________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.1. ततो यावद् ब्रूयात् 'या काचित् पुरुषार्थसिद्धिः २सा सम्यग्ज्ञाननिबन्धनैवेति तावदुक्तं / सर्वा सा सम्यग्ज्ञानपूविकेति / इतिशब्दस्तस्मादित्यस्मिन्नर्थे / यत्तदोश्च नित्यमभिसम्बन्धः / तदयमर्थ:-“यस्मात सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः, तस्मात् तत्' सम्यग्ज्ञानं व्युत्पाद्यते। यद्यपि च समासे गुणीभूतं सम्यग्ज्ञानं तथापीह प्रकरणे व्युतपादयितव्यत्वात् प्रधानम्। ततस्तस्यैव तच्छब्देन सम्बन्धः / 8 व्युत्पाद्यते इति विप्रतिपत्तिनिराकरणेन प्रतिपाद्यते' इति // वृत्तौ सति सर्वा कृत्स्ना पुरुषार्थसिद्धिः सम्यग्ज्ञानपूर्विका, न तु काचिद् व्यक्तिरस्ति या न . तत्पूविकेत्ययमों लभ्यते, ततः कारणात् पुरुषार्थसिद्धिः सम्यग्ज्ञाननिबन्धनैवेति सावधारणं वाक्यम् / यत्परिमाणमभिधेयं ब्रूयाद् वक्तुं शक्नोति, तावत्परिमाणमुक्तम् सर्वा सम्यग्ज्ञानपूविकेत्यनेन / वर्ततामितिशब्दस्तस्मादित्यस्यार्थे / क्व पुनर्यत् शब्दोऽस्ति .येन वक्ष्यमाणार्थसङ्गतिरित्याह-यद् इति / चो [15b] व्यक्तमेतदित्यस्मिन्नर्थे / शब्दयोः साक्षादन्योन्यापेक्षाभावात् यत्तदर्थयोरिति द्रष्टव्यम् / अभिसम्बन्धो व्यपेक्षा / एवं सति कीदृशोऽर्थो व्यवतिष्ठत इत्याह-तद् इति / ननु बहुब्रीहौ गुणीभूतं सम्यग्ज्ञानं तत्कथं तस्याप्रधानस्य प्रधानप्रत्यवमर्शिना तच्छब्देन परामर्शः स्यादित्याह-यद्यपि चेति / यद्यपि चेति निपातसमुदायो विशेषा भिधानार्थाभ्युपगमे वर्तते। महाभाष्ये चायं प्रायेण दृश्यते / समास इति समासार्थ इत्यर्थः / व्युत्पादयित-- व्यत्वात्प्रधानमित्यभिदधतोऽयमाशयः-द्वेधा हि प्राधान्यं शब्दतोऽर्थतश्च / तत्र शाब्देन न्यायेनासत्यपि प्राधान्ये सम्यग्ज्ञानस्य व्युत्पादयितव्यतया बुद्धयन्तरेणोपस्थापितस्य स्वतन्त्रस्याऽऽर्थेन न्यायन प्राधान्यं कोऽपहस्तयेदिति तच्छब्देन तस्य परामर्शो न विरुद्ध्यत इत्येवं व्याचक्षाणो विनीतदेवव्याख्यां तिरस्करोति। एवं ह्यसौ व्याचष्टे-"तदिति नपुंसकलिङ्गेन निर्देशात् सम्यग्ज्ञानं परामृश्यत" इति / सम्यग्ज्ञानस्याप्राधान्येन परामर्शानुपपत्तौ तल्लिङ्गग्रहणस्यैवायोगात् कथमसिद्धेन साध्यतामित्याशयः / ततः प्राधान्यात्तस्यैव सम्यग्ज्ञानस्य 1 अयात पुरु० B. C. P. H. E. 2 सिद्धिः सम्य A.C. P. H. E. 3 सर्वा सम्य० D . 4 तस्मात् P 5 तद्वयुत्पा० A P HE 6 ननु बहुव्रीहिणा सर्वपुरुषार्थसिद्धिरुच्यते। ततः प्राधान्यात् तच्छब्देन तत्सम्बन्धो युक्तो न तु ज्ञानस्येत्याह-टिक 7 यद्यपि समा० C 8 एवं मन्यते-विप्रतिपत्तिनिराकरणद्वारेण सम्यग् ज्ञाप्यतेऽनेन प्रकरणेनेति वक्ष्यमाणलक्षणयुक्तं सम्यग्ज्ञानं नान्यलक्षणयुक्तमिति स्वरूपकथनम् / तामेव विप्रतिपत्ति क्रमेण दर्शयति-टि० 9 प्रतिपाद्यते व्युत्पाद्यत इति E. P.