________________ -32 प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.1. प्रदर्शितं च प्रापयत् सम्यग्ज्ञानमेव / प्रदर्शितं चाप्रापयत् मिथ्याज्ञानम् / अप्रापकं.च कथमर्थसिद्धिनिबन्धनं स्यात् ? तस्माद् यन्मिथ्याज्ञानं न ततोऽर्थसिद्धिः। यतश्चार्थसिद्धिस्तत् सम्यग्ज्ञानमेव / अत एव सम्यग्ज्ञानं यत्नतो व्युत्पादनीयम् / यतस्तदेव पुरुषार्थसिद्धिनिबन्धनम् / व्याख्यायमाने सर्वशब्देन पुरुषार्थसिद्धरविशेषणाद् मिथ्याज्ञानात् काकतालीयार्थसिद्धिरनिवा- . रिता स्यात् / न च सा सम्भविनी। यथा च सा न सम्भवति, तथाऽनन्तरमेव प्रतिपादयिष्यते। योऽपि शान्तभद्रः “सर्वश्चासौ पुरुषार्थश्च, सर्वेषां वा पुरुषाणामर्थस्तस्य सिद्धिरिति" व्याचष्टे सोऽप्यनयैव द्वारा निराकृतः / ननु सर्वशब्दस्य प्रकारकात्य॑वृत्तेरपि दर्शनान्न ज्ञायते किंवृत्तिरत्राभिप्रेत इत्याहसर्वशब्द इति / द्रव्यस्य निःशेषतायां वृत्तः प्रवृत्तो वाचकभावेन / यथा "सर्वोत्पत्तिमतामीश्वरो निमित्तकारणम्" इमत्य[14b]त्र। द्रव्यशब्देन चेदंतदिति व्यपदेशयोग्यं ग्रहीतव्यम्। न तु वैशेषिकसिद्धान्तप्रसिद्धं पृथिव्यादि / तदुक्तम् __"वस्तूपलक्षणं यत्र सर्वनाम प्रसज्यते / - द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः // " इति / पुरुषार्थसिद्धिरपीदंतदिति व्यपदेशयोग्या / तेन साऽपि द्रव्यम् / तथावृत्तेरस्य ग्रहणादन्यवृत्तितया प्रसिद्धस्यापि प्रतिषेधं कण्ठोक्तं करोति / वृत्त इति वर्तते / यथा पूर्वे व्याचक्षते "सर्वरसभोक्ताऽयं भिक्षाकः" इति / यथाऽयं सर्वशब्दः प्रकारकात्य॑वाची तद्वदत्रापीति / प्रकारकात्य॑वृत्तेरग्रहणे को गुण इत्याह-तत इति। ततः प्रकारकत्र्त्यवृत्तस्याग्रहणात् / तथापि कथमयमर्थो भवतीति चेत् / भवति हि प्रकारकात्य॑वचने सर्वशब्दे सत्ययमर्थः-न सोऽस्ति पुरुषार्थसिद्धेः प्रकार: फललक्षण उपादानलक्षणो वा यो न सम्यग्ज्ञाननिबन्धन इति / सति चैवं द्विप्रकाराऽपि सिद्धिः सम्यग्ज्ञानविकेत्ययमों भवति / ननु चास्मिन्नप्यर्थे प्रकारद्वितयस्य संगृहीतत्वात् किमसंगृहीतं नाम येनायमर्थो यत्नेन महता हीयत इति ? कथं न हीयतां कस्याश्चित् तत्प्रकारान्तःपतिताया हानव्यक्ते:२.....। न हि षडपि रसप्रकारान् भुजानः कश्चिन्मधुराम्लादिरसव्यक्तीः सर्वा एव भुङक्ते। न च तथाऽकुर्वन् सर्वरसभोक्ता न भवतीति / यद्ययं नार्थः कस्तीत्याह-अपि तु इति / निपातसमुदायोऽयं किन्त्वित्यस्यार्थे सर्वत्र वर्तते। नन कृत्स्नवासौ सम्यग्ज्ञाननिबन्धनेत्युच्यमाने मिथ्याज्ञानात् काकतालीयाऽप्यर्थसिद्धिनास्तीति दर्शितं स्यात् / न चैतद् युज्यते / यतो यद्यपि मिथ्याज्ञानान्नियमवती नास्त्यर्थसिद्धिः, तथापि कादाचित्की विद्यत एव / यथा कश्चित् दहनोपरिवर्ति मशकवतिं धममवसायाग्निमनुमाय यदि प्रवृत्त्याऽग्निमासादयति / अत एव च मिथ्याज्ञानस्य कादाचित्कार्थ 1 सिद्धेः B. सम्यक् न पठ्यते।