________________ 1...]. द्विविधं प्रमाणम् / ___कि पुगत्तन् वैविध्यमित्याह .. प्रत्यक्षमनुमानश्चेति // 3 // अथ तथाविधं लक्षणमेकं वक्तुं न शक्यतां नाम। किमत: ? केवलमदर्शितेऽपि संख्याभेदे लक्षणभेदो दर्शयितुं शक्यताम् / तत् कस्मात्तत्कथनाङ्ग संख्याभेदकथनमित्याशङक्यान्वयमुखेनोक्तमयं द्रढयितुं व्यतिरेकमुखेणाह-लक्षणेति / लक्षणभेदस्य प्रतिव्यक्तिभिन्नस्य दृष्टस्य / कदा दर्शयितुमशक्यत्वं यत एवं भवतीत्याकाङक्षायाम-अप्रदर्शित इति पश्चाद् योजनीयम् / तुरवधारयति, प्रदर्शिताद् वा भिनत्ति / नन वन संख्याभेद एव व्यक्तिभेदः / तत् कथं व्यक्तिभेदात्मक इत्युच्यत इति चेत् / वस्तुतः संख्येयादन्यस्याः संख्याया वास्तव्या अभावेन संख्यासंख्येययोरेकत्वविवक्षया चैवमुच्यते। पूर्वं तु कल्पनानिर्मितात्मनां(ना) भिन्नामवलम्ब्य संख्याप्रदर्शनद्वारेणेत्युक्तम् / संख्यासंख्येययोरेकत्वविवक्षयैव च संख्याविप्रतिपत्ति निराकर्तुमाहेत्युक्तमवसेयम्। परमार्थतस्तु प्रत्यक्षामनुमानं वेत्युक्तेः संख्यासंख्येयविपत्तिपत्तिरेव निराकृतेति / अथवा . बस्तु(व्यक्ति)भेदस्तदात्मा तथाविषः कल्पनाशिल्पिनिमितो यस्य संख्याभेदस्य स तथोक्तः / परमार्थतो भिन्ने हि वस्तुनि संख्याभेद: कल्प्यत इति वास्तवरूपानुवादमिदमुक्तमिति किमवद्यम् ? सर्वेण चानेन नै(चाने)तदुक्तम्-प्रवृत्तिकामानामपयोगित्वाल्लक्षणमेव वक्तुं युक्तं तदेतत्त्वन्यथा न शक्यमाख्यातुमिति संख्याभेदप्रदर्शन मिति / नन्वसत्यपि द्विविधमिति संख्याभेदप्रदर्शने तत् सम्यग्ज्ञानं प्रत्यक्षमनुमान चेत्युक्तेऽपि व्यक्तिभेदो दर्शितो भवत्येव / सति चैवं लक्षणभेदाख्यानमपि सुकरमिति कृतं द्विविधशब्देनेति . चेत् / सिद्धे सतीदं वचनं द्विविधमेवेति नियमार्थमिति ब्रूमः / इतरथेह तावदेतावद्वयुत्पाद्यतया प्रस्तुतमन्यत्र पुनरन्यदप्यस्ति व्युत्पाद्यं सम्यग्ज्ञानमित्याशङ्काहत्य न निराकृता स्यादिति / यत्पुनरुक्तम्-तहि लक्षणव्युत्पत्त्यैव संख्याविप्रतिपत्तिनिराकृता भवतीति तदत्यन्तमसङ्गतम् / यतो यदि विशेषलक्षणमभिप्रेत्येदमुच्यते; तदा व्यक्तिभेदानुपदर्शने प्रतिव्यक्तिनियतं तदेवाशक्यं (य)कथनमित्युक्तम् / न चोक्तमिति तथा कर्तुमीष्टे / यतस्तदीदृशं प्रत्यक्षमनुमानं चेत्येतत्कत्तुं शक्नोति / न त्वाभ्यामन्यन्न सम्यग्ज्ञानमिति / अथ सामान्यलक्षणम् / तदपि तथाविधं साधारणं वक्तुमशक्यमिति केन तथा क्रियताम् ? न च तेनोक्तेनापि तादृशी विप्रतित्तिनिराक्रियत इत्युक्तम् / अथापि स्यात्-द्विविधमित्युक्तेऽपि कथ[17aमाभ्यामन्यस्यासम्यग्ज्ञानत्ववि(त्वाधि)गम: ? उच्यते। ये तावदाचार्यप्रमाणका व्युत्पित्सवस्ते तद्वचनमात्रेणैव विवक्षितमर्थ बोध्यन्ते / ये ते युक्त्यनुसारिणस्तेभ्योऽपि प्रकरणान्तरेषपपत्तिरुदाहृता। प्राज्ञजनाधिकारेण चास्य प्रकरणस्य प्रारम्भात्स्वयमेव तैरुपपत्तिरुक्तेति न संख्यावचनमनुपादेयमिति। अस्तु लक्षणनिर्देशाङ्गम् , आदौ तु कस्मादुच्यत इत्याह- लक्षण इति / चस्तुल्योपायत्वं समुच्चिनोति / यथाकथञ्चिद् द्वैविध्यसम्भवे पृच्छति-किं पुनरिति / किमिति सामान्यतः, पुनरिति 'नास्ति 'इति' पदं B. P. H. E. N प्रतिषु किन्तु विद्यते तत्पदं C. D प्रतयोः।