________________ 1.1.1 प्रमाणलक्षणम् / सिद्धिनिबन्धनत्वात्, सम्यग्ज्ञानस्य तु नियमेनार्थसिद्धिनिबन्धनहेतुत्वात्सम्यग्ज्ञानमेव यत्नतो व्युत्पाद्यते / न स्वेतावता मिथ्याज्ञानान्नास्त्येवार्थसिद्धिः / प्रकारकात्य॑वृत्तग्रहणे तु नायं दोषः / एवं हि सम्यग्ज्ञानासाध्यः परं प्रकारो निराक्रियते / न तु तत्प्रकारान्तःपातिन्याः कस्याश्चित् सिद्धिव्यक्तेमिथ्याज्ञानसाध्यत्वम् / न च हानोपादानव्यक्तयः प्रत्येक प्रकारशब्दवाच्याः प्रकारानन्त्यप्रसङ्गात् / तस्मात् सर्वशब्दः प्रकारकात्य॑वृत्तिरेव ग्रहीतव्यः-इति पूर्वेषां मतमाशङक्याह-मिथ्येति / काक-तालयोः संयोग इवाकस्मिकी काकतालीया / कुतो नास्तीत्याह तथा हीति / तत इति मिथ्याज्ञानात् / तदपि प्रापयत्येवेत्याहप्रदर्शितम् इति। चो यस्मात् / प्रदर्शितं प्रापयदपि मिथ्याज्ञानं भविष्यति। ततः सम्यग्ज्ञानमेवेत्यवधारणमयुक्तमित्याह-प्रवशितम् इति / चोऽवधारणे अप्रापयदित्यतः परो द्रष्टव्यः / "लक्षणहेत्वोः" [पाणिनि 3. 2. 126] इति हेतौ शतुर्विधानात् / प्रदर्शितार्थाप्रापणादेव मिथ्याज्ञान[15a]मित्यर्थः / मिथ्याज्ञानस्य हीदमेव तत्त्वं यत् प्रदर्शिताप्रापकत्वं नाम / प्रापके तु मिथ्याज्ञानव्यपदेशः समारोपितः स्यादिति भावः / मा भूत् प्रापकम् , तदर्थसिद्धेस्तु निबन्धनं कि न स्यादित्याहअप्रापकमिति। चो यस्मादर्थे / तस्मादित्यादिनोक्तार्थोपसंहारं करोति / यस्मादुपदर्शिताप्रापकमेव मिथ्याज्ञानं तस्माद् यत्किञ्चिन्मिथ्याज्ञानं ततः सर्वत एव नार्थसिद्धिः / यः पुनरकस्माद् वहरुपरि मंशकवर्ति धूममवसाय वह्निमवस्यति, सोऽप्यनुमानकालात्पूर्वं यावन्मशकवादिम्यो व्यावृत्तं वह्निकार्य नियतं धमरूपं निरूप्य विवेचितं तदानीमनुमानकाले नानुसरति, तदनुसरणे भ्रान्त्ययोगात , तावदनिवर्तिते संशयहेतौ, तिष्ठतु तावन्मशकवर्तिदर्शनम् , सत्यधूमदर्शनेऽपि संदिग्धवह्निकार्यत्वात्कथं निःशङ्को नाम सचेतनः / तस्मानिश्चितनियतरूपादेव धूमाद् वह्निनिश्चयः। अन्यस्मात्त्वेकांशावग्रहोऽप्यनिवर्तितशङ्काहेतुः संशय एव / संशयश्च भावाभावानियतस्यार्थस्याशक्यप्रापणस्य दर्शको नार्थसिद्धनिबन्धनम् / ज्ञानान्तरादेव तु सा प्राप्तिरित्यस्याभिप्रायः / एवमन्यत्रापि मिथ्याज्ञाने यथा प्रामाण्यं न युज्यते, यथा च ज्ञानान्तरादेव सा प्राप्तिस्तथा धर्मोत्तरेणव विनिश्चयटीकायां विपञ्चितमिति नेह प्रतन्यते / कुतश्चिदर्थसिद्धिरपि स्यादित्याह—यतश्च-इति। चोऽन्यस्माद् भेदवद्रूपमुपदर्शयति / अर्थसिद्धिनिबन्धनं मिथ्याज्ञानमाचार्यस्यापि नाभिमतमिति सामर्थ्याद् दर्शयति / यदाऽऽह. अत एवेति / यत एव मिथ्याज्ञानादर्थसिद्धिर्नास्ति, सम्यग्ज्ञानाच्चास्त्येव / अतोऽस्मादेव हेतोः / यत्नग्रहणमनुषङ्गेण मिथ्याज्ञानव्युत्पादनं दर्शयति / मिथ्याज्ञानस्यापि कस्यचिद् व्युत्पादनादित्युक्तप्रायम् / अत एवेत्यनेन यदेव हेतुत्वेनापेक्षितं तदेव यत इत्यादिना सुखप्रतिपर्त्यर्थं .. कण्ठोक्तं करोति / अयमाशयः-यद्याचार्यो मिथ्याज्ञानादप्यर्थसिद्धि भवित्रीमभिप्रेयात्, तदा न सम्यग्ज्ञानमेव प्रस्तारेण व्युत्पादयेत् / तदेव च तथा व्युत्पादितवान् / अतोऽवसीयते नैव तस्येदमभिप्रेतमिति / . नन सम्यज्ञानपूविकैवेत्यवधारणे सति मिथ्याज्ञानादर्थसिद्धिर्नास्तीति लभ्यते / न 'चोपात्तमवधारणम् / तत्कथमयमर्थो लभ्यत इत्याह-तत इति / यतः सर्वशब्दे द्रव्यकात्य॑