________________ 26 प्रथमः प्रत्यक्षपरिच्छेदः / [1.1. नन १च देशनियतम्, आकारनियतं च प्रापयितुं शक्यम् / यत्कालं तु परिच्छिन तत्कालं न शक्यं प्रापयितुम् / नोच्यते-यस्मिन्नेव काले परिच्छिद्यते तस्मिन्नेव काले प्रापयितव्यमिति / अन्यो हि दर्शनकालः, अन्यश्च प्राप्तिकालः। किन्तु यत्कालं परिच्छिन्नं तदेव सेन प्रापणीयम् / अभेदाध्यवसायाच्च संतानगतमेकत्वं द्रष्टव्यमिति / अर्धरात्रः काल आगमनकालो यस्य तस्मिन् न प्रमाणम् / अथवा योऽर्धरात्रे सुप्तोऽह्नो मध्यमुद्गते सवितरि पुत्रमागतं दृष्ट्वा प्रभातायां रात्रौ सम्पन्ने मध्यन्दिने तस्मिन्नेव च देशे तमेव सुत(तं) प्रागतं प्रबुद्धोऽपि पश्यति / तस्य तज्ज्ञानं संवादमात्रभागपि न प्रमाणम्, यतोऽर्धरात्रे मध्याह्नम्, तदानीमनागतमपि पुत्रवस्त्वागतम्, तेनावगतम् / न चार्धरात्रे देशकालनियतस्य पुत्रस्य, तस्य च कालस्यास्ति सद्भावः / तदा त्वर्धरात्रः परमार्थतः प्रतिभासकालो यस्य मध्याह्नकालयुक्तवस्तुन इति योज्यम् / एतेन सप्तस्य केनचित् पठ्यमानं ग्रन्थं शृण्वतो ज्ञानमसत्यार्थं व्याख्यातमवसेयम् / यस्माद्देशकालभिन्नात्मानं श्रोतारं ग्रन्थं च श्रोतव्यं पश्यति निद्रोपहतः / न च तद्देशकालसम्बद्धौ स्तः / यद्देशकालौ च स्तस्तथा न गृह्णातीति / अनयैव च दिशा वाजिस्वप्नोऽपि व्याख्यातो द्रष्टव्यः / यतस्तत्रापि घोटकस्वप्ने यत्कालदर्शनवि[12a]षया भावा दृश्यन्ते न तथा सन्ति, यत्कालाश्च सन्ति तत्काला न दृश्यन्ते। अर्धरात्रादिषु हि स्वप्नदर्शनम्, सूर्योदयादिसम्बद्धाश्च ते भावा दृश्यन्ते। तस्मात्स्वप्ने केषाञ्चिदनुभूतानामत्यन्तमभावादर्थक्रियाया - नास्ति सत्त्वम् / केचित्तु अर्थक्रियाकारितया अभिमताः सत्यस्वप्ने विषया दृष्टकालभेदव्यभिचारिणो न सन्त्येवेति प्रकरणार्थः। _ इदमीदग्विशिष्टं स्वप्नज्ञानमुदाहरतो धर्मोत्तरस्यायमाशय:-एवंविधस्य स्वप्नज्ञानस्य सदर्थत्वाभिमानः केषाञ्चित्सत्यस्वप्नवादिनामस्तीति तदभिमानशमनायेदं मयोदाहरणीकृतम् / न त्वस्मादन्यस्य स्वप्नज्ञानस्य कश्चिद् विशेषः / सर्वस्यैव स्वप्नज्ञानस्य निरालम्बनतया मिथ्याज्ञानत्वादिति / इदानीं 'परिच्छिद्यमानस्य यत्कालं परिच्छेदनं तत्कालमेव प्राप्यमाणस्य प्रापणमभिप्रतम्'–एवं ब्रुवत इति मत्वाऽस्यार्थस्यानुपपत्ति चोदयति-ननु च-इति / देशे नियतमाकारे नियतं च शक्यं प्रापयितुमित्यभिदधानोऽनयोरविप्रतिपत्तिमाह / इदं तु न सम्भाव्यत इत्याह-यत्कालं तु-इति / तुनाऽनन्तरोक्ताभ्यां विधाभ्यां वैधर्म्यमाह / यः कालोऽस्य परिच्छेनस्य तद् यथा भवति तथा परिच्छिन्नम् / स कालो यस्य प्रापणस्य तद् यथा भवति तथा न शक्यं प्रापयितुम् / यस्मिन् काले परिच्छिन्नं तस्मिन् काले न शक्यते प्रापयितुमित्यर्थः / एवं च ब्रुवताऽनेन कालान्तरमाहीति यदुक्तं तदयुक्तमिति दर्शितम् / सर्वस्यैव ज्ञानस्य एवंशीलत्वादिति / नोच्यत इत्यादिना सिद्धान्तवादी चोदकस्यानुक्तोपालम्भमाह / अनेनापि न किञ्चिननु देश A. P. E. 2 तदेव प्रा. D. A. P. E.