________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.1. पुरुषस्यार्थः 'पुरुषार्थः / अयंत इत्यर्थः काम्यत इति यावत्। हेयोऽर्थः, उपादेयो वा / हेयो ार्थो हातुमिष्यते, उपादेयोऽपि उपादातुम् / न च हेयोपादेयाभ्यामन्यो राशिरस्ति / उपेक्षणीयो२ हनुपादेयत्वात् हेय एव। तस्य सिद्धिः-हानम्, उपादानं च / हेतुनिबन्धना' हि सिद्धिरुत्पत्तिरुच्यते / ज्ञाननिबन्धना तु सिद्धिरनुष्ठानम् / हेयस्य च हानमनुष्ठानम, उपादेयस्य चोपादानम् / ततो हेयोपादेययोर्हानोपादानलक्षणानुष्ठितिः "सिद्धिरित्युच्यते। स्यादेतत्-सत्यपि कारणग्रहणे विचारार्हमेव सम्यग्ज्ञानं प्रतिपत्स्यते। यतस्तद्वथुत्पाद्यत इत्यर्थः, साध्यत्वात्। प्रातिपदिकार्थस्तु कारकत्वाद् गुणः प्रधानानुयायी। तेन प्रधानानुरोधात् तच्छब्दो वर्णितया नीत्या मुख्यस्य कारणस्य सम्यग्ज्ञानस्य व्युत्पत्तिकर्मताऽनुपपत्तेस्तत्प- . रित्यागेन लक्षणया तादर्थ्यभूतया प्रत्यासत्त्यार्थक्रियासमर्थप्रवर्तक एव प्रवर्तिष्यते। यथा मञ्चा क्रोशन्तीत्यत्र प्रधानानुरोधात् मञ्चशब्दः क्रोशनक्रियाकर्तृत्वानुपपत्तेर्मुख्यमर्थं त्यक्त्वा लक्षणया तात्स्थ्यभूतया प्रत्यासत्त्या पुरुषेषु वर्तत इति / सत्यमेतत् / केवलमेवं सति व्याख्यातणामिदं कौशलं स्यान्न शास्त्रकृत इति सर्वमनवद्यम् / .. इदानीं पुरुषार्थसिद्धिपदं विवरिषुः पुरुषशब्देन सार्धमर्थशब्दस्य विग्रहम्, अर्थस्य च स्वरूपं पुरुषस्येत्यादिनाचष्टे। अर्थ्यत इत्याचक्षाणो "अर्थ याच्ञायाम्" इत्यतो णिजन्तात् कर्मण्यचं दर्शयति। अर्थ्यत इत्यस्यार्थं स्पष्टयति-काम्यत इष्यत इत्यनेन यावानेवार्थ उक्तस्तावानेवार्यत इत्यनेनापीति इति यावदित्यस्यार्थः / कोऽसावर्थ इत्याह -हेय इति / वाशब्दश्चशब्दस्यार्थे / अर्थ्यमान इष्यमाणोऽर्थः। : न तर्हि हेयोऽर्थ इत्याह-हेय इति / हिर्यरमात् / हेयो हातुं त्यक्तुमिष्यते तस्मादर्थः / अयमाशयः-इष्यमाणः खल्वर्थः। अत्र यद्यपि स्वीकरणेच्छा नास्ति तथापि परिहारेच्छा तावदस्तीति / यदि हातुमिष्यमाणोऽर्थः कथमुपादेयोऽर्थ इत्याह-उपादेयोऽपीष्यते केवलमुपादातुम् / न केवलं हेय इष्यते इत्यपिशब्दः / ननु च न हेयोपादेयावर्थोऽपि तु अन्योपि / ततः सोऽपि कस्मान्न प्रदर्श्यत इत्याहन चेति / चोवधारणे यस्मादर्थे वा / ... ननूपेक्षणीयोऽपि राशिरस्ति। यत्र न प्रवृत्तिर्यतश्च न निवृत्तिः / तत् कथमनुभवसिद्धस्यापह्नव इत्याह-उपेक्षणीय इति / हिर्यस्मात् / अत्र कश्चिदाह-"यथाऽसावनुपादेयस्तथाऽहेयोपि। तत्र यद्यनुपादेयत्वाद्धेयस्तदाऽहेयत्वादुपादेयः किं न भवति" इति। साधक्तं तेन भदन्तेन केवलं हेयशब्दार्थविचारे मनो न 1 1 नास्तीदं पदं-A. B. D. P. H. E. N. 2 ०णीयोऽनु० A ०णीयोप्यनु B. H. N. ०णीयोपि ह्यनु० C. D. 3 अर्थहेतुनिबन्धना-टि० / 4 हेयस्य हा०-A. B. P. H. E. N. 5 सिद्धिरुच्यते B अर्थ उपयाच्आयाम्-धातुपाठ 10. 373 /