________________ प्रमाणलक्षणम् / .. सर्वा चासौ पुरुषार्थसिद्धिश्चेति / सर्वशब्द इह द्रव्यकात्स्न्ये 'वृत्तो न तु प्रकारकारस्त्यें। ततो नायमर्थः-द्विप्रकारापि सिद्धिः सम्यग्ज्ञाननिबन्धनैवेति / 3 अपि त्वयमर्थ :या काचित् सिद्धिः सा सर्वा कृत्स्नवासी सम्यग्ज्ञाननिबन्धनेति / मिथ्याज्ञानाद्धि काकतालीयाऽपि नास्त्यर्थसिद्धिः। तथा हि-यदि प्रदर्शितमर्थ प्रापयत्येवं ततो भवत्यर्थसिद्धिः / प्रणिहितम / तथाहि-हीयते, त्यज्यते, न स्वीक्रियते इति हेयः / हानञ्चास्वीकरणम / न तु गृहीत्वा परित्यागः / तेन अहिविषकण्टकादीनामपि हानं तत्रा[14a]प्रवृत्तिरेव / सा चोपेक्षणीयेऽप्यस्ति / तथा च यदि तस्य स्वीकारो भवेत्, तदाऽहेयत्वं सिद्धिमध्यासीत / न च तत् स्वीक्रियत इति व्यक्तमयं हेतुरसिद्धस्तस्य / न त्वस्माकमसिद्धः / अनुपादेयत्वस्यअस्वीकर्तव्यत्वस्य सिद्धत्वात् / अथानुभवसिद्धस्य तृतीयराशेरुपेक्षणीयस्यास्वीकरणमात्राद्धयेन सार्धमैक्यप्रतिपादनमयुक्तमिति चेत् / प्रियमक्तं प्रियेण / न हि वयमपि प्रसिद्धयोर्हेयोपेक्षणीययोरर्थयोरेकस्वभावतामातिष्ठामहे। किन्तु क्रियानिमित्तेन हेयशब्देनकाभिधानम् तथाऽस्वीकरणार्थेन हानशब्देनोपेक्षाया अभिाधनमिति किमवद्यम् ? एतच्च हेयोपादेयत्वमर्थस्यैकपुरुषककालापेक्षया प्रत्येयम् / . . .. अधुना सिद्धिशब्दस्यार्थपदेन विग्रहं ब्रुवन्नर्थमाह-तस्य-इति / ननु लोके सिद्धिनिष्पत्तिरुच्यते, यथौदनस्य सिद्धिरिति / तत्कथमेवं वर्ण्यत इत्याह हेतुनिबन्धनेति / हेतुः कारणं निबद्धयतेऽस्मिन्निति निबन्धनं प्रतिबन्धविषयः / हेतुर्निबन्धनमस्या इति विगृह्य हेतुप्रतिबद्धत्यर्थो वक्तव्यः / यदि जनकनिबन्धना सिद्धिरीदशी तहि ज्ञाननिबन्धना कीदशी भविष्यतीत्याह-ज्ञानेति / तुः पूर्वस्याः सिद्धरस्या भेदं दर्शयति। एवं च व्याचक्षाण अर्थपदव्याख्याने "अर्थःप्रयोजनं दाहादि।" सिद्धिपदव्याख्याने च "तस्य दाहादेनिष्पत्तिः” इति यद् विनीतदेव-शान्तभद्रो व्याचक्षातां तद् द्वयमप्यपास्यति। यतः स्वहेतोरेव वह्नयादेर्दाहादेनिष्पत्तिर्न तु ज्ञानात् तस्य तदकारकत्वादिति / नन यदि सिद्धिरनष्ठानं तहि हानमपादानं च कथं सिद्धिरित्याह-हेयस्य च-इति / चो हेतौ, अवधारणे वा। हानमित्यस्मात्परो द्रष्टव्यः / द्वितीयश्चकारः समुच्चयार्थः / किमेवं सति सिद्धमित्याह-तत इति। यतो ज्ञाननिबन्धना सिद्धिरीदृशी ततस्तस्मात्कारणात् / पुरुषार्थसिद्धिशब्दानां विग्रहमर्थं च व्याख्याय सम्प्रति सर्वशब्दं व्याख्यातुं विग्रहमाहसर्वा च-इति / एवं च विगृह्णन् यद् विनीतदेवेन व्याख्यातं "सर्वश्चासौ लौकिको लोकोत्तरश्चासन्नदेशो दूरदेशश्च पुरुषार्थश्चेति, तथा तस्य सिद्धिरिति” तद् दूषयति / एवं हि 'प्रवृत्तः -D. निबन्धनेति A. B. D. PH. E 5 एवमिति सम्यग्ज्ञानवत्-टि. 2 न च प्र. B. H न प्रकार C. P. E. निबन्धनैवेति A. P. H. E ततो मिथ्याज्ञानात्-टि० .