________________ .1.1.] - प्रमाणलक्षणम् / / 27 सम्यग्ज्ञानं पूर्व कारणं यस्याः सा तथोक्ता। 'कार्यात् पूर्व भवत् कारणं पूर्वमुक्तम् / कारणशब्दोपादाने' तु पुरुषार्थसिद्धेः उसाक्षात्कारणं ४गम्येत / पूर्वशब्वे तु पूर्वमात्रम् / त्कारणमुक्तम् / तत् किं त्वयैवं नोच्यत इति पार्श्वस्थं प्रत्यस्यैवाभिप्रायं प्रकाशयति---अन्यो हि-इति / हीति यस्मात् / यद्येवं नोच्यते तर्हि किं नामोच्यत इत्याह-किन्तु इति / निपातानिपातसमुदायोऽयं केवलमित्यस्यार्थे / ननु असंगतमिदं वाक्यम् / न हि यदेव परिच्छिन्नमित्यस्ति येनैवमुच्येत / यत्कालं तु परिच्छिन्नं तत्कालमिति तु युक्तं वक्तुम, न तदेवेति / सत्यमेतत् / केवलं बोधे यत्नः करणीयः। यत्कालमित्यनेन हि तत्कालमिति प्राप्तं तदेवेति तच्छब्देन वस्तुविषयो यच्छब्द आकृष्यते। ततोऽयमर्थः-यत्कालं परिच्छिन्नं यद् वस्तु तत्कालं तदेव वस्तु प्रापणीयमिति / अहो गडुप्रवेशेऽक्षितारानिर्गमो जातः / एवं खलु वाक्यं स्यात् समर्थितम्, पूर्वपक्षात्पुनरस्याविशेषः प्राप्तः। अस्ति विशेषो महान्, केवलं भवता न समीचीनं निरूपितः। तथाहि पूर्वपक्षावस्थायां यत्कालं तत्कालं इति चात्र बहुब्रीहिणा परिच्छेदनलक्षणा प्रापणलक्षणा च क्रियाऽभिधीयते। इदानीं पूनर्वस्तुतो नायमर्थः / यद वस्तु येन कालेन सम्बद्धं परिच्छिन्नं तदेव तेन कालेन सम्बद्ध स्वरूपेण प्रापणीयं तदाऽन्यदा वा। परिच्छेदस्य यादृशः कालस्तस्मिन् काले यद् विद्यमानं तदेव प्रापणीयमिति यावत् / ततश्च परिच्छेदका[12b]लाऽसतो यद् ग्राहकं तन्न प्रमाणमित्यवतिष्ठते / नोच्यते यस्मिन् काल इत्यादिना च यदेतदुक्तं तद् बाह्यप्रापणाभिप्रायेण द्रष्टव्यम् / परमार्थतस्तु ज्ञानस्य प्रदर्शनादन्यः प्रापणव्यापारो नास्तीति यस्मिन्नेव काले परिच्छिद्यतेऽर्थस्तस्मिन्नेव काले प्राप्यत इति / एतच्चानन्तरमेवाने व विस्तरेण प्रतिपादितमिति स्ववचनव्याघातोऽन्यथाऽस्य स्यादिति / नन्वेवमपि परिच्छेदकालवत्तिनः प्रापणं न सम्भवत्येव। सर्वस्यैव विषयस्य क्षणिकत्वात्। तथा चोपदर्शितार्थप्रापकत्वं नाम कस्यचिदपि ज्ञानस्य नास्तीत्यसम्भवितव सम्यग्ज्ञानत्वलक्षणस्य स्यादित्याशङक्याह-अभेदेति / अभेदेनकरूपत्वेन तदेवेदमित्याकारेणाध्यवसायात् / उपादानोपादेयकृतक्षणप्रबन्धः सन्तानस्तद्गतस्तदाश्रितः / ___ अयमस्य भावः-सांव्यवहारिकस्येह प्रमाणस्य लक्षणमुच्यते / तेन नैकान्तेन वस्तुस्थितिरपेक्ष्यते / तत्र यद्यपि वस्तुस्थित्या परिच्छिन्न-प्राप्ययोर्नानात्वं तथापि व्यवहारो निरन्तरापरापरोत्पत्तरविद्यावशाच्च हेतुफलरूपं क्षणप्रचयं तदेवेदमित्येकत्वेनाधिमुञ्चन्ति ततः परिच्छेदकालभाविनः प्रापणं सम्भवत्येव / इतिः सम्यग्ज्ञानपदव्याख्यानपरिसमाप्तौ। / __ तदनेन प्रबन्धेन सम्यग्ज्ञानपदं व्याख्यायाधुना पूर्वशब्दं व्याचिख्यासुस्तेन सार्धमस्य विग्रहमाह-सम्यग्ज्ञानम् इति / 1 कथं पूर्वशब्दः कारणे वर्त्तते इत्याह-टि० *शब्दापादाने A. B 3 अव्यवहितम्-टि० 4 मन्यते A. H...