________________ [1.2. प्रथमः प्रत्यक्षपरिच्छेदः / ' एव सम्यग्ज्ञानव्यक्ती इति / २व्यक्तिभेदे च प्रदर्शिते प्रतिव्यक्तिनियतं सम्यग्ज्ञानलक्षणमाख्यातुं शक्यम् / अप्रदर्शिते तु व्यक्तिभेदे सकलव्यक्त्यनुयायि सम्यग्ज्ञानलक्षणमेकं न शक्यं वक्तम / ततो लक्षण कथनाङ्गामेव संख्याभेदकथनम् / अप्रदर्शिते 'तु व्यक्तिभेदात्मके संख्याभेदे लक्षणभेदस्य दर्शयितुमशक्यत्वात् / लक्षणनिर्देशाङ्गत्वादेव च प्रथमं संख्याभेदकथनम् // विधशब्दः प्रकारवाची प्रदर्शितः / न पुनरस्यायमभिप्रायः-विधा(ध)शब्दो जातिवाचित्वात्प्रकारवाची न भवतीति / अनेकार्थत्वात्तस्य प्रकारवाचिनोऽपि प्रयोगस्य "चतसृषु चैवंविधासु तत्त्वं परिसमाप्यते" [न्यायभा० पृ० 2] इत्यादावनेन प्रायशो दृष्टत्वात् / ननु कथं नाम प्रमाणादेव प्रवर्तेय नाप्रमाणादिति प्रतितुमनाः प्रमाणस्य लक्षणमेव जिज्ञासते न सङख्याम् / ततो लक्षणमेव व्युत्पाद्यं न संख्या। तच्च लक्षणं यद्यकस्यैवास्ति तदेकमेव प्रमाणम् / अथ बहूनां तदा प्रमाणबाहुल्यमनिवार्यमेव / अथ तल्लक्षणं नैकस्यैवास्ति,, नापि बहूनाम् / तहि लक्षणव्युत्पत्ती सामर्थ्यात्संख्याविप्रतिपत्तिनिराकृता भवतीति किं पृथक संख्याविप्रतिपत्तिनिराकरणेनेत्याह-संख्येति / चो यस्मादर्थे / द्वारमुपायः / केनाकारेण दर्शितो भवतीत्याह-द्वे इति / इतिना व्यक्तिभेदस्य स्वरूपमाह / व्यक्तिभेदेनैव दर्शितेन किं प्रयोजनमित्याह-व्यक्तिभेदे चेति। चो यस्मादर्थे / यद्यदर्शितेऽपि व्यक्तिभेदे लक्षणाख्यानं शक्यं तथापि किं दर्शितेनेत्यन्वयमात्रादप्रतिपत्तेर्व्यतिरेकमपि दर्शयितुमाहअप्रदर्शित इति / तुः प्रदर्शनपक्षादप्रदर्शनपक्षस्य भेदमाह। सकलव्यक्त्यनुयायीति ब्रुवतोऽयं भावः-व्यक्तिभेदानुपदर्शने प्रतिव्यक्तिनियतस्य लक्षणस्याख्यातुमशक्यत्वात् / लक्षणमुच्यमानं सकलव्यक्त्यनुयायि तदेकं वक्तव्यम् / न च तद् वक्तुं शक्यमसम्भवादेवेति / - ननु किमुच्यते सकलव्यक्त्यनुयायि वक्तुमशक्यमिति यावताऽविसंवाविज्ञानं प्रमाणमित्यस्ति लक्षणमेकं सुवचमपीति / सत्यम् / केवलं ज्ञानानां यत्प्रातिस्विकं रूपं प्रवृत्तिकामानां प्रवृत्त्युपयोगि, तदुपलक्षणं नास्तीत्यभिप्रायाददोषः। यद्वा विप्रतिपत्तिनिराकरणप्रवणं यत्साधारणं लक्षणं तन्नास्ति / यच्चाविसंवादित्वं लक्षणं न तेन विप्रतिपत्तिनिराकृता भवति / अन्यत्रापि परैरविसंवादित्वस्येष्टत्वादित्यनेनाभिप्रायेणोक्तम्-न शक्यमेकं वक्तुमिति विशेषप्रतिषेधसामर्थ्यात् शेषविधिसिद्धौ च तथाभूतस्य साधारणस्य सम्भवादेव सकलशब्दोऽयमपयुक्तकात्स्न्ये प्रवर्त[16b]नीयः / तेनायमर्थः-प्रदर्शितव्यक्तिभेदात्मकचतुर्विधप्रत्यक्षानुयायि कल्पना:पोढाभ्रान्तत्वम्, प्रदर्शितव्यक्तिभेदात्मकद्विविधानुमानानुयायि त्रिरूपलिङ्गजत्वं शक्यं वक्तुमिति। यदि नामैवं ततः किमित्याह-तत इति / यतोऽप्रदर्शिते न शक्यमेकं तथाविधं दर्शयितुं ततस्तस्मात् / लक्षणकथनाङ्गमिति प्रतिव्यक्तिनियतलक्षणकथनाङ्गमित्यवसेयम् / ' द्वे सम्य० A. P. E. 2 ननु सम्यग्ज्ञानलक्षणे कथिते सति पश्चात् तद्भेदः प्रदर्शयितुं युज्यत इत्याह-टि० 3 व्यक्तिभेदे प्रद० A. P. H. E. N. भेदे प्रद० B. व्यक्तिभेदे च दर्शिते D. 4 लक्षणभेदकथ० A. B. D. P. H. E.N. 5 च C. अप्रदर्शिते व्य० A.E.