________________ द्विविधं प्रमाणम् / चतुविधा चात्र विप्रतिपत्तिः संख्या-लक्षण-गोचर-फलविषया। तत्र संख्याविप्रतिपत्ति निराकर्तुमाह द्विविधं सम्यग्ज्ञानम् // 2 // द्विविधम्' इति-द्वौर विधौ प्रकारावस्येति द्विविधम् / संख्याप्रदर्शनद्वारेण च व्यक्तिभेदो दर्शितो भवति / तच्छब्देन सम्बन्धनं सम्बन्धः स्वीकार इति यावत् / ततोऽयमर्थः-तत् सम्यग्ज्ञानं कर्मभूतं विप्रतिपत्तिनिराकरणेन प्रतिपाद्यते बोध्यते शिष्यजन इत्यर्थात् / अत एव तदिति द्वितीयान्तमेतदिति सोपपत्तिकमाह। 3“समयं स्म (स्मा)र्यते परः" इति यथा / विप्रतिपत्तिनिराकरणेन प्रतिपाद्यत इति ब्रुवता लक्षणं न विरुध्यते। "प्रसिद्धानि प्रमाणानि"न्याया० 2] इत्यादि तदपहस्तितं वेदितव्यम् / ननु वार्तिकादिनैव सम्यग्ज्ञानस्य व्युत्पादनात् कथमस्य न वैयर्थ्यमिति चेत् संक्षिप्तरुचीन् प्राज्ञानधिकृत्येदं प्रकरणं प्रणीतमित्यदोषः / . अथ काऽत्र विप्रतिपत्तिः यन्निराकारणेनेदं प्रतिपाद्यत इत्याह-चतुर्विधेति / चो यस्मात् / चतुर्विधा चतुःप्रकारा / अत्र सम्यग्ज्ञाने विरुद्धा प्रतिपत्तिविप्रतिपत्तिः / किविषया सेत्याह-संख्येति / अनेन विषयभेदाच्चातुर्विध्यं विप्रतिपत्तेर्दर्शितम् / तथाहि संख्याविप्रतिपत्तिस्तावत् प्रत्यक्षमेवेकं प्रमाणमिति लोकायतिकानाम् / प्रत्यक्षानमानाप्तवचनानि : त्रीण्येय प्रमाणानीति सांख्यानाम् / आर्षस्य ज्ञानस्य प्रतिभापरनाम्नः कदाचिदिह लौकिकानामुत्पद्यमानस्य प्रत्यक्षानुमानयोरेकत्राप्यन्तर्भावाप्रदर्शनात्प्रत्यक्षानुमानार्षाण्यवेति चिरन्तनवैशेषिकाणाम / प्रत्यक्षानमानोपमानशब्दा एवेति नैयायिकानाम। प्रत्यक्षानमानोपमानशब्दार्थापत्तय . एवेति प्राभाकराणामिति / प्रत्यक्षानुमानोपमानशब्दार्थापत्यभावा एवेति कौमारिलानाम् / लक्षणविप्रतिपत्तिरपि–सविकल्पकमेव प्रत्यक्षमिति वैयाकरणबार्हस्पत्यादीनाम् / सविकल्पक निविकल्पकं चेति नैयायिक[16a]मीमांसकादीनाम् / पीतशङ्खादिज्ञानं भ्रान्तमपि प्रत्यक्षमित्यंशसंवादवादिनाम्। एकलक्षणहेतूजमनमानमित्यहीकाणाम् / षड्लक्षणहेतुजमिति पूर्वयोगानाम् / पञ्चलक्षणहेतुजं चतुर्लक्षणहेतुजं चे (वे)ति नैयायिकानाम् / विषयविप्रतिपत्तिरपि सामान्यविषये प्रत्यक्षानमाने इति नैयायिकमीमांसकादीनाम् / फलविप्रतिपत्तिरपि-सर्वेषां प्रमाणा(ण)व्यतिरिक्तमेव प्रमाणरू(प्रमारू)पं फलमिति / तत्र तासु मध्ये संख्यात्वजात्या निर्धार्यते। ततो निर्धारणे युक्तं द्वौ विधौ प्रकारावस्येति विगृह्णन् विधशब्दोऽप्यस्ति प्रकारवाचीति दर्शयति / तथा हि प्रकीर्णवृत्तिकृद्धर्मपालेनापि 2 द्वे विधे B... ' 'द्विविधम्-इति' इति नास्ति H. - 3 "स्मार्यते समयं परः" प्रमाणवा०४. 267