________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.1. द्विविधं च सम्यग्ज्ञानं–अर्थक्रियानिर्भासम्, अर्थक्रियासमर्थे च प्रवर्तकम् / तयोर्मध्ये यत् प्रवर्तकं तदिह परीक्ष्यते / तच्च पूर्वमात्रम् / न तु साक्षात्कारणम् / सम्यग्ज्ञाने हि सति पूर्वदृष्टस्मरणम् / स्मरणादभिलाषः / अभिलाषात् प्रवृत्तिः। प्रवृत्तश्च प्राप्तिः। ततो न साक्षाद्धेतुः। ननु पुरुषार्थसिद्धिः सम्यग्ज्ञानस्य प्रयोजन कार्यत्वेन / तथा च सम्यग्ज्ञानकारणिकेति वक्तुमचितं तत्किमेवमुक्तमित्याह-कार्याद् इति / अनेन व्यवस्थावाची सन्नेव पूर्वशब्दः कारणे वर्तत इति दर्शयति / भवदिति 'लक्षणहेत्वोः क्रियायाः' [पाणिनि. 3. 2. 126] इति हेतौ शतुविधानात् हेतुपदमेतत् / यद्येवं कारणशब्द एव क्रियतामित्याह-कारणेति / अयं भाव:-करोतीति कारणमुच्यते, न त्वकुर्वद्रूपम् / अकुर्वति पुनः कारणव्यपदेशः कारणकारणत्वादौपचारिकः / न च मुख्य सम्भवति अमुख्ये प्रत्ययो युज्यते। ततो यदेव ज्ञानमव्यवधानेन पुरुषार्थसिद्धेर्निबन्धनं . तदेव कारणशब्देन प्रतीयतेति / यदि पूर्वग्रहणेऽप्येवं प्रत्ययस्तदा को विशेष इत्याह-पूर्वशब्द इति / तुः कारणशब्दाद् विशेषमस्याह / पूर्वमात्रमिति साक्षात्कारणमितरच्च / ननूभयोः सम्भवे साक्षात्कारणपरिहारेणेतरग्रहणाय पूर्वशब्दः शोभते न चैवमस्ति / सर्वस्यैव पुरुषार्थसिद्धि प्रति. साक्षात्कारणत्वादित्याह-द्विविधञ्च-इति / चो यस्मादर्थे / कथं द्वैविध्यमित्याह-अर्थक्रियेति / निर्भासतेऽस्मिन्निति निर्भासः / अर्थक्रियाया मिर्भासो यस्मात् तत् तथा। यत: साधनज्ञानादनन्तरं दाहादिप्रतिभासज्ञानमुत्पद्यते तदेवमुच्यते / . ___ केचित्तु क्षणेन कार्यकारणव्यवहारस्याग्दिर्शनेन कर्तुमशक्यत्वाद् दाहादिप्रतिभासमेव ज्ञानमेवं ब्रुवते। अर्थक्रियाया [13a] निर्भासोऽस्मिन्निति कृत्वा / अपरम् अर्थक्रियासमर्थे च प्रवर्तकम् / यत् प्रवृत्तिसमधिगम्यार्थक्रियागोचरं तदेवमुक्तम् / चोऽर्थक्रियानि सापेक्षया समुच्चये / अनयोः किं परीक्ष्यत इत्याह तयोः-इति। प्रवर्तकमपि साक्षात्कारणं तत् कोऽन्यत्र विद्वेषो येनेदमेव विचार्यते ? किं वा पूर्वशब्देनेत्याह-तच्च-इति। चो यस्मात् / अयमाशय:-यतः प्रवर्त्तन्ते तत् सर्वमर्थप्राप्तेर्व्यवहितं कारणम् / अतश्च सम्भवत्प्रतिबन्धं तत् प्रवृत्त्यङ्गत्वात्पूर्वमात्रम्, न त्वनन्तरं कारणमिति / पूर्वमात्राभिधानेन सान्तरम् / अमुमेव द्रढयन्नाह-न तु-इति / तुर्विशेषार्थः। कुत एतदित्याह-सम्यज्ञान इति / हिर्यस्मात् / तस्मिन् सम्यग्ज्ञाने प्रकरणात् साधननिर्भासे सति / स्मृतिबीजोपजननयोग्यज्ञानज्ञातस्य दाहादेः स्मरणम्। ततोऽभिलाषः-तत्प्राप्तीच्छा। ततः प्रवृत्तिः प्रवर्तकज्ञानोपदर्शितमर्थं प्राप्तुकामा व्यापारसहाया बुद्धिः / तस्याश्च प्राप्तिरुपादित्सितलाभः / यस्मात् स्मरणादिना व्यवधानं ततः तस्मात् न साक्षात् हेतुः प्राप्तेरुपायः पुरुषार्थसिद्धेरिति प्रकरणात् / जपा ' किमनन्तरकारणं ज्ञानं भवति यदपेक्षया व्यवहितस्य ग्रहणार्थं पूर्वग्रहणं कृतमित्याह-टि० 2 तयोर्यत्-A. P. H. E. N.