________________ 29 1.1.] प्रमाणलक्षणम् / - अर्थक्रियानि संतु यद्यपि साक्षात् 'प्राप्तिः, तथापि तन्न परीक्षणीयम् / यत्रैव हि प्रेक्षावन्तोऽथिनः साशङ्काः, तत् परीक्ष्यते। अर्थक्रियानि से च ज्ञाते सति सिद्धः पुरुषार्थः। तेन तत्र न साशङ्का अथिनः। अतस्तन्न परीक्षणीयम् / तस्मात् परीक्षार्हमसाक्षात् कारणं सम्यग्ज्ञानमादर्शयितुं कारणशब्दं परित्यज्य पूर्वग्रहणं कृतम् / यदि परम्परयाऽपि प्राप्तिहेतुः परीक्ष्यते तहि साक्षात् हेतुरतितरां परीक्षणीय इत्याहअर्थक्रियानि समिति। तुः प्रवर्तकाध्यक्षादर्थक्रियानिर्भासं भेदवद् दर्शयति / यदा प्राप्तिहेतुरिति पाठस्तदा अर्थक्रियानिर्भासमित्यस्यान्त्यव्याख्यानपक्षे भिन्ना संतोषादिप्राप्तिर्लोकाध्यवसायसिद्धा या तस्या हेतूः / प्राप्तिपाठे तु तद्वयाख्यानानवद्यता। पूर्वव्याख्याने तूपचारात् प्राप्तिहेतुः प्राप्तिशब्देन वक्तव्यः / करणसाधनो वा प्राप्तिशब्दो द्रष्टव्यः / कस्मात् तत् न परीक्ष्यत इत्याह-यत्रैव हि-इति / हिर्यस्मात् / साशङकाः ससंदेहाः / आशङका ग्रहणस्योपलक्षणत्वात् सविपर्यासा इत्यपि द्रष्टव्यम् / एवं ब्रुवर्तश्चायमाशयः-न व्यसनमेतच्छास्त्रकृतो येन ज्ञानमपरीक्षमाणः स्वास्थ्यमलभमानः परीक्षते। किन्तर्हि ? व्युत्पाद्यजनप्रयोजनोद्देशेनायमस्यारम्भः / संशयविपर्यासापसारणं च व्युत्पाद्यजनप्रयोजनम् / ततो यत्रैव ते तथाप्रवत्तयस्तदेव परीक्ष्यत इति / अर्थक्रियानिर्भासेऽपि ते तथावृत्तय इत्याह-अर्थक्रियेति / चशब्दस्तुशब्दस्यार्थे / : कुतो न तथावृत्तयः ? येन साक्षात्कारणेऽस्मिन् सति सिद्धः पुरुषार्थः तेनानन्तरमेव फलस्यानुभूयमानत्वात् / तदैव संतोषादिगमनाद् वा। व्याख्यानद्वयेपि अर्थक्रियानिर्भासशब्दवाच्ये द्वये स्थिते द्वयमेतत् शङ्कायाः कारणम्-अनन्तरफलादर्शनम्, अध्यवसायसिद्धभिन्नप्राप्त्यभावो वा। तदभावे तु कथं शङ्करन्निति भावः / .. मा भूवंस्तत्र साशङ्कास्तत् किं सिद्धमित्याह-अत इति / यदि व्यवहितं प्रवर्तकं पुरुषार्थसिद्धेर्न कारणं तहि कथमुक्तम्-'कार्यात् पूर्व भवत् कारणं पूर्वमुक्तम्' इति ? असाक्षात् कारणे चाकारणे कारण[13b]विशेषणं साक्षादिति निरर्थकमित्याशङक्याह-तस्माद् इति। यस्मात् साक्षात् कारणमाशङ्कानास्पदं सदपरीक्षणीयं तस्माद् यदसाक्षात्कारणमत एव च परीक्षा परीक्षायोग्यं प्रवर्तकं सम्यग्ज्ञानमादर्शयितुमादर्शयिष्यामिइति कारणशब्वं विहाय पूर्वग्रहणं कृतमाचार्येणेत्यर्थात् / एतदुक्तं भवति-योयं कारणशब्दो व्यवहिते कारणकारणे वर्तते नायं तत्राभिधायकत्वेन वर्तते करोतीती कारणमिति व्युत्पत्तेः। किन्तर्हि ? तादादुपचारत इति / १०निर्भासे तु-A. C. P. H. N. निर्भासात्तु B. E. D. 2 प्रवृतिस्तथापि-A. P. H. प्राप्तिहेतुः तथापि C 3 ससन्देहा:-टि. 4 ज्ञाने B. P. H. 5 साशङका अर्थे ज्ञाते A. P. H.