तुनि प्रमाणम् / यथार्द्धरात्रे मध्याह्नकालवस्तुग्राहि स्वप्नज्ञानं नार्धरात्रकाले वस्तुनि प्रमाणम् / तदेव तेन प्रापणीयमिति कुत एतदित्याह-अर्थाधिगमेति / हिर्यस्मात् / उक्तमिति प्रदर्शनादीनां वस्तुतोऽभेदं प्रतिपाद्य अत एवार्थाधिगतिरेव प्रमाणफलमिति अनेन प्रकाशितत्वात् / न.तु साक्षादभिहितम् / यद्यन्यदधिगम्यान्यत् प्रापयेत्, तदा प्रदर्शनप्रापणयोआंद एव स्यात् , अभेदश्च प्रतिपादित इति भावः / कथं पुनरधिगतिरेव फलमित्यनेन तथात्वमस्योक्तम् ? यतः प्रापकत्वं प्रामाण्यं फलं च तदव्यतिरिक्तमिति / अथवा प्राप्तुं शक्यमर्थमादर्शयत्प्रापकमित्यनेनैवमुक्तम् / तथाहि तादशमर्थमादर्शयदिति परिच्छिन्ददित्यर्थः / परिच्छेदश्च प्रापकत्वान्न भिद्यत इति / . भवतूपदर्शितार्थप्रापकत्वमेव सम्यग्ज्ञानम् / यत्तु तदेव प्राप्यं वस्तु शङ्खादिकं पीतरूपतया प्रदर्शयति तत्कथमसम्यग्ज्ञानमित्याह-तत्र-इति / तत्रेति वाक्योपक्षेपे चैतत् / प्रदशिताद् रूपाद् भिन्नाकारादि सद् वस्त्वन्यदित्यन्यत्वं विधेयम् / आकारादिभिन्नमपि न ततोऽन्यत्, तदेवेदमित्यध्यवसायादित्याह-विरुद्धेति / हिर्यस्मात् / यदि विरुद्धधर्माध्यासादन्यत्वम्, न तर्हि देशादिभेदादित्याह-देशेति / चो यस्मादर्थे / भवत्वेवं तथाप्याकारादिभिन्नग्राहिज्ञानमाकारान्तरादियोगिनि वस्तुनि किं न प्रमाणमित्याह-तस्माद् इति / यस्मात्सम्यज्ञानेन यदेव हि दर्शितं तदेव प्रापणीयम्, आकारादिभिन्नं च ततोऽन्यत् तस्मात् / किमिव क्व 'नं प्रमाणमित्याह-यथेति। भिन्नदेशग्राहिणः का वार्तेत्याह-देशान्तरेति / किंवन्न प्रमाणमित्याह-यथेति / अव(प)वरकशब्देन देशविशेषो लयनोदरादिशब्दवाच्य उच्यते / अपवरकशब्दस्याप्येतदर्थस्य भावात् / अपवरकदेशस्थ इति पाठेऽपि न दोषः / भिन्नकालग्राहिणः का व्यवस्था इत्याह-कालान्तरेति / उपदर्शनकालादन्येन कालेन व्यावहारिकेण युक्तं सम्बद्धं तद्ग्राहि भिन्नकालवस्तुग्राहीति यावत् / चः पूर्ववत् पूर्वेण सहेदमप्रामाण्येन समुच्चिनोति। तदुदाहरन्नाह—यथेति / अयमस्यार्थः-अर्धरात्रे निद्राणस्य मध्याह्नकालप्रतिभासमनुभवतो वणिज्यागतसुतवस्तुदर्शनहृषितरोम्ण एव झटिति बोधे काकतालीयन्यायेन च सत्यपि पुत्रोपलम्भे तज्ज्ञानं न प्रमाणम्। तत्खलु परमार्थेनार्धरात्रकालसम्बद्धं मध्याह्नकालाकलितं च प्रतीतमिति मध्याह्नकालत्वेनावभासनादेव च मध्याह्नकालं तद्वस्तूक्तम् / . .न्याकारवस्तुग्राहि-B. C.D. - 2 ०वरकदेशस्थे-A. B.C. D. P. E. H. N. . .अर्धरात्रकालवस्तुनः N अर्धरात्र: कालो यस्य मध्याह्नकालवस्तुनः टि० /